परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 332, कुल 373 में से
संदर्भ में पढ़ेंतेन 'सागरं तर्तुकामस्ये'त्यादि सिद्धम् ।
तथा तनादिपाठादेव सिद्धे 'तनादिकृञ्भ्य' इति सूत्रे कृञ्ग्रहणात्-
गणकार्यमनित्यम् ॥ ९६ ॥
-: ❖ :-
तेन 'न विश्वसेदविश्वस्तमि'त्यादि सिद्धम् ।
तथा चक्षिङो ङित्करणात्-
अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् ॥ ९७ ॥
-: ❖ :-
तेन 'स्फायन्तिर्मोक' इत्यादि सिद्धम् ।
तथा विनार्थेनञा समासेन अनुदात्तं पदमेकमित्येव सिद्धे वर्जं-
ग्रहणात्-
नञ्घटितमनित्यम् ॥ ९८ ॥
-: ❖ :-
तेन 'नेयङुवङि'त्यस्यानित्यत्वात् 'हे सुभ्रु' इति सिद्धमिति ।
तन्न; भाष्येऽदर्शनात् । भाष्यानुक्तज्ञापितार्थस्य साधुतानियामकत्वे
मानाभावात्, भाष्याविचारितप्रयोजनानां सौत्राक्षराणां पारायणादौ अदृष्ट-
मात्रार्थकत्वकल्पनाया एवौचित्यात् ।
किञ्च ज्ञापितेऽप्यानीत्यस्य न सार्थक्यम् , आडागमशून्यप्रयोगस्य
तर्तुकामस्येति । अत्रेऽडभावसिद्धिरस्याः प्रयोजनम् ।
गणकार्यमिति । गणनिर्देशप्रयुक्तं कार्यमनित्यमित्यर्थः ।
विश्वसेदिति । अदादिगणप्रयुक्तशब्लुकः प्रवृत्त्यभावः ।
स्फायन्तीति । अत्र धातोरनुदात्तेत्त्वेऽपि परस्मैपदशतृसिद्धिः ।
हे सुभ्रु इति । अत्रानित्यत्वेन उक्तनिषेधाप्राप्त्या नदीत्वेन 'अम्बार्थ' इति
ह्रस्वसिद्धिः ।
अदर्शनादिति । ननु शिष्टप्रयोगसमर्थनाय तत्तत्पाणिनिप्रयासवैयर्थ्यान्यथानुप-
पत्त्यैतत्कल्पनेऽपि क्षतिविरह इत्यत आह-भाष्यानुक्तेति । तथा च महर्षेरज्ञानकल्पना-
पेक्षया शिष्टप्रयोगाणामसाधुत्वकल्पनमेव न्याय्यमिति भावः । नन्वेवं तत्तत्परिभाषाज्ञापक-
सूत्रकारप्रयत्नवैयर्थ्यमत आह-अदृष्टेति ।