सामग्री पर जाएँ
सर्वकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 146, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 146

‘प्रत्ययग्रहण’ इत्यस्यापवादत्वात् तदेकवाक्यतापन्नतत्वाच्चात्रापि ग्रहणपद-
न चोपसर्जनपदार्थतावच्छेदकीभूतायाः स्वान्ततदाद्यवधिकपूर्वपदप्रयोज्यविशेष्य-
तायाः स्वान्ततदाद्यर्थावयवावृत्तेर्ग्रहणेन एकदेशिसमासेऽपि ष्यङोऽनुपसर्जनत्वात् ‘अर्ध-
कारीषगन्धीपुत्र’ इत्येव रूपमिति नोक्तफलभेदः, ‘स्त्रीभ्यो ढग्’त्यस्य ‘स्त्रीवाचकाड्
ढगि’त्यर्थस्यैव सत्त्वेन स्त्रीप्रत्ययमात्रस्य कथञ्चिच्छास्त्रीयोपसर्जनत्वसम्भवेऽपि फलाभाव
इति वाच्यम् ; ‘अतिकारीषगन्ध्या पुत्र’ इत्यत्र अतिपदार्थस्यातिक्रमणकर्तुरपि कारीष-
गन्ध्यावयवस्य विवक्षणे संप्रसारणापत्तेर्दुद्धरत्वात् , स्त्रीवाचकादित्यर्थे मानाभावाच्च ।
अत एव शुभ्रादिगणे विमातृशब्दपाठश्चरितार्थ इति सङ्क्षेपः ।
इति सङ्क्षेप इति । शास्त्रीयोपसर्जनत्वस्वीकारे ‘गङ्गा च यमुना चे’ति द्वन्द्वे द्वयोः
प्रथमान्तपदजन्यबोधविशेष्यत्वेन उपसर्जनतया तदादिनियमेन समुदायस्य आबन्ततदादित्वा-
भावेन ‘औङ आपः’ इति शी न स्यात्, अतिशब्देन समासे ह्रस्वश्च न स्यात् । लौकिकोपसर्जनत्व-
स्वीकारे तु स्वान्ततदाद्यवधिकपूर्वपर्याप्तप्रयोजकतैतादेः अभावेनोपसर्जनत्वाभावात् तदादित्वा-
रोपेण आबन्ततदादित्वात् शीभावस्य सिद्धिरिति लौकिकमेव वरम् । ‘अतिगोबष्कयणिः’ इत्यत्र
ह्रस्वसिद्धये प्रकारतायाम् अवयवावयविभावसम्बन्धेतरसम्बन्धावच्छिन्नेति विशेषणं देयम्, तेन
‘गोबष्कयणी’त्यत्र ‘बष्कयण्यभिन्ना गौः’ इति अभेदेन बोधादभेदस्य सम्बन्धाभावेन बष्कयणी-
निष्‍ठप्रकारतायाः सम्बन्धावच्छिन्नत्वाभावात् अनुपसर्जनतयाऽतदादौ तदादेरारोपात् ह्रस्वः सिद्धः ।
एवमारम्भप्रत्याख्यानयोः फलभेदोऽपि न ; शास्त्रीयोपसर्जनत्वस्वीकारे ‘उपसर्जनम्’ति महा-
संज्ञाकरणेन लौकिकोपसर्जनत्वस्य तदीयोद्देश्यतावच्छेदकत्वेन उभयोरपि ग्रहणे गौरवाच्च ।
किञ्च—शास्त्रीयोपसर्जनत्वस्वीकारे परिभाषायाः किं प्रयोजनम् ? न च ‘परमकारीष-
गन्धी’त्यत्र अतदादौ तदादित्त्वारोपात् सम्प्रसारणसिद्धिः ; न च तदन्तविधिद्वयेन तत्सिद्धिः, तथा
सति ‘अतिकारीषगन्ध्ये’त्यत्रापि तदापत्तेरिति वाच्यम् ; ‘न ह्येकं प्रयोजनं योगारम्भं प्रयोजयति’
इति न्यायेन ‘ष्यङः सम्प्रसारणम्’ इत्यत्र अनुपसर्जनस्येति पाठेन सम्प्रसारणसिद्धेः । न च परिभाषा-
भावे ‘परमा चासौ खट्वा चे’ति कर्मधारये ‘परमखट्वै’ति जाते तस्मात् ङे विभक्तौ ‘आबन्त-
तदादित्वविशिष्टङिड्वचनतदातेः परस्य ङिद्वचनस्य याडि’ति ‘याडापः’ इत्यस्यार्थेन ‘खट्वे’त्यस्य
आबन्ततदादित्वेन ‘परमखट्वे’त्यस्य तथात्वाभावेन याड् न स्यात् इति वाच्यम् ; ‘आबन्तं यत्तदादि
तदन्तं ङिड्यस्माद्विहितस्तदादिस्तस्मात्परस्य ङिद्वचस्य याडि’त्यर्थेन परिभाषाया अभावेऽपि तत्र
याट्सिद्धेः । न चैवं ‘अतिखट्वाय’ इत्यत्रापि तथात्वात् याट् स्यादिति वाच्यम् ; लक्षणप्रतिपदोक्त’-
परिभाषया आकारस्य प्रतिपदोक्तस्य ग्रहणेनादोषात् । एवञ्च ‘अतिबहुश्रेयसी, अतिगङ्गायमुना’
इत्यादौ परिभाषासत्त्वेऽसत्त्वे वा‘गोस्त्रियोरि’त्यत्र तदन्तविधिद्वयं विना ह्रस्वानापत्त्या न ते फले ।
कृते तु तदन्तविधिद्वये ‘अतिगोबष्कयणिः’ इत्यत्रापि तेनैव ह्रस्वसिद्धेर्नैतदपि परिभाषाफलम् ।
वस्तुतस्तु—स्थलत्रयेऽपि न ह्रस्वः, तदन्तविधिद्वयञ्च नेति न तत्र काचिदपि विचारणा ।
‘कारीषगन्धीपुत्रः’ इति कन्लुबन्तस्थले परिभाषासत्त्वे तदभावे च शास्त्रीयोपसर्जनत्वाभावात् नैतत्