सामग्री पर जाएँ
सर्वकोश
पञ्चसायक (कविशेखर ज्योतिरीश्वर - कामकला एवं रति-शास्त्र संस्कृत मूल पाठ)

पञ्चसायक (कविशेखर ज्योतिरीश्वर - कामकला एवं रति-शास्त्र संस्कृत मूल पाठ)

Panchasayaka of Kavishekhara Jyotirishvara with Commentary

कविशेखर ज्योतिरीश्वर (सम्पादक: पं. श्रीधर शास्त्री) द्वारा

DevanagariSanskritpublished109 पृष्ठ

पृष्ठ 58, कुल 109 में से

संदर्भ में पढ़ें
पृष्ठ 58

तृतीय सायकः ५६
पिक्काचूर्णान्वितं मत्ति नित्यम् ।
मासैकमात्रेण मुखं तदीयं
गन्धायते केतकिपुष्पतुल्यम् ॥ १९ ॥
इति मुखवासनसमुद्देशः ।
(७) अथ वाजीकरणयोगसमुद्देशः
अथ वाजीकरणप्रयोजनं निरूपयति
बलेन नारी परितोषमेति
न हीनवीर्य्यस्य कदापि सौख्यम् ।
अतो बलार्थं रतिलम्पटस्य
वीजाभिधानं प्रथमं विदध्यात् ॥ २० ॥
अथ विदारीचूर्ण प्रयोगं निर्दिशति
चूर्णं विदार्याः स्वरसेन तस्याः
सम्भावितं भास्कररश्मिजाले ।
मध्वाज्य-सम्मिश्रित माशु लीढ्वा
दश स्त्रियो गच्छति निर्विशङ्कः ॥ २१ ॥
अथ आमलकचूर्ण-प्रयोगं निरूपयति
“भूयो विभाव्याऽमलकस्य चूर्णं
रसेन तस्यैव सिताज्यमिश्रम् ।