सामग्री पर जाएँ
सर्वकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 122, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 122

९२ परिभाषेन्दुशेखरः [ १ प्रकरणे-
सुस्रोता' इत्यादौ 'अत्वसन्तस्ये'ति दीर्घः, 'सुशर्मा', 'सुप्रथिमे'त्यादौ 'मन'
इति ङीब्-निषेधश्च सिद्धः ।
अन्ये तु 'परिवेविषीध्वमि'त्यत्र ष्टत्वव्यावृत्तये क्रियमाणाद् 'इणः
षीध्वमि'त्यत्र अङ्गग्रहणादर्थवत्परिभाषाऽनित्या, तन्मूलकमिदमित्याहुः ।
'विभाषेट' इत्यत्रानर्थकस्यैव षीध्वमः सम्भवादत्रापि तस्यैव ग्रहण-
मिति भ्रमवारणाय 'अङ्गादि'ति परे ॥ १६ ॥
एवं 'कामंस्ताच्छील्य' इत्याद्यपि ज्ञापकमूह्यम् । सुप्रथिमेति । सुगता प्रथिमानं सुप्रथि-
मेति विग्रहः । एतेन सुप्रथिमन्शब्दस्य पुंस्त्वात् बहुव्रीहौ 'अनो बहुव्रीहेरि'त्यनेन
अन्नन्तत्वादेव निषेधसिद्धेर्मन्नन्तस्योदाहरणमिदं चिन्त्यमिति परास्तम् ।
परिवेविषीध्वमिति । विषूधातोर्जोहोत्यादिकाद्विधिलिङि सीयुटि सलोपे द्वित्वादौ
चेदं रूपमिति बोध्यम् । नन्वसधातोर्विधिलिङि कर्मव्यतिहार आत्मनेपदे 'व्यति-
षीध्वमि'त्यत्रार्थवतः षीध्वमः सम्भवादत्र ष्टत्वव्यावृत्तयेऽङ्गादित्यस्य चारितार्थ्यात्कथं
ज्ञापकमिति चेन्न । 'उपसर्गप्रादुर्भ्यामि'ति षत्वस्यासिद्धत्वेन षीध्वमोऽभावात्तद-
प्राप्त्याऽङ्गादित्यस्य चारितार्थ्याभावात् । सूत्रं तु 'आदेशप्रत्यययो'रिति षत्वे चरितार्थम् ।
भ्रमवारणायेति । उत्तरसूत्रेऽर्थवतः षीध्वमोऽसम्भवात्परिभाषाबाधेऽप्यत्र तद्बाधे
मानाभावादिदमयुक्तमिति दिक् ॥ १६ ॥
सुप्रथिमेतीति । कर्मधारये इमनिजन्तस्य पुंस्त्वेन स्त्रीत्वाभावात् ङीपोऽप्रसक्तिः,
बहुव्रीहौ 'अनो बहुव्रीहेः' इति सिद्धेरत आह—सुगता प्रथिमानमिति । परास्तमिति ।
यत्तु—मूले असुप्रथिमेति छेदं कृत्वा स्त्रीत्वबोधनाय बहुव्रीहि कृत्वा पश्चात् नञ्तत्पुरुषे बहु-
व्रीहित्वाभावात् 'अनो बहुव्रीहेः' इत्यस्याप्राप्तौ 'मन' इति निषेध इति । तन्न ; 'अबहुयज्वरी' इत्य-
निष्टरूपवारणाय तदन्तविधिद्वयस्वीकारस्य आवश्यकत्वेन 'असुप्रथिमे'त्यत्रापि तेनैवेष्टसिद्धेः ।
दिगिति । अत्र हैमवतीकाराः—अनया परिभाषया 'अर्थवद्ग्रहणं' इत्यस्याप्रवृत्त्या अनि-
नस्मन्ग्रहणेषु अनर्थकेषु तदन्तविधिस्वीकारेऽपि 'लक्षणप्रतिपदोक्त'परिभाषाप्रवृत्त्या 'वाग्मिनौ'
इत्यत्र 'इन् हन्नि'ति नियमो न स्यात्, 'दण्डिनौ' इत्यत्र 'निरनुबन्धक'परिभाषया नियमो न
स्यात्, 'यशस्वी'त्यादौ 'ग्रहणवते'ति निषेधात् 'अस्माये'ति विनिर्न स्यात्, विन् तु अस्धातोः
क्विबन्तात् 'अस्वी' इत्यत्र चरितार्थः । एवञ्च लक्ष्यासिद्धिस्तदवस्थैवेति चेन्न । अनया परिभाषया
अनिनादिषु वर्णत्वमतिदिश्यते । परिभाषार्थस्तु—अनिनस्मन् ग्रहणानि अर्थवता चानर्थकेन च
तदन्तविधिं यथा प्रयोजयन्ति तथा कार्यम्, अर्थात् एषु वर्णत्वातिदेशः कर्तव्य इति । एवं सति
वर्णग्रहणे सर्वासामप्येतासामप्रवृत्त्या सर्वेष्टसिद्धेः सूपपादत्वात् । अत एव च 'अनकारा' 'असकारा'
इत्यादयो भाष्यप्रयोगाः सङ्गच्छन्ते ; अन्यथा कारप्रत्ययानुपपत्तिरेव स्यादिति वदन्ति ।
यत्तु—अनया परिभाषयाऽल्त्वमेवातिदिश्यते, ततश्च अल्लैवानर्थकेन तदन्तविधिरित्यनेन
सङ्गृहीता भवतीयं परिभाषेति । तन्न ; अल्त्वारोपे सति 'प्रत्ययलोपे प्रत्ययलक्षणम्' इति