सामग्री पर जाएँ
सर्वकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 328, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 328

२९८ परिभाषेन्दुशेखरः [ ३ प्रकरणे-
ननु 'सर्वके, उच्चकैरि'त्यादौ सर्वनामाऽव्ययसंज्ञे न स्यातामत आह-
तन्मध्यपतितस्तद्ग्रहणेन गृह्यते ॥ ९० ॥
-: ✤ :-
'नेदमदसोरकोरि'ति सूत्रे 'अकोरि'ति निषेधोऽस्या ज्ञापकः । 'तदेक-
सर्वके उच्चकैरिति । ननु 'जसः शी, अव्ययादाप्सुप' इत्यत्र विहितविशेषणसत्त्वा-
न्नात्र दोष इति चेन्न । विहितपदार्थस्य सर्वनामाद्यभिन्नतदाद्यवधिकपररूपतया
अकज्विशिष्टस्य तदादित्वाभावेन उक्तदोषस्य सुवचत्वात् ।
तन्मध्यपतित इति । तत्त्वं च निर्दिश्यमानपरिभाषायां प्राङ् निरूपितमेव ;
'गङ्गां प्रविष्टाऽनेका नदी गङ्गाग्रहणेन गृह्यते, देवदत्तस्थो गर्भो देवदत्तग्रहणेन गृह्यते'
इति लोकन्यायेनायमर्थो न सिद्धयति, सर्वनामत्वादेरुपसर्गत्वादिवदुक्तपरिमाणत्वेन
न्यूनेऽधिके वा शास्त्रव्यापारमन्तरा तत्त्वबुद्धेरसम्भवाद् ज्ञापकसाध्य एवायमर्थ इति
'येन विधिरि'ति सूत्रे भाष्ये विधिरि'ति ज्ञापकमाह—नेदमदस इति । इदम् 'एतत्तदोरे'ति
सूत्रस्थस्य 'अकोरि'त्यस्योपलक्षणम्, 'नेदमदसोरिति' सूत्रे भाष्ये 'इदमदसोः कात्'
इति न्यस्यातो भिस इति सिद्धे इदमदसोर्भिस ऐः स्यात्तर्हि कादेवेति नियम-
माश्रित्य 'अकोरि'त्यस्य प्रत्याख्यानात् । विप्रतिषेधसूत्रभाष्ये 'नेदमदस' इत्येतद्घटकस्य
'अकोरि'त्यस्य एतत्परिभाषाज्ञापकत्वोपवर्णनं तु यथाश्रुतसूत्राभिप्रायेण सम्भवप्रदर्शन-
मात्रपरमिति बोध्यम् ।
नन्वेवं निर्दिश्यमानपरिभाषायां तन्मध्यपतितत्वनिरूपणावसरे गङ्गानदी-
दृष्टान्ते उद्देश्यत्वादेरसम्भवेन तत्सिद्धैतन्न्यायेऽपि तत्प्रवेशस्यायुक्तत्वात् तत्परिष्कारे
'स्वनिष्ठोद्देश्यता निरूपितविधेयताश्रयत्व'रूपसम्बन्धमनिवेश्य तत्स्थाने 'स्वसत्तो-
त्तरसत्ताकत्व'रूपसम्बन्धनिवेशनं पूर्वोक्तमप्रामाणिकम् , 'येन विधिरि'ति सूत्रे
भाष्ये 'विषम उपन्यास' इति ग्रन्थेन तन्मध्यपतितन्यायस्य गङ्गादिदृष्टान्तासिद्धित्व-
मूले—न स्यातामिति । अपाठादिति शेषः ।
ननु 'सर्वके, उच्चकैः' इत्यादौ अकज्विशिष्टे सर्वनामाऽव्ययसंज्ञयोरभावेऽपि न दोषः,
सुबन्तात् तद्धितोत्पत्तिरिति सिद्धान्तेन सुबुत्पत्त्यनन्तरमेव अकच्प्रवृत्त्या 'मासपूर्वाः, अत्युच्चैसो'
इत्यादौ शीसुकोर्वारणाय 'जशः' शी, अव्ययादाप् सुपः' इत्यादौ विहितविशेषणस्य आवश्यकत्वेन
अव्ययसर्वनामविहितजस्-सुपोः सत्त्वेनादोषादित्याशयेनाऽऽशङ्कते--नन्विति ।
सुवचत्वादिति । न च 'सर्व + जस्' इत्यवस्थायामेव परत्वात् शीभावादिकार्य-
प्रवृत्त्युत्तरमकचि कृते अवतरणासङ्गतिरिति वाच्यम्; 'अन्तरङ्गानपि०' इति न्यायेन शीभावादिकं
बाधित्वात् पूर्वमकचि 'यस्मात् प्रत्ययविधिस्तदादि'त्युक्तेः अप्रत्यय इति निषेधाप्राप्त्या जसन्तस्य
प्रातिपदिकसंज्ञायां जसो लुकि पुनर्जसि अकज्विशिष्टस्य सर्वनामत्वाभावेन ततो विहितत्वाभावात्
सर्वनामाभिन्नतदाद्यवधिकपरत्वाभावाच्च शीभावाप्राप्त्याऽवतरणसङ्गतेः सूपपादत्वात् ॥ ९० ॥