सामग्री पर जाएँ
सर्वकोश
पाकदर्पण (राजा नल प्रणीत - इन्द्रदेव त्रिपाठी माधुरी हिन्दी व्याख्या सहित)

पाकदर्पण (राजा नल प्रणीत - इन्द्रदेव त्रिपाठी माधुरी हिन्दी व्याख्या सहित)

Pakadarpana of Raja Nala with Madhuri Hindi Commentary

राजा नल (टीकाकार: पं. इन्द्रदेव त्रिपाठी) द्वारा

DevanagariHindipublished69 पृष्ठ

पृष्ठ 62, कुल 69 में से

संदर्भ में पढ़ें
पृष्ठ 62

अथ लेह्यप्रकरणम्
सहकारादिलेह्यनिर्माणप्रकारोगुणश्च
सुपक्वफलसंदोहं सहकारादिसम्भवम् ।
आनीय सूदः शास्त्रज्ञः क्रिमिभ्यः शोधयेत् पृथक् ॥ १ ॥
भर्जयेच्च पुनस्तानि पृथक् शर्करया सह ।
तदुत्थमाहरेद्द्रव्यं त्वग्बीजानि समुत्सृजेत् ॥ २ ॥
द्रव्ये तस्मिन् घनीभूते सिञ्चेत्किञ्चिज्जलंततः ।
द्रव्यञ्च सूक्ष्मवस्त्रेण यावल्लेह्यं तु शोधयेत् ॥ ३ ॥
आनयेत् पूगपट्टस्य नेत्राण्यथ शुभानि च।
अनेकेषु च पात्रेषु मध्ये तेषु पुनर्न्यसेत् ॥ ४ ॥
लेह्यं चाङ्गुलिकं तेषु निक्षिपेच्च पृथक् पृथक् ।
ततश्च घनसारादि कल्कं तेषु च मेलयेत् ॥ ५ ॥
विचित्रवासनापुष्पैः लेह्यं सम्यक् च वासयेत् ।
ततः पुष्पाणि संत्यज्य सहकुर्याच्च पोटलीः ॥ ६ ॥
पूर्ववत्स्थापन