परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 330, कुल 373 में से
संदर्भ में पढ़ें३०० परिभाषेन्दुशेखरः [ ३ प्रकरणे-
ननु 'प्रजिघाययिषती'त्यादौ 'हेरचङी'ति विधीयमानं कुत्वं न स्यादत
आह—
प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणम् ॥ ९२ ॥
—: ✤ :—
अचङीति प्रतिषेध एवास्या ज्ञापकः । इयं च कुत्वविषयैव । 'हेर-
चङी'ति सूत्रे भाष्ये स्पष्टेयम् ॥ ९२ ॥
ननु 'युष्मभ्यामि'त्यादौ 'भ्यस्' इत्यत्र भ्यमिति च्छेदे भ्यसो भ्यमि
कृते अन्त्यलोपे एत्वं स्यादत आह—
अङ्गवृत्ते पुनर्वृत्तावविधिः ॥ ९३ ॥
—: ✤ :—
अङ्गे = अङ्गाधिकारे, वृत्तम् = निष्पन्नम्, यत्कार्यं तस्मिन्सति पुन-
रन्यस्य अङ्गकार्यस्य वृत्तौ = प्रवृत्तौ अविधानं भवतीत्यर्थः ।
एषा च 'ज्यादादीयस' इत्याद्विधानेन ज्ञापिता, अन्यथा इकारलोपेन
'अकृत्सार्वे'ति दीर्घेण च सिद्धे तद्वैयर्थ्यं स्पष्टमेव । अत एव भिन्नस्थानिका-
ङ्गकार्यविषयाऽप्येषा ।
——————
कुत्वं न स्यादिति । ननु 'हेरचङी'त्यस्य हिनोतेरभ्यासात्परस्य कुत्वमित्यर्था-
दुक्तरूपे तत्सत्त्वेन कुत्वं सुवचमिति चेन्न । 'वार्ण'परिभाषायां प्राक् प्रदर्शितरीत्या
द्वित्वप्रयोजकप्रत्यये इत्यस्यात्र सूत्रे सम्बन्धेनोक्तरूपे णिचो व्यवधानात्तादृश-
प्रत्ययपरत्वाभावेन कुत्वाप्राप्त्युद्भावनस्य युक्तत्वात् । अत एव च 'अचङी'ति
सूत्रभाष्योक्तं तज्ज्ञापकं सङ्गच्छते ।
कुत्वविषयैवेति । अत एव 'शाययती'त्यत्र 'अदिप्रभृतिभ्य' इति न शपो
लुगिति भावः ।
भाष्ये स्पष्टेयमिति । तत्र हि “हेश्चङि प्रतिषेधानर्थक्यमङ्गान्यत्वात् । ज्ञापकं
तु चङोऽन्यत्र ण्यन्तेऽपि कुत्वभावस्ये”ति उक्तम् ॥ ९२ ॥
तद्वैयर्थ्यमिति । ननु ज्यायश्शब्दाण्ण्यन्तात्क्विपि णिलोप-यलोपयोः पुनस्तस्मा-
णिजन्तात्क्विपि पुकि सम्पन्नाद् ज्याप्शब्दादीयसुनि 'ज्यापायानि'ति सिद्धयर्थ-
माकारविधानं चरितार्थमिति चेन्न । ज्ञापकपरोक्तभाष्यप्रामाण्येन एषामनभिधानात् ,
णिलोपस्य स्थानिवत्त्वेन तदप्राप्तेश्चेति बोध्यम् । अत एवेति । आदग्रहणज्ञापितत्वेन
तत्साजात्यादित्यर्थः ।
नन्वेतत्परिभाषासत्त्वे 'येषामि'त्यादौ त्यदाद्यत्वोत्तरं 'बहुवचने' इत्येत्त्वाना-