सामग्री पर जाएँ
सर्वकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 147, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 147

२६-२७ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ११७
सम्बन्धेन स्त्रीप्रत्ययसामान्यग्रहणे तद्विशेषग्रहणे च प्रवृत्तिः, न तु स्त्री-
प्रत्ययास्त्रीप्रत्ययग्रहणे । ध्वनितं चेदमर्थवत्सूत्रे भाष्ये ।
इयं च वाचनिक्येव । ‘ष्यङः’ इति सूत्रे भाष्ये स्पष्टा ॥ २६ ॥
नन्वेवं ‘तरप्तमौ घ’ इत्यादिना तरबन्तादेः संज्ञा स्यादत आह—
विस्तरस्तु नन्वेवमपि ‘अतिखट्वाये’त्यत्रत्य-शब्देन्दुशेखरटिप्पणे द्रष्टव्यः ।
वाचनिक्येवेति । भाष्ये वचनरूपेण पठिता, न तु ज्ञापकमुपन्यस्तमित्यर्थः ।
अस्यां ज्ञापकन्तु ‘यस्मात्प्रत्ययविधिस्तदादे’रिति विभक्तयोगे ‘नेयङुवङि’त्यतोऽस्त्रीत्यस्य
अनुवृत्त्या प्रसज्यप्रतिषेधात्प्रधानन्यायेन प्रधानेऽनुपसर्जने स्त्रीप्रत्यये तदादिनियमो
नेति अस्त्रीति निषेधवचनमेवेति दिक् ॥ २६ ॥
परिभाषाफलम्