सामग्री पर जाएँ
सर्वकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 145, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 145

२६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ११५
अत एवात्र परिभाषायां न शास्त्रीयमुपसर्जनत्वमसम्भवात् । अस्याः
अत एवेति । एतल्लक्ष्यसिद्धयर्थं प्रत्यासत्तेरवश्याऽऽश्रयणीयत्वादित्यर्थः । शास्त्री-
यम् = प्रथमानिर्दिष्टमित्यादि । असम्भवात् = प्रत्यासत्तेर्दुरुपपादत्वात् ।
वस्तुतस्तु—शास्त्रीयमेवोपसर्जनत्वमस्यां ग्राह्यम् । अत एव ‘अर्धं नपुंसकम’ इत्या-
द्येकदेशिसमासविधायकशास्त्रप्रत्याख्यानपरभाष्येण न विरोधः; अन्यथा ‘अर्धं नपुंसक-
मि’ति सूत्रेण समासेऽर्धपदार्थस्य विशेष्यत्वेन ष्यङ उपसर्जनत्वात् ‘अर्धंकारीषगन्ध्या
पुत्र’ इति रूपम्, कर्मधारयसमासेन तत्प्रत्याख्यानपक्षे च कारीषगन्ध्यापदार्थस्यैव
विशेष्यत्वादनुपसर्जनत्वेन सम्प्रसारणे ‘अर्धकारीषगन्धीपुत्र’ इति फलभेदाद्भाष्यसङ्गतिः
स्पष्टैव । मम तु एकदेशिसमासविधायकसूत्र