परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 331, कुल 373 में से
संदर्भ में पढ़ें९३-९५ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३०१
इयं चानित्या, द्वयोरिति निर्देशात् । अनित्यत्वबललभ्यार्थमादायैव
‘भ्यसोऽभ्यमि’ति सूत्रे भाष्ये निष्ठातस्येति पठितम् ।
केचित्तु अनया परिभाषया न किञ्चिल्लक्ष्यं साध्यते । अत एव
‘ज्ञाजनोर्जा, ज्यादादीयस’ इति सूत्रयोरेनां ज्ञापयित्वा किं प्रयोजनमिति
प्रश्ने पिबतेर्गुणप्रतिषेध उक्तः, स न वक्तव्य इत्येव प्रयोजनमुक्तम्, न तु लक्ष्य-
सिद्धिरूपम् । तदुक्तम्—‘भ्यसोऽभ्यमि’त्यत्राभ्यमिति च्छेदः शेषे लोपश्चा-
न्त्यलोप एव ‘अतो गुणे’ इति पररूपेण सिद्धं ‘युष्मभ्यमि’त्यन्यत्र निरू-
पितम् । एवञ्च सूत्रद्वयस्थमेतज्ज्ञापनपरं भाष्यं ‘भ्यसोऽभ्यमि’ति सूत्रस्थं
च भाष्यमेकदेश्युक्तिरित्याहुः ॥ ९३ ॥
यत्तु ‘ओरोदि’ति वाच्ये ‘ओर्गुण’ इति गुणग्रहणात्—
संज्ञापूर्वकविधेरनित्यत्वम् ॥ ९४ ॥
—: ✤ :—
इयं च विधेयकोटो संज्ञापूर्वकत्व एव, तेन ‘स्वायम्भुवमि’त्यादि
सिद्धम् ।
तथा निलोडित्येव सिद्ध आनिग्रहणात्—
आगमशास्त्रमनित्यम् ॥ ९५ ॥
—: ✤ :—
पत्तिर अत आह—अनित्येति । निष्ठातस्येति । परिनिष्ठितस्येत्यर्थः । एवञ्च यत्राङ्गाधिकblockारीय-
कार्यप्रवृत्त्युत्तरं लक्ष्यस्य परिनिष्ठितत्वं सम्पद्यते, तत्र द्वितीयमङ्गाधिकारोयं कार्यं न
प्रवर्तते । यत्र तु न तथा, तत्र पुनरङ्गाधिकारीयमपरं प्रवर्तते एव । परिनिष्ठितत्वज्ञानं
च शिष्टप्रयोगादितो ज्ञेयमिति तदाशयः ।
प्रयोजनमुक्तमिति । तच्च पिबादेशस्य आदन्तत्वादन्यथासिद्धमिति भावः । इत्यन्य-
त्रेति । इत्यादिरस्या विषयोऽन्यत्र शेखरे शब्दरत्ने च विस्तरेण निरूपित इत्यर्थः ।। ९३।।
इयं चेति । यत्र शास्त्रे संज्ञाशब्दो विधेयताप्रयोजकस्तस्याऽनित्यत्वमित्यर्थः ।
धर्मिग्राहकमानसिद्धस्यार्थस्यास्वीकारे तु प्रायः शास्त्रमात्रस्य संज्ञापूर्वकत्वेन अनित्यत्व-
स्वीकारेऽनिष्टप्रसङ्ग इति भावः । स्वायम्भुवमिति । अत्र संज्ञापूर्वकत्वेन गुणस्याप्रवृत्ते-
रुवङ् सिद्धयति ।
मूले—न तु लक्ष्यसिद्धिरूपमिति । 'युष्मभ्यम्, दवयति, स्रजयति' इत्यादिलक्ष्याणा-
मन्यथासिद्धत्वादिति शेषः । तत्राऽऽद्यस्य सिद्धिप्रकारमाह मूले—तदुक्तमिति । अस्याः लक्ष्या-
साधकत्वमित्यर्थः ॥ ९३ ॥