परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 121, कुल 373 में से
संदर्भ में पढ़ें१५-१६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ९१
अर्थाश्रय एतदेवं भवति, शब्दाश्रये च वृद्ध्यात्त्वे इति ‘ओत्’-
सूत्रस्थभाष्यस्य लौकिकार्थवत्त्वयोग्यपदाश्रय एष न्यायस्तद्रहितशब्दाश्रये च
ते इत्यर्थः । ‘गोत’ इति यथाश्रुतसूत्रे विशिष्टरूपोपादानसत्त्वेन उक्तरीत्यैव
एतस्य भाष्यस्य व्याख्येयत्वादित्यलम् ॥ १५ ॥
अर्थवद्ग्रहणे इत्यस्यापवादमाह—
अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च
तदन्तविधिं प्रयोजयन्ति ॥ १६ ॥
—: ✤ :—
‘येन विधिरि’त्यत्र भाष्ये वचनरूपेण पठितैषा, तेन ‘राज्ञा, साम्ने’-
त्यादौ अल्लोपः, ‘दण्डी, वाग्मी’त्यादौ ‘इन् हन्नि’ति नियमः, ‘सुपयाः,
कल्पना भाष्यकारानभिप्रेतेत्यत आह—अर्थाश्रय इति । विशिष्टरूपोपादानसत्त्वेनेति ।
‘आ गोतोऽम्शसोरि’ति पाठाभिप्रायेणेदं भाष्यमिति भावः॥ १५॥
अर्थवता चानर्थकेन चेति । प्रकृत्यादित्वादभेदे तृतीया । अर्थवदनर्थकाभिन्नं यत्तत् ;
तन्निष्ठचरमावयवतानिरूपकसमुदायबोधकानि अनिनस्मन्ग्रहणानीति परिभाषार्थः ।
यद्वा—अर्थवन्ति अनर्थकानि च तदन्तविधिं प्रयुञ्जते—अनिनस्मन्ग्रहणानि अर्थवता
चानर्थकेन प्रयोज्यकर्त्रा तदन्तविधिं प्रयोजयन्तीत्यर्थः ।
वचनरूपेणेति । ‘अवर्मण’ इति प्रतिषेधोऽस्यामेकदेशानुमत्या ज्ञापकः; अन्यथा
वर्मन्शब्दघटकस्यानोऽनर्थकत्वेन ‘नमपूर्व’ इति प्रतिषेधाप्राप्त्या तद्वैयर्थ्यं स्पष्टमेव ।
कार्यत्वाभावेन तदप्राप्तेरत आह मूले—अर्थाश्रये एतदेवं भवतीत्यादिः। ‘अर्थाश्रये’ इत्यत्र अर्थपदं
लौकिकार्थवत्त्वयोग्यपदपरमिति भावः ॥ १५ ॥
अत्र मूले ‘राज्ञा, साम्ने’त्यादीनि उदाहरणानि दत्तानि । अव्युत्पत्तिपक्षे तु ‘राज्ञा’
इत्यपि अनर्थकस्यैवान उदाहरणमिति चेत् ; ‘सुजम्ना’ इत्यनोऽर्थवत् उदाहरणं बोध्यम् ।
मूले—दण्डी, वाग्मीति । इदमुपलक्षणम्—‘दण्डिनौ, वाग्मिनौ’ इत्यस्य, तत्र ‘सौ चे’-
त्यनेन दीर्घसिद्धौ नियमानुपयोगात् । एवं ‘सुपयाः’ इत्यत्रापि । अव्युत्पत्तिपक्षे ‘सुमेधा’ इत्युदा-
हर्तव्यम् । सुश्रोता’ इत्यत्र श्रुधातोरसिप्रत्यये तस्य तुडागमेऽसिरनर्थकः, आगमसमभिव्याहारे
आगमविशिष्टस्यैवार्थवत्त्वात् ।
ननु ‘यदागम’न्यायेन तुड्विशिष्टस्याऽसो ग्रहणेन तस्य चार्थवत्त्वेन अनर्थकोदाहरण-
मयुक्तमिति चेन्न । श्रुधातोर्विचि गुणे तस्मात्पञ्चम्यन्तात् तसि प्रत्यये तदनुकरणे सुशब्देन समासे
अनर्थकस्यास उदाहरणं बोध्यम् ।