सामग्री पर जाएँ
सर्वकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 329, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 329

९०-९१ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २९९
देशभूतं तद्ग्रहणेन गृह्यते' इति 'येन विधिरि'ति सूत्रे भाष्ये पाठः ॥९०॥
ननु 'गातिस्थाघुपाभूभ्य' इति सिचो लुक् 'अपासीदि'त्यादौ पातेरपि
स्यादत आह—
लुग्विकरणालुग्विकरणयोर्लुग्विकरणस्य ॥ ९१ ॥
—: ✤ :—
अस्याश्च ज्ञापकः 'स्वरतिसूती'ति सूत्रे सूडिति वक्तव्ये सूतिसूयत्योः
पृथङ् निर्देश इति कैयटः । तन्न ; साहचर्यादलुग्विकरणस्यैव ग्रहणे प्राप्ते
पृथङ्निर्देशस्य तज्ज्ञापकत्वासम्भवात् ।
ध्वनिता चेयं परिभाषा 'यस्य विभाषे'त्यत्र भाष्ये । तत्र हि विदित
इति प्रयोगे निषेधमाशङ्क्य "यदुपाधेर्विभाषा तदुपाधेर्निषेधो 'विभाषा
गमहनविदविशाम्'ति सूत्रे शविकरणस्य ग्रहणं लुग्विकरणश्चायमि"त्यु-
क्तम् । तत्र चो हेतौ ; यतोऽयं लुग्विकरणोऽतो विशिसाहचर्याच्छविकरणस्य
ग्रहणं न तु हनिसाहचर्यादस्यापि, एतत्परिभाषाविरोधादिति तदाशयः ।
अत एव परिभाषायां लुग्विकरणस्यैवेति नोक्तम् । कण्ठतस्तु भाष्ये
एषा क्वापि न पठिता । 'गातिस्थे'ति सूत्रे पिबतेर्ग्रहणं कर्तव्यमिति वार्तिक-
कृता सर्वत्रैव पाग्रहणेऽलुग्विकरणस्य ग्रहणमिति भाष्यकृता चोक्तम् ।
'स्वरतिसूति' इति सूत्रे कैयटेन च स्पष्टमुक्ता ॥ ९१ ॥

प्रतिपादनात् तद्बलेऽनोक्तार्थकल्पनाया असम्भवादिति चेन्न । भाष्यकृता लोक-
न्यायस्य अक्परिमाणधर्मानेयने असामर्थ्यप्रतिपादनेन परिभाषासिद्धयावदर्थासाध-
कत्वबोधनेऽपि तदङ्गानामव्ययत्वादीनां लोकन्यायेनाऽऽनयनस्य भाष्यकाराभि-
मततया निरुक्तसम्बन्धन्निवेशनस्र्य सप्रमाणत्वादिति दिक् ॥ ९० ॥
साहचर्यादिति । पूर्वोत्तरयोरलुग्विकरणयोः स्वरति-धूनोः साहचर्यादित्यर्थः ।
वस्तुतस्तु—स्वरतिधूनूदित्सूङो वेति न्यासे साहचर्याश्रयणेऽपि दोषाभावे-
नेष्टसिद्धेः कैयटोक्तमपि युक्तमेवेति बोध्यम् ।
ननु सूति-सूयत्योः पृथङ्निर्देशस्य लुग्विकरणस्यैव ग्रहणमिति विपरीतार्थ-
ज्ञापनेऽपि चारितार्थ्यसम्भवात् त्वदुक्तस्यैवाऽऽचार्याभिप्रेतत्वमित्यत्र मानाभाव इत्यत्र
आह—ध्वनितेति ।
अन्यतरार्थस्य तेन कल्पनसम्भवेऽपि भाष्यप्रामाण्यादुक्तार्थ एव पाणिन्याभिप्रेत
इति भावः । तदेवाह—अत एवेति । पूर्वोक्तभाष्यसन्दर्भेण अलुग्विकरणस्यैव ग्रहण-
मित्यर्थस्याभिप्रेतत्वादेवेत्यर्थः ॥ ९१ ॥