परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 120, कुल 373 में से
संदर्भ में पढ़ें९० परिभाषेन्दुशेखरः [ १ प्रकरणे-
मारभता वार्तिककृता, 'पूर्वंपरे'ति सूत्रे 'असंज्ञायामि'ति वदता सूत्रकृता,
अन्वर्थसंज्ञया तत्प्रत्याख्यानं कुर्वता भाष्यकृता च ।
तत्र, विशिष्टरूपोपादाने, पदकार्ये च' इत्येवं त्रितयसमवहितप्रातिपदिककार्ये प्रवर्त्तते
इति भावः । अत्रार्थे बीजमाह—परिनिष्ठितस्येति । गौर्वाहीक इति । अत्र हि वाहीके-
ऽन्वयानुपपत्तिप्रतिसन्धानादेव गोशब्दस्य स्वार्थसदृशलक्ष्यार्थबोधकत्वेन न्यायस्य
विषयाभावात्पूर्वमेवान्तरङ्गत्वात् वृद्धिप्रवृत्तिः । एवम् अग्नीषोमौ, माणवकावि'त्यत्र
बोध्यम् । यत्र त्वग्निसोमपदयोरन्वयानुपपत्तिप्रतिसन्धानात्प्रागेव सदृशलाक्षणिकत्व-
ग्रहस्तत्र एतन्न्यायेन इत्वादिष्यावृत्तिः सिद्धा । नन्वेवं 'गां पाठये'त्यत्रापि सुवचमित्यत
आह—गां पाठयेति