सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

ततश्चैवंविधाद्धेतोः स्वसाध्यनियमोज्झितात् ।
साध्याभिलाष इत्येवं षण्ढानुनयदोहदः ॥
अन्वयपूर्वकत्वाच्च व्यतिरेकग्रहणस्य तन्निराकरणे तदपाकरणमवगन्तव्य-
म्, अपि च सिषाधयिषितधर्मवैपरीत्येन वह्नेः प्रत्यक्षतो निश्चयाद् वस्तुवृत्तेन
स एव विपक्ष इति न ततो व्यतिरेकः कृतकत्वस्येति, तन्मात्रत्रैलक्षण्यापाया-
देव हेत्वाभासो ऽयमिति न रूपान्तरमबाधितविषयत्वमपेक्षते कथं चेदमबाधि-
तत्त्वं निश्चीयते ।
न ह्यदर्शनमात्रेण बाधाविरहनिश्चयः ।
सर्वात्मना हि नास्तित्वं विदुः कथमयोगिनः ॥
अनिश्चिते तदङ्गे च न हेतोर्हेतुता भवेत् ।
यथैव पक्षधर्मादिरूपाणामनुपग्रहे ॥
तस्मादबाधितत्वं रूपान्तरमवचनीयमिति,
अत्राभिधीयते, यदुक्तम् अन्वयग्रहणं सर्वाक्षेपेणेति तद्ग्रहणवेलायामेव-
सिषाधयिषितधर्मविपर्ययाध्यासितहुतवहस्वरूपपरिस्फुरणादन्वयशून्यो ऽयं हेतु-
रिति तदहृदयंगमम्, अन्वयः सत्यं सर्वाक्षेपेण गृह्यते न पुनरेकैकधर्मिसमुल्ले-
खेन, एवं हि तदानन्त्यादन्वयो ग्रहीतुमेव न शक्यते, अनुमानस्य च वैफल्य-
मित्थं भवेदग्निमंतां धूमवतां सर्वधर्मिणामन्वयावगमकाले एव गृहीतत्वात् ।
धूमो हि यत्र यत्रेति सामान्येनैव गृह्यते ।
न पुनः पर्वते ऽरण्ये गृहे वेत्येवमिष्यते ॥
एवं च सत्याक्षेपवाचोयुक्तिरुपपन्ना भविष्यति ।
न चैवं सति वक्तव्यं षण्ढानुनयमार्गणम् ।
न हि तद्वर्जमित्येवं व्याप्तिग्रहणमिष्यते ॥
सामान्येन च व्याप्तिर्गृहीता सती सिषाधयिषितधर्म्यपेक्षायां सैवान्तर्व्याप्ति-
रुच्यते, यैव च नगलग्नाग्न्यनुमानसमये तद्व्यतिरिक्तकान्तारादिप्रदेशवर्त्तिनी
बहिर्व्याप्तिरभूत्सैव कालान्तरे कान्तारवर्त्तिनि वह्नावतुमीयमाने ऽन्तर्व्याप्तिरव-
तिष्ठते, तदिहापि यत्कृतकं तदनुष्णमिति सामान्यतः परिच्छेदान्न तदानीमन-
लोन्मेष इति सिद्धो ऽन्वयः, व्यतिरेको ऽपि कार्ये तेजोऽवयविनि पक्षीकृते
कृतकत्वस्य तेजःपरमाणुभ्यो विधुतारकपरमाण्वनभ्युपगमे तु विपक्ष एव ना-
स्तीति तदभावात्सुतरां तत्रावृत्तिर्भवतीति, न हि सपक्षे इव विपक्षे वृत्तिरिष्यते
येन यत्नतः तत्सिद्धये यतेत, अग्निरेव विपक्ष इति चेन्मैवम्, न हि पक्ष एव
विपक्षो भवितुमर्हति,
ननु वस्तूनामद्विरूपत्वात्पक्षो नाम परमार्थतो नास्त्येव, साध्यधर्माऽधिक-
रणभूतश्चेत्सो ऽर्थस्तत्सपक्ष एव विपर्यये तु न विपक्षतामतिवर्त्तते, न च क्र-

मद्ध्वयोगित्वं रूपद्वयरहितत्वं वा वस्तुनः समस्तीति, तदयुक्तम् अनुमानोच्छेद-
प्रसङ्गात्, अद्विरूपत्वे ऽपि वस्तूनां निसर्गेणविषयीकृतो ऽर्थः कश्चित्पक्ष एषितव्यः,
तदभावे तदपेक्षस्वरूपयोः सपक्षविपक्षयोरप्यभावः स्यात् तदस्य पक्षस्य सतोऽपि
सपक्षत्वमारोप्य यत्तेन व्यभिचारचोदनं तेनाग्न्यनुमानमपि विप्लवेत,
ननु पर्वतादिर्धर्मी न ज्वलनाख्यसाध्यधर्मशून्यतया तत्र निश्चितः तेजोऽव-
यवी त्वनुष्णत्ववैपरीत्येन प्रत्यक्षतो निश्चित इति तत्किमिदानीं पर्वतादिरग्नि-
मत्तया निश्चितः तथाभ्युपगमे वा किमनुमानेन ।
ननु न पर्वतोऽग्निमत्तया निश्चितो नापि तद्वैपरीत्येन : किं तु संदिग्ध
एवास्ते, यद्येवं संदिग्धे ऽपि विपक्षे वर्त्तमानो धूमादिरहेतुरेव स्यान्नि-
श्चितविपक्षवृत्तित्वात्संदिग्धविपक्षावृत्तेरप्यहेतुत्त्वात्सर्वमनुमानमुत्सीदेत् , तस्मा-
त्पक्षे व्यभिचारचोदनमनुचितमिति व्यतिरेकवानेवायं हेतुः, यत्पुनरभिहितम् ,
अनिराकृतपक्षवृत्तित्वमस्य नास्तीति तत्सत्यम् , वयमप्यमुं पक्षमध्यक्षाबाधित-
मिच्छाम एव, यत्तु न पक्षमात्रपर्यवसितो बाधः किं तु हेतुमपि स्पृशति ।
न हेतुनिरपेक्षात्मा पक्षो नामास्ति कश्चन ।
प्रसाधयितुमिष्टो हि हेतुना पक्ष उच्यते ॥
स न साधयितुं शक्यः प्रत्यक्षे प्रतियोगिनि ।
साध्यापहारद्वारेण हेतुर्भवति बाधितः ॥
अबाधितानुमेयत्वमत एवास्य लक्षणम् ।
ननु हेतुरसिद्धो ऽयं ज्वलने वृत्तिसंभवात् ॥
यत्तु बाधितता ज्ञातुं शक्या नेति विकल्पितम् ।
पक्षस्यापि महाभाग कथं तां प्रतिपत्स्यसे ॥
प्रयत्ने क्रियमाणे ऽपि यदि बाधा न दृश्यते ।
नास्त्येवेत्यवगन्तव्यं व्यवहारो हि नान्यथा ॥
अतस्त्रिलक्षणे ऽपि हेतौ बाधसम्भवादबाधितत्वं रूपान्तरं वक्तव्यम् , एवं
च यदुच्यते बाधाविनाभावयोर्विरोधादिति तत्कथं चिद्युक्तं कथं चिदयुक्तम् ,
पञ्चलक्षणके लिङ्गे यः परिसमाप्तो ऽविनाभावः तत्र नास्त्येव बाध इत्येवं
युक्तमेतत् त्रिलक्षणकलिङ्गाविनाभावाभिप्रायेण त्वयुक्तमेतदित्यलं प्रसङ्गेन ।
नियमस्मृतेरिति विव्रियतां को ऽयं नियमो नाम, व्याप्तिरविनाभावो नि-
त्यसाहचर्यमित्यर्थः,
तादात्म्यतदुत्पत्त्योर्बौद्धाभिमतव्याप्तिग्रहोपायत्वकथनम् —
आह नैतावत्येव विरन्तुमुचितं तस्य तदविनाभावित्वमित्यत्र हि नि-
मित्तमन्वेषणीयं तार्किकैः, तच्च तादात्म्यतदुत्पत्तिरूपमीक्षितवन्तो भि-
क्षवः, यो हि यदात्मा भावः स कथं तमुत्सृजति वृक्षात्मिकैव हि शिंशपा

[१०४] न्यायमञ्जर्याम्

तेन वृक्षत्वमनुमापयति, सो ऽयं स्वभावहेतुरुच्यते वृक्षो ऽयं शिंशपात्वादिति
तत्र तादात्म्यं प्रतिबन्धः, कार्यं च नाम कारणाधीनात्मलाभमेव भवति न
कारणानपेक्षमिति तदुपलभ्यमानं तदनुमापयत्यग्निरत्र धूमादिति कार्यहेतौ
तदुत्पत्तिप्रतिबन्धः, एवं हि द्विविधं प्रतिबन्धमनुमेयान्यभिचारनिबन्धनमनु-
क्त्वा केवलसाहचर्यनियममात्रवर्णनं यत् प्रसारिका सैवेति,

बौद्धमतखण्डनम् —

उच्यते पादप्रसारिकैव साधीयसी स्थूलदृष्टिभिरवलम्बिता वरं न सूक्ष्मदृष्टि-
भिरुत्प्रेक्षिताः तादात्म्यादिप्रतिबन्धाः, तादात्म्ये तावद्गमकाङ्गे हेतुसाध्ययोरव्यति-
रेके गम्यगमकभाव एव दुरुपपादः, न खल्वगृहीतं लिङ्गं लिङ्गिप्रतीतिमाधातुम-
र्हति, तत्र लिङ्गबुद्धौ लिङ्गं प्रतिभासते न वा, अप्रतिभासे तद्बुद्ध्या तदग्रहणा-
त्कथं तस्य तदात्मकत्वम् , प्रतिभासे तु लिङ्गवत्प्रत्यक्ष एव सोऽर्थ इति किमनु-
मानेन, विपरीतसमारोपव्यवच्छेदार्थमनुमानमिति चेद् न, तत्स्वरूपग्रहणे विप-
रीतारोपणावसराभावात् , न हि शिरःपाण्यादिविशेषदर्शने सति स्थाणुसमारो-
पः प्रवर्त्तते तत्र तद्भेदादुपपद्येतापि न हि शिरःपाण्यादय एव पुरुष इति तद्ग्रहणे
ऽप्यपुरुषारोपः कामं भवेत्, इह वृक्षत्वशिंशपात्वयोरभेदाच्छिंशपात्वग्रहणे सति
का कथा वृक्षेतरसमारोपस्य, अपि च वृक्षत्वग्रहणे सति सामान्यधर्मग्रहणा-
द्विशेषानध्यवसायात्कदा चिदशिंशपारोपः स्याद् न तु शिंशपात्वग्रहणे सति
अवृक्षत्वसमारोपो युक्तः ।

प्रमातुः शिंशपात्वं हि यस्य प्रत्यक्षगोचरः ।
परोक्षं तस्य वृक्षत्वमिति नातीव लौकिकम् ॥

किं च साध्यसाधनयोर्व्यतिरेकाद् यथा शिंशपात्वेन वृक्षत्वमनुमीयते तथा
वृक्षत्वेनापि शिंशपात्वमनुमीयेत तादात्म्याविशेषात् , तथा च प्रयत्ननानन्तरीय-
कत्वेनानित्यत्वं साध्यते तद्वदनित्यत्वेनापि तत्साध्येत, ततश्च सपक्षाव्याप्यद्वया-
त्त्रिभ्यां कृतकत्वप्रयत्ननानन्तरीय कत्वयोर्यो भेद उक्तः स हीयेत ।
ननु चान्यः सम्बन्धः अन्यश्च प्रतिबन्धः द्विष्ठः सम्बन्धः प्रतिबन्ध-
स्तु परायत्तत्वलक्षणः, तत्र शिंशपात्वं वृक्षत्वे प्रतिबद्धं न वृक्षत्वं शिंशपात्वे
प्रयत्ननानन्तरीय कत्वमप्यनित्यत्वे नियतं न त्वनित्यत्वं तत्रेति तथा धूमस्याग्नौ
प्रतिबन्धो न त्वग्नेर्धूमे, सत्यमेवं किं त्वेवमुच्यमाने नियम एवाङ्गीकृतो भवेद्
न तादात्म्यम् , तादात्म्ये हि यथा शिंशपा शिंशपां विना न दृश्यते तथा वृक्षत्व-
मपि शिंशपारहितं न दृश्येत, दृश्यते च खदिरादौ शिंशपारहितं वृक्षत्वं विद्यु-
दादौ च प्रयत्ननानन्तरीय कत्वरहितमनित्यत्वमुपलभ्यते इति कथमभेदः ।

विना साधनधर्मेण साध्यधर्मो ऽयमस्ति हि ।

प्रमाणप्रकरणम् १०५
दृष्टस्तद्व्यतिरेकेण तदात्मा चेति कैतवम् ॥
अथ विद्युदाद्यनित्यत्पादन्यदेव घटाद्यनित्यत्वं यत्प्रयत्ननान्तरीय कत्वाभिने-
मुच्यते तर्हि धर्मिभेदेन धर्माणां भेदे ऽन्वयग्रहणाद्यनुपपत्तेः सर्वमनुमानमुत्सी-
देद्, धूमाग्न्योस्तु कार्यकारणयोर्भेदाद्युक्तं वक्तुं धूमस्याग्नौ प्रतिबन्धो न त्व-
ग्नॆर्धूमे, इह तु साध्यसाधनयोरव्यतिरेकान्न तथा शक्यते वक्तुं तथा ऽभिधाने वा
नान्यतिरेकः, सर्वथा तदात्म्यं वा त्यज्यतां वृक्षत्वानित्यत्वाभ्यां शिंशपात्वप्रय-
त्नानन्तरीय कत्वे अनुमीयेताम् नान्तरावस्थातुं लभ्यते, यश्चायमनित्यः शब्दः
कृतकत्वादिति स्वभावहेतुरुदाहृतः स कथं स्वभावहेतुः, इदं हि चिन्त्यताम्
अनित्यत्वं नाम किमुच्यते किं च कृतकत्वमिति, तत्रानित्यत्वं विनाशयोगः
उत्पत्तियोगश्च कृतकत्वम्, उत्पन्नस्य च भावस्य विनाशो न त्उत्पाद एव
विनाश इति कथं साध्यसाधनयोरव्यतिरेकः, अत्र चोदयन्ति, विनाशयोगे
ह्यनित्यत्वे विनाशी शब्द इति बुद्धिः स्यान्नानित्य इति, एष्या च मिथ्याबुद्धिः
शिखरिण एव कृशानुविशेषितस्य विनाशवतः शब्दस्य ग्रहीतुमशक्यत्वात् ।
अभावेन हि धर्मेण तद्वत्ता धर्मिणः कथम् ।
अभावग्रहवेलायां धर्मिणो ऽनुपलम्भनात् ॥
अनित्यत्वमिति च भावप्रत्ययः कथमभावे भवेद्विरुद्धत्वात् , तस्मादुभया-
न्तपरिच्छिन्ना वस्तुसत्ता ऽनित्यत्वमुच्यताम्, कृतकत्वमपि सत्तैव कारणोत्पा-
दिताधारा सती कथ्यते इति, एवं च सत्तैव साध्यं साधनं चेति सिद्धं स्वभा-
वहेतुत्वम्, तदिदमनुपपन्नम्, साध्यसाधनयोस्तथात्वेनानवभासनात् , एवं
ह्युच्यमाने शब्दः सत्तावान्सत्त्वात्त्वादिति प्रतीतिः स्यात्, न चैवं दृश्यते अपि
तु अनित्यः शब्दः कृतकत्वादिति, अथोभयान्तपरिच्छिन्ना सत्ता साध्या कार-
णनिर्वर्त्या ऽऽश्रयसमवायिनी च साधनमित्युच्यते तदेतद्घटमानम्, विनाश-
रूपस्यान्तस्य तदानीमविद्यमानत्वेन सत्तापरिच्छेदकत्वाभावात् ।
बुद्धिस्थेनाथ तेनास्याः परिच्छेदो ऽभ्युपेयते ।
शब्दस्यैव परिच्छेदो विनाशेनास्तु तादृशा ॥
धर्मः समानकालो ऽपि बुद्धयैव विषयीकृतः ।
तद्विशेषणतां याति तथा भाव्यपि यास्यति ॥
तदेवं विनाशी शब्द इति विशेषणविशेष्यभावसिद्धेः किं सत्तासाध्यकल्प-
नया, यत्पुनरभिहितम् अभावे भावप्रत्ययस्त्वतादिर्न स्यादिति तदत्यन्तानभि-
ज्ञस्य चोद्यम्, शब्दप्रवृत्तिनिमित्तस्य तत्र भावप्रत्ययेनाभिधानात् , यस्य गुण-
स्य हि भावाद् द्रव्ये शब्दनिवेश इति अभावे ऽपि अभावत्वमिति दर्शनात् ,
तस्माद्बुद्धिस्थविनाशयोग एवानित्यत्वम्, कृतकत्वमप्युत्पत्तियोग एव न सत्ता,
कारणोत्पादिताभाव्यावच्छेदे तु तस्या इष्यमाणे धर्मिण एव तद्ववच्छेदो भव-
१४ न्या०

त्विति किं सोपानान्तरेण ।
ननूत्पादविनाशाख्यं न धर्मद्वयमन्वयि ।
यद् घटे नास्ति तच्छब्दे यच्च शब्दे न तद् घटे ॥
अथैक एव धर्मः सर्वभावसम्बन्धी इष्येत तर्हि ।
एकभावसमुत्पादे सर्वोत्पादः प्रसज्यते ।
एकप्रलयकाले च सकलप्रलयो भवेत् ॥
तस्मात्सत्तापक्ष एव वरम्, नैतदेवम्, धर्मिभेदे ऽपि धर्माणां तुल्यरूपा-
णामवभासात् ।
न घटादिस्वरूपं हि नाश इत्यवकल्पते ।
येनानन्वयदोषः स्यात् तद्भेदोपनिबन्धनः ॥
एकत्वमपि धर्मस्य नास्ति सर्वेषु धर्मिषु ।
येनैकध्वंससमये सकलध्वंससङ्करः ॥
भिन्नत्वे ऽपि च धर्माणां समानरूपत्वेनावभासमानत्वादन्वयग्रहणादिका-
र्यविरोधः, अत एव सामान्यमन्तरेणापि समानधर्ममूलान्वयादिव्यवहारोपपत्ते-
स्तत्र न सूत्रकारेण सामान्यग्रहणं कृतम् अपि तु साधर्म्यग्रहणमुपात्तम्, उदा-
हरणसाधर्म्यात्साध्यसाधनं हेतुः साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणमि-
ति तेन विनाशोत्पादधर्मयोः साध्यसाधनभावात् तयोश्च भेदाद् अनित्यः शब्दः
कृतकत्वादिति न स्वभावहेतुरिति सिद्धम्, कार्यहेतुरपि न सम्भवति भवतां
हि पक्षे क्षणयोर्वा कार्यकारणभावो भवेत्सन्तानयोर्वा ।
क्षणयोर्नेति वक्ष्यामः क्षणभङ्गनिराकृतौ ।
सम्भवन्नपि दुर्लक्ष्यः सूक्ष्मत्वाच्च तथाऽसौ ॥
धूमाग्निसन्तानयोस्तु अवास्तवत्वादेव नास्ति कार्यकारणभावः अर्थक्रिया-
कारित्वमेव वस्तुत्वम्, यदि धूमः कार्यत्वादनलमनुमापयेत् कटुमलिनगगन-
गामित्वादिधर्मैरपि तस्य गमको भवेत्, न च कथं चित्तत्कार्यत्वं कथं चिदत-
त्कार्यत्वं च धर्मस्योपपन्नम्, सर्वात्मकस्य तदन्वयव्यतिरेकानुविधायिप्रभवत्वाद्
अथ सर्वात्मना ऽपि तत्कार्यत्वे ।
धूमत्वमात्रमेवाग्निसहचारीति मन्यसे ।
सहचारित्वमेवास्तु तदुत्पत्तिकथा वृथा ॥
साहचर्यस्यानुमितिहेतुत्वम्—
ननु भवद्भिरपि कार्यानुमानमङ्गीकृतमेव यथा शेषवदिति व्याख्यास्यते,
यथाऽह कणव्रतः कार्यं कारणसंयोगि समवायि विरोधि चेति लैङ्गिकमिति, न
साहचर्योपलक्षणार्थत्वात्, धूमाग्न्योर्नदीपूरयोर्वा न कार्यकारणभावाद्गमकत्वं

यथोक्तेन न्यायेन अपि तु नित्यसाहचर्यानियमादेवेति, विरोधिनाः कथं साह-
चर्यमिति चेत् सदसतोगर्म्यगमकभावाद्विरोधिनोरेकतरदर्शनादन्यतरस्याभावो
ऽनुमीयते भावाभावयोश्च साहचर्यं तयोरस्त्येव, कणादसूत्रे कार्यादिग्रहणं चो-
पलक्षणम् ।
अन्येषामपि हेतूनां भूम्नां जगति दर्शनात् ।
सूर्यास्तमयमालोक्य कल्प्यते तारकोदयः ॥
पूर्णचन्द्रोदयाद्वृद्धिरम्बुधेरवगम्यते ।
उदितेनानुमीयन्ते सरितः कुम्भयोनिनः ।
शुष्यत्पुलिनपर्यन्तविश्रान्तखगपङ्क्तयः ॥
पिपीलिकाण्डसञ्चारचेष्टानुमितवृष्टयः ।
भवन्ति पथिकाः पर्णकुटीरकरणोद्यताः ॥
अन्ये ऽपि सौगतोद्गीतप्रतिबन्धद्वयोज्झिताः ।
कियन्तो बत गण्यन्ते हेतवः साध्यबोधकाः ॥
लोकप्रसिद्धतादात्म्यतदुत्पत्त्यवधीरणात् ।
डिम्भहेवाकसदृशं स्वमत्या तत्समर्थनम् ॥
अतश्च तत्स्वभावस्तत्कार्यमित्यादि व्यसनमात्रम्, अपि च—
व्यावृत्त्योर्लिङ्गलिङ्गित्त्वं प्रतिबन्धश्च वस्तुनोः ।
विकल्पैर्ग्रहणं तस्य कथं सङ्गच्छतामिदम् ॥
उक्तं चैतत्प्रथमे एवाह्निके इत्यलं प्रसङ्गेन ।
तस्मादनुमितिहेतुः संबन्धः साहचर्यमिति सिद्धम्, न तु शौद्धोदनिशिष्य-
परिकल्पितमुभयमप्येतत् ।
यत्त्वभ्यधीयत परैः किमधीनमस्य
तत्साहचर्यमिति तत्र विधिः प्रमाणम् ।
तादात्म्यतज्जननयोरपि चैष तेषां
तुल्यो ऽनुयोग इति किं विफलैः प्रलापैः ॥
नियमो व्याख्यातः स्मृतेरिति को ऽर्थः, उच्यते-
नियमो हि गृहीतो ऽङ्गमनुमेयप्रमां प्रति ।
न नारिकेलद्वीपस्थो धूमादग्निं प्रपद्यते ॥
साध्यानुमितिवेलायां न चास्ति नियमग्रहः ।
नियमग्रहकाले च न साध्यमनुमीयते ॥
तेन पूर्वगृहीतः सन्निदानीं स्मृतिगोचरः ॥
नियमः प्रतिपत्त्यङ्गं तथा ऽवगतिदर्शनात् ।
द्वितीयलिङ्गदर्शने सत्यपि नियमस्मरणमन्तरेण साध्यप्रमितेरनुत्पादात् ।

:
There is अ, then ग्नि?
Wait, look at अग्नि in line 14: पर्वताग्नी इति
Line 15: नाग्निविशिष्टधराधरधर्मतया -> here नाग्नि has ना + ग्नि (with ि matra).
Line 15/16: यत्र धूमस्तत्राग्निमान् -> ग्नि has ि matra.
Now look at line 13:
त्वम् अग्निधर्मत्वाद् धूमस्य?
Wait, between त्वम् and धर्मत्वाद्:
There is अ then ग्नि? Wait, is there an ि? No, it looks like अग्नि without the top curl, or does it have the curl? It has a vertical line before ग: that's ि! But the top loop is very faint or broken: अग्निधर्मत्वाद्!
Wait, could it be अनग्निधर्मत्वाद्?
No, only one letter between त्वम् and धर्मत्वाद्: अग्नि!
Wait, why would it say "अग्निधर्मत्वाद् धूमस्य"? Wait, in Nyaya:
If fire is the sadhya, who is the paksha? The mountain. But here: "धर्मे हि साध्ये न हेतोः पक्षधर्मत्वम्" - if the dharma (

प्रमाणप्रकरणम् १०९
ये तु प्रत्यक्षतो विश्वं पश्यन्ति हि भवादृशः ।
किं दिव्यचक्षुषामेषामनुमानप्रयोजनम् ॥
सामान्यद्वारको ऽप्यस्ति नाविनाभावनिश्चयः ।
वास्तवं हि न सामान्यं नाम किं चन विद्यते ॥
भूयोदर्शनगम्या ऽपि न व्याप्तिरवकल्पते ।
सहस्रशो ऽपि तद्दृष्टे व्यभिचारावधारणात् ।
बहुकृत्वो ऽपि वस्त्वात्मा तथेति परिनिश्चितः ।
देशकालादिभेदेन दृश्यते पुनरन्यथा ॥
भूयो दृष्ट्वा च धूमो ऽग्निसहचारीति गम्यताम् ।
अनग्नौ तु स नास्तीति न भूयोदर्शनाद्गतिः ॥
न चापि दृष्टमात्रेण गमकाः सहचारिणः ।
तत्रैव नियतत्वं हि तदन्याभावपूर्वकम् ॥
नियमश्चानुमानाङ्गं गृहीतः प्रतिपद्यते ।
ग्रहणं चास्य नान्यत्र नास्तितानिश्चयं विना ॥
दर्शनादर्शनाभ्यां हि नियमग्रहणं यदि ।
तदप्यसदनग्नौ हि धूमस्येष्टमदर्शनम् ॥
अनग्निश्च कियान्सर्वं जगज्ज्वलनवर्जितम् ।
तत्र धूमस्य नास्तित्वं नैव पश्यन्त्ययोगिनः ॥
तदेवं नियमाभावात्सति वा ज्ञप्त्यसम्भवात् ।
अनुमानप्रमाणत्वदुराशा परिमुच्यताम् ॥
अनुमानविरोधो ऽपि यदि चेष्टविघातकृत् ।
विरुद्धाव्यभिचारो वा सर्वत्र सुलभोदयः ॥
अत एवानुमानानामपश्यन्तः प्रमाणताम् ।
तद्विस्त्रम्भनिषेधार्थमिदमाहुर्मनीषिणः ॥
हस्तस्पर्शादिना ऽन्धेन विषमे पथि धावता ।
अनुमानप्रधानेन विनिपातो न दुर्लभः ॥
अपि च—
यत्नेनानुमितो ऽप्यर्थः कुशलैरनुमातृभिः ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥
अनुमानप्रामाण्यसमर्थनम्--
अत्राभिधीयते, किमयमनुमानस्वरूपाक्षेप एव क्रियते उत तत्तत्तार्किकोपल-
क्षिततल्लक्षणाक्षेप इति तत्रानुमानस्वरूपं चाशक्यनिह्नवमेव सर्वलोकप्रसिद्धत्वात् ।

अबलाबालगोपालहालिकाप्रमुखा अपि ।
बुध्यन्ते नियतार्थादर्थान्तरमसंशयम् ॥
अनुमानापलापे तु प्रत्यक्षादपि दुर्लभा ।
लोकयात्रेति लोकाः स्युर्लिखिता इव निश्चलाः ॥
प्रत्यक्षदृष्टमपि पदार्थजातं तज्जातीयत्वलिङ्गव्यापारेण सुखसाधनम् इतर-
कारणमिति वा निश्चित्य तदुपाददते जहति वा लौकिकाः, अथाविचारितर-
मणीयतैव तत्त्वं न तु लक्षणनियमः शक्यक्रियस्तस्येति लक्षणाक्षेपो ऽयमुच्यते
सो ऽप्ययुक्तः यतः,
यं कं चिदर्थमालोक्य यः कश्चिन्ना वगभ्यते ।
कं चिदेवात्तिपत्यर्थमर्थः कश्चिदिति स्थितिः ॥
तत्र वस्तुस्वभावो ऽयमिति पादप्रसारिका ।
दृश्यते ह्यविनाभूतादर्थादर्थान्तरे मतिः ॥
अतो यद्दर्शनाद्यत्र प्रतीतिरूपजायते ।
तयोरस्त्यर्थयोः कश्चित्सम्बन्ध

सौ नियतो धूम इति मनसा प्रतिपद्यते ।
मनश्च सर्वविषयं केन वा नाभ्युपेयते ।
असन्निहितमप्यर्थमवधारयितुं क्षमम् ॥
न च सकलत्रिभुवनविवरनिरुद्धधूमाग्निव्यक्तिसार्थसाक्षात्कारणमुपयुज्यते
ज्वलनत्वादिसामान्यपुरःसरतया व्याप्तिग्रहणात् , यत्तूक्तं सामान्यं वास्तवं ना-
स्तीति तच्छब्दार्थचिन्ताप्रसङ्गे प्रतिसमाधास्यते ।
अपरे पुनः योगिप्रत्यक्षकल्पं यौक्तिकं सम्बन्धग्राहि प्रत्यक्षं प्रतिपेदिरे किल
धूमत्वाग्नित्वसामान्यपुरस्कारेण व्याप्यव्यापकयोरन्वयो नाम गृह्यताम्, व्य-
तिरेकस्त्वनग्निभ्यो धूमस्य ग्रहीतव्यः, अनग्नयश्चातिवितताः न च तेष्वनग्नि-
त्वं नाम सामान्यमस्ति, तेन समस्तत्रैलोक्यान्तर्गताग्न्यनग्निनिगतान्वयव्यतिरे-
कग्राहिप्रत्यक्षव्यतिरेकेण न प्रतिबन्धोऽवधृतो भवेत् अनवधृतश्च न प्रमा-
ङ्गमस्ति च प्रमेति युक्तं बलात्प्रतिबन्धग्राहकमेकस्मिन् क्षणे प्रत्यक्षमि-
दमशेषव्यक्तिविषयमसंचेद्यमानमपि कल्पितमिति यौक्तिकमुच्यते ।
अन्ये पुनः अत एव तत्कल्पनाभयाद्भूयोदर्शनपरिच्छिन्नसामान्यपुरःसरा-
न्वयमनपेक्षितव्यतिरेकनिश्चयमेव लिङ्गं गमकमभ्युपागमन् , यथोक्तम् , मम
त्वदृष्टिमात्रेण गमकाः सहचारिण इति, अयमाशयः—
भूयोदर्शनतस्तावदुदेति मतिरीदृशी ।
नियतो ऽयमनेनेति सकलप्राणिसाक्षिका ॥
तावता च गमकत्वमौत्सर्गिकं सिध्यति मीमांसकानां तु विपक्षे दर्शनं बा-
धकः प्रत्ययः न च सोस्ति नाद्य यावदनग्नौ धूमो दृष्टः, अनुत्पन्ने ऽपि बाध-
के तदाशङ्कनमयुक्तमित्युक्तं तैः, दोषज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणिकेति,
एतत्तु न चारु, व्यतिरेकनिश्चयमन्तरेण प्रतिबन्धग्रहणानुपपत्तेरित्युक्तत्वात्,
ज्ञापकत्वाद्वि नियमः स्वग्रहणमपेक्षते, नियमश्चायमुच्यते यत्तस्मिन्सति भव-
नं ततो विना न भवनमिति भूयोदर्शनं तच्च तस्मिन्सति भवनमित्यन्वयमात्र-
परिच्छेदादधं गृहीतो नियमः स्यात् ततो विना न भवनमित्यस्यार्थस्यापरिच्छे-
दादिति,
अपरे पुनः अनग्नित्वसामान्यमन्तरेणापि योगिप्रत्यक्षकल्पनामकूर्वन्त
एव मानसप्रत्यक्षगम्यमन्वयव्यतिरेकमाहुः, धूमाग्निसामान्ये तावत्सहचरिते
उपलब्धे तद्गतदभावावपि सहचरितावुपलभ्येते एव, धूमत्वसामान्यस्यानग्नौ ज-
लादावदर्शनात् , सर्वगतत्वे ऽपि सामान्यानां वृत्तिभेदो नियामक इति वक्ष्यते
यद्यपि चानग्नित्वाद्यभावसामान्यं नास्ति तथा ऽपि प्रतिषेध्याग्नित्वसामान्यानु-
गमसिद्धैव तदभावानुगमग्रहणं सिध्यति सकलव्यक्तिज्ञानमनङ्गं व्याप्तिनिश्चये ।
भावसामान्ययोर्यद्वत्तथैव तदभावयोः ।

भावयोः साहचर्यं यदन्वयं तत्प्रचक्षते ॥
व्यतिरेकं तु मन्यन्ते साहित्यं तदभावयोः ।
साध्यसाधनभावस्तु भवेद्यत्राप्यभावयोः ॥
तयोरेवान्वयस्तत्र व्यतिरेकस्तु भावयोः ।
तदेवमभावान्वयवद्भावव्यतिरेको ऽपि प्रत्यक्षगम्यो भवत्येव ।
इयानेव विशेषस्तु भावयोर्यादृशी ययोः ।
व्याप्यव्यापकता सैव व्यत्यस्ता तदभावयोः ॥
अभावयोस्तु गम्यगमकभावे भावयोर्व्याप्तिप्रत्ययो द्रष्टव्यः, एवं च प्रति-
षेध्यानुगमपूर्वकसामान्यभावद्वयानुगमप्रत्ययोपपत्तेरन्वयतद्व्यतिरेकनिश्चये ऽपि
न योगिप्रत्यक्षमुपयुज्यते भावाभावसाहचर्यमवधार्य मनसा नियमज्ञानसिद्धे-
रित्यलं निर्बन्धेन, तस्मान्नियमवत्तद्ग्रहणोपायो ऽप्यस्तीति सिद्धम् ।
गृहीते नियमे यावत्पुनः क चिद्धर्मिणि धूमादेर्लिङ्गस्य ग्रहणं न वृत्तं तावन्न
भवति लिङ्गिनो ऽवगतिरिति सम्बन्धग्रहणकालापेक्षया द्वितीयं तल्लिङ्गदर्शनम-
पेक्षितव्यम्, सैवेयं पक्षधर्मतोच्यते, पक्षधर्मान्वयव्यतिरेकनिश्चये सत्यपि प्रत्य-
क्षागमविरोधेन प्रतिपक्षोपनिपातेन वा न गमकत्वमिति तदपरं लक्षणद्वयमुपदि-
ष्टम्, अबाधितविषयत्वम् असत्प्रतिपक्षत्वं चेति, तदेवमनुभवसिद्धत्वादनुमान-
स्वरूपमिव तस्य लक्षणमपि तान्त्रिकविरचितमवाचकं लक्षणं तत्स्वयमनवद्यमा-
वेद्यताम् , न तु तद्द्द्वेषेण लक्ष्यमप्यनुमानं निह्नोतुं युक्तम् ,
यत्पुनरभाणि प्रमाणस्य गौणत्वादनुमानादर्थनिश्चयो दुर्लभ इति तन्न-
बुद्ध्यामहे, न हि प्रमाणस्य किं चिद्गौणत्वमिह पश्यामः, पक्षधर्मादि-
पदानि यदि नाम व्याख्यातृभिर्गौणानि प्रयुक्तानि किमेतावता प्रमाणं गौणी-
भवेत् , शब्

हेतौ सुप्रतिबद्धे हि नैताः सन्ति विडम्बनाः ॥
तादृशा चानुमानेन पुंसो ऽर्थमधिगच्छतः ।
नान्धेन तुल्यता हस्तस्पर्शानुमितवर्त्मना ॥
यत्नेनानुमितो यो ऽर्थः कुशलैरनुमातृभिः ।
अभियोगशतेनापि सो ऽन्यथा नोपपाद्यते ॥
सुशिक्षिततराः प्राहुः द्विविधमनुमानम्, किं चिदुत्पन्नप्रतीति किं चिदुत्पा-
द्यप्रतीति ईश्वराद्यनुमानं तु उत्पाद्यप्रतीति ।
तत्र धूमानुमानादेः प्रामाण्यं केन नेष्यते ।
अतो हि साध्यं बुध्यन्ते तार्किकैरङ्गता अपि ॥
यत्त्वात्मेश्वरसर्वज्ञपरलोकादिगोचरम् ।
अनुमानं न तस्येष्टं प्रामाण्यं तत्त्वदर्शिभिः ॥
ऋजूनां जायते तस्मान्न तावदनुमेयधीः ।
यावत्कुटिलितं चेतो न तेषां विटतार्किकैः ॥
एवं तु कथयद्भिस्तैः परं नास्तिक्यमात्मनः ।
ख्याप्यते स्म जडत्वं वा नानुमानाप्रमाणता ॥
न हि सम्बन्धग्रहणोपायवैचित्र्यादप्रमाणता भवितुमर्हति ।
आगमेनानुमानेन तर्कव्युत्पादनेन वा ।
प्रत्यक्षेण गृहीतो वा सम्बन्धो न विशिष्यते ॥
ईश्वराद्यनुमानानां तत्प्रसङ्गे सविस्तरम् ।
द्रढिमानं च वक्ष्याम इत्यलं बहुभाषितैः ॥
प्रमाणमुपगम्यतां तदनुमानमेवंविधै-
रविप्लुतपराक्रमं भवदुदीरितैर्दूषणैः ।
अनभ्युपगमे पुनर्विगतचेष्टिताः प्राणिनो
भवेयुरुपलोपमा इति हि पूर्वमावेदितम् ॥
अनुमानलक्षणसूत्रार्थः—
अथेदानीं सूत्रमनुसरामः, तत्पूर्वकमित्यादि, अनुमानमिति लक्ष्यनिर्देशः,
तत्पूर्वकमिति लक्षणम्, तदिति सर्वनाम्ना प्रक्रान्तं प्रत्यक्षमवमृश्यते तत्
पूर्वं कारणं यस्य तत्तत्पूर्वकम् , एतावत्युच्यमाने निर्णयोपमानादौ तत्पूर्वके
प्रसङ्गो न व्यावर्तते इति तद्व्यावृत्तये द्विवचनान्तेन विग्रहः प्रदर्शयितव्यः,
ते द्वे प्रत्यक्षे पूर्वे यस्येति यदेकमविनाभावग्राहि प्रत्यक्षं व्याख्यातं यच्च द्वितीयं
लिङ्गदर्शनं ते द्वे प्रत्यक्षे अनुमानस्यैव कारणं नोपमनादेः, तत्र प्रतिबन्धग्राहि
प्रत्यक्षं स्मरणद्वारेण तत्कारणं लिङ्गदर्शनं तु स्वत एव ।
१५ न्या०

ननु प्रत्यक्षमात्रस्य प्रकृतत्वादप्रकृतावमर्शित्वाच्च सर्वनाम्नः कुतो ऽयं विशे-
षप्रतिलाभः, उच्यते—उदाहरणसाधर्म्यात्साध्यसाधनं हेतुरिति वक्ष्यते, हेतुरेव
चानुमानं यदिह लक्ष्यं निर्दिष्टम्, न चागृहीतमुदाहरणसाधर्म्यं तद्वैधर्म्यं वा
साध्यसाधनं भवतीति तद्ग्रहणोपायो ऽपेक्षितव्यः, प्रत्यक्षव्यतिरिक्ततदवगमो-
पायपरिकल्पने चानवस्थादूषणमसकृदभिहितमिति प्रत्यक्षस्यैव तदुपायत्वमतः
अनुमानकारणभूतप्रत्यक्षापेक्षया प्रत्यक्षमात्रप्रक्रमे ऽपि सर्वनाम्ना तद्विशेष आ-
क्षिप्यते यत्प्रतिबन्धग्राहि प्रत्यक्षं यच्च द्वितीयं लिङ्गदर्शनमिति,
ननु प्रत्यक्षविशेषद्वयपूर्वकत्वमनुमानाभासेष्वपि सव्यभिचारविरुद्धादिषु
सम्भवतीत्यतिव्याप्तिः मैवम्—हेतुलक्षणेन साध्यसाधनग्रहणेन तत्प्रतिक्षेपात्
प्रतिबन्धस्वरूपं हि तत्रैव निपुणमभिधास्यते इह तु तद्ग्रहणोपायमात्रमुच्य-
ते सम्यक् प्रवृत्ते च प्रतिबन्धग्राहिणि प्रत्यक्षे व्याप्तिविप्लवाभावान्नानुमानाभा-
सप्रसङ्गः, सामान्यलक्षणानुवादेन च विशेषलक्षणे वर्ण्यमाने तत एव प्रमाणा-
भासव्युदाससिद्धेः केवलमिदानीं समानजातीयोपमानादिव्यवच्छेदो वचनीय इति
स एव तत्पूर्वकपदेनोपात्तः अर्थोत्पन्नमव्यभिचारि व्यवसायात्मकमिति फलवि-
शेषणानां सर्वप्रमाणेष्वनुवृत्तेः ।
युगपच्च क्वचिन्नास्ति व्यापारः शब्दलिङ्गयोः ।
अतो नाव्यपदेशत्वविशेषणमिहार्थवत् ॥
द्वयोरपि च शब्दलिङ्गयोः ज्ञापकत्वेन स्वरूपग्रहणापेक्षत्वात् ज्ञानायौगप-
द्येन च युगपद्ग्रहणासम्भवात् ।
नन्वेवं निरस्यतामतिव्याप्तिः अव्याप्तिस्तु कथं निरसिष्यते आगमादि-
पूर्वकाणामनुमानानामसंग्रहात्, तेष्वपि मूलभूतं प्रत्यक्षमेव कारणमिति के-
चिदाहुः । यथोक्तम्—
यत्राप्यनुमिताल्लिङ्गाल्लिङ्गिनि ग्रहणं भवेत् ।
तत्रापि मौलिकं लिङ्गं प्रत्यक्षादेव गम्यते ॥ (१) इति,
यद्वा प्राधान्याभिप्रायेण प्रत्यक्षपूर्वकत्वमुच्यते न नियमार्थमिति ना-
व्याप्तिः, तानीति वा पुनस्तावदवबोधाय विग्रहः कर्तव्यः तानि प्रत्यक्षादीनि
पूर्वं यस्येति, यद्यपि प्रत्यक्षमेव लक्ष्यत्वेन प्रस्तुतं तथा ऽपि व्यवच्छेद्यतया ऽनु-
मानादीनामपि प्रकृतत्वं न वार्यते ।
अत्र चोदयन्ति—तदिति करणावमर्शो वा स्यात् फलावमर्शो वा,
करणावमर्शो इन्द्रियादिकरणपूर्वकं ज्ञानं तत्फलं तत्पूर्वकं चानुमानमिति पूर्वश-
ब्दस्य द्विः पाठः स्यात्, स चाश्रुत्वा कल्पनीयः फलावमर्शो तु प्रत्यक्ष-
( १ ) श्लोकवार्तिकेऽनुमानग्रन्थे श्लोकः १७१ ।

फलपूर्वकमनुमानमिति तत्पूर्वकशब्दस्य फलवचनस्यानुमानशब्देन करण-
वाचिना सह सामानाधिकरण्यं न स्यात्तत्पूर्वकमनुमानमिति प्रत्यक्षफलेन
हि लिङ्गदर्शनेन परोक्षार्थप्रतिपत्तिरुपजन्यते सा चानुमानफलं नानुमानमि-
ति, उच्यते—उभयथा ऽपि न दोषः, कारणावमर्शे तावदिन्द्रियादिकरणपूर्वकं
तत्फलं लिङ्गदर्शनं यत् तदेव परोक्षार्थप्रतिपत्तौ करणमनुमानमिति न द्विः पूर्व-
कशब्दस्य पाठ उपयुज्यते, फले ऽप्यवमृश्यमाने प्रत्यक्षफललिङ्गदर्शनपूर्वकं य-
दविनाभावस्मरणं तदनुमानं करणमेव ततः परोक्षार्थप्रतिपत्तेः, यदुक्तं प्रत्युत्प-
न्नकारणजन्या स्मृतिरनुमानमिति स्पष्टमेव सामानाधिकरण्यम्, फले वा अनु-
मानशब्दं वर्णयिष्यामः अनुमितिरनुमानमिति, यतःशब्दं वा अध्याहरिष्यामः
प्रत्यक्षफलपूर्वकं परोक्षार्थप्रतिपत्तिरूपं फलं यतो भवति तदनुमानमिति, अत्र
हि प्रथमं लिङ्गदर्शनं ततः प्रतिबन्धस्मरणं ततः केषां चिन्मते परामर्शज्ञानं ततः
साध्यार्थप्रतीतिस्ततःप्रत्यक्षलक्षणावसरवर्णितेन क्रमेण हेयादिज्ञानमितीति प्र-
तीतिकलापे यथोपपत्ति कार्यकारणभावो वक्तव्य इत्येवं तत्पूर्वकपदमेव केवल-
मनुमानलक्षणक्षममिति गुरवो वर्णयां चक्रुः ।

सूत्रस्थस्य त्रिविधपदस्य कृत्यम्—

अन्ये पुनः उपमानाद्यतिव्याप्तिव्युदासाय त्रिविधग्रहणं व्याख्यातवन्तः,
तत्पूर्वकमनुमानमित्युच्यमाने सति उपमानादौ प्रसङ्ग इति त्रिविधग्रहणम्,
लिङ्गं वक्ष्यमाणकार्यादिभेदाद्वा त्रिविधं पक्षधर्मादिरूपत्रययोगाद्वा त्रिरूपं
त्रिविधमुच्यते, लिङ्गे च त्रिविधे सति तदालम्बनज्ञानमुपचारात्त्रिविधमभिधी-
यते, तेन प्रत्यक्षपूर्वकं त्रिविधलिङ्गालम्बनज्ञानमनुमानमित्युक्ते सति नातिव्याप्तिः।
ननु पूर्ववदादिभिः शब्दैः कार्यादिभेदवर्णनं ज्ञास्यामः पक्षधर्मादिरूपत्रयं तु
कथमेभिः शब्दैः प्रतिपाद्यते इति,
अत्राहुः वादादिकथात्रयेऽपि पूर्वमुपादीयमानत्वात्पक्षः पूर्वशब्देनोच्यते
सो ऽस्यास्त्याश्रयत्वेनेति पूर्ववल्लिङ्गमित्येवमनेन पदेन पक्षधर्मत्वमुक्तं भवति,
पक्षे उपयुक्ते सति शेषः सपक्षो भवति सो ऽस्यास्त्याश्रयत्वेनेति शेषवत्, एव-
मनेन सपक्षे वृत्तिरुक्ता भवति, सामान्यतोदृष्टमित्यनेन विपक्षाद्व्यावृत्तं लिङ्गमु-
च्यते, कथम्, अकारप्रश्लेषात् सामान्यतो ऽदृष्टमिति तिष्ठतु तावद्विशेषः सा-
मान्यतो ऽपि न दृष्टम्, क्वेति पक्षसपक्षयोर्वृत्तेरुक्तत्वात्परिशेषाद्विपक्षे सामा-
न्यतो ऽपि न दृष्टमित्यवतिष्ठते इत्थं त्रिरूपं लिङ्गमेभिः शब्दैरुक्तं भवति, त-
दालम्बनं ज्ञानमनुमानम् ।
तदेवं लक्षणे कश्चित्सर्वं सूत्रमयोजयत् ।
एवं तु ख्यापितं न स्यात्सूत्रकारस्य कौशलम् ॥

" "पदोद्गीत" "निर्मलन्न्यायलक्षणाः"
Wait, why "निर्मलन् न्यायलक्षणाः"?
Wait, could it be:
"तत्पूर्वकपदोद्गीतं निर्मलन् न्यायलक्षणाः ।"?
Wait, look at the word:
त-त्पू-र्वा-क-प-दो-द्गी-त-नि-र्म-ल-न्या-य-ल-क्ष-णाः
Wait, count syllables:
तत् (1) पूर् (2) व (3) क (4) प (5) दोद् (6) गी (7) त (8)
निर् (1) म (2) लन् (3) न्या (4) य (5) ल (6) क्ष (7) णाः (8)
Wait!
If it's:
तत् पूर् व क | प दोद् गी त |
1 2 3 4 | 5 6 7 8 | (8 syllables)
निर्मु...
Wait, in Anustubh:
Pathyā: syllables 5, 6, 7 are usually:
In odd pada: ⏑ – – (laghu, guru, guru) or similar.
In even pada: ⏑ – ⏑ (laghu, guru, laghu).
Let's check the meter:
Pada 1 (odd):
तत् (G) पूर्व (G) क (L)

प्रमाणप्रकरणम् ११७

च्मात्रानुमेया, अत एव तस्य वस्तुनो ऽनन्यत्वात्स्वभावानुमानमिदमिष्यते, स
स्वभावो ऽनुवर्णित इति,
अत्राहुः सर्वमिदमविदितानुमानप्रयोगक्रमस्य दुर्मतेश्चोद्यम्, न कार्यमत्र
पक्षीक्रियते न सत्ता साध्यते न व्यधिकरणो हेतुः प्रयुज्यते अपि तु पयोधरा
एव धर्मिणः अदूरकालभाविन्या वृष्ट्या तद्वन्तः साध्यन्ते विशिष्टोन्नतिरूपध-
र्मादियोगेनेति न पूर्वकथितदोषावसरः, यथा अग्निमानयं धूमः बहुलपाण्डुता-
दिधर्मयोगित्वान्महानसावधृतधूमवदिति, धूम एवाग्निमत्तया ऽनुमीयते एवं
समनन्तरोत्पादितवृष्टयो ऽमी जीमूताः सातिशयोन्नत्यादिधर्मयोगित्वात्पूर्वोपल-
ब्धपर्जन्यवद् इति जलधरा एव भविष्यद्वृष्टिमत्तया ऽनुमीयन्ते यथाह भट्टः—
तस्माद्धर्मविशिष्टस्य धर्मिणः स्यात्प्रमेयता ।
सा देशस्याग्नियुक्तस्य धूमस्यान्यैश्च कल्पिता इति (१) ॥
यत्तु पूर्वं कारणमुच्यते इति तत्सत्यम्, पूर्वमस्यास्तीति पूर्ववत्कारणगत-
मुन्नतत्वादिधर्मजातमुच्यते तदेव लिङ्गमिति ग्रन्थदोषो ऽपि न कश्चित् , न च
कारणमात्रस्य हेतुत्वं ब्रूमो येनास्य विधुरप्रत्ययोपनिपातादिकृतो व्यभिचारः
स्यात् , अपि च विशिष्टमेव कारणं हेतुः न च कारणविशेषो दुरवगमः ।
गम्भीरगर्जितारम्भनिर्भिन्नगिरिगह्वराः ।
रोलम्बगवलव्यालतमालमलिनत्विषः ॥
त्वङ्गत्तडिल्लतासङ्गपिशङ्गेत्तुङ्गविग्रहाः ।
वृष्टिं व्यभिचरन्तीह नैव प्रायः पयोमुचः ॥
अनभ्युपगमे चैवमनुमानस्य जीवितम् ।
न स्याद्धूमविशेषाणामपि बोद्धुमशक्तिः ॥
यदपि कार्यप्रत्यक्षत्वमाशङ्कितं तदप्ययुक्तम् , न ह्यत्र वृष्ट्यनुमानसमये एव
शिरसि सलिलकणाः पतन्तः पयोदमुक्ता दृश्यन्ते, परोक्षे लिङ्गिनि ज्ञानमनुमा-
नमिति च विशेषणोपादानात् , यत्र तत्र न तदानीमेव वृष्टिः प्रत्यक्षीभवति तदु-
दाहरणं भविष्यति, अपि च अनुपजातावयवक्रियतया ऽनाशङ्क्यमानविनाशे-
ऽन्यतन्तौ जातया क्रियया पटनिष्पत्त्यनुमाने क्रियमाणे पटप्रत्यक्षताकाले व्यव-
धानसम्भवात्, तथा हि, एकतस्तावत् अन्यतन्तौ क्रियादर्शनम् अविनाभावस्म-
रणम् परामर्शज्ञानम् अनुमेयप्रतीतिरिति त्रिचतुराः क्षणाः अन्यतस्तु क्रिया क्रि-
यातो विभागः विभागात्पूर्वसंयोगनिवृत्तिः ततः उत्तरसंयोगोत्पादः ततः पटनि-


( १ ) श्लोकवार्तिकेऽनुमाग्रन्थे श्लोकः ४७ ।

ष्पत्तिः निष्पन्ने पटे क्षणान्तरे रूपादिगुणारम्भः रूपादिजन्मनि पटस्य समवा-
यिकारणत्वात् कारणस्य कार्यादवश्यं पूर्वकालभावित्वम्, अतो निष्पन्नो ऽपि
नूनमेकस्मिन् क्षणे नीरूपः पटो भवतीति न तदैव प्रत्यक्षः, ततः क्षणान्तरे रूपो-
त्पादाद्रूपवद् द्रव्यमिन्द्रियसन्निकर्षात्प्रत्यक्षं भविष्यतीत्यतिबहव एते क्षणा अतो
न कार्यप्रत्यक्षत्वम्, नापि विधुरप्रत्ययादिना कार्यानुत्पत्तिरनुत्पन्नावयवक्रियस्व-
विशेषणोपादनेन तद्विनाशानाशङ्कनात्क्रियातश्चोत्तरोत्तरकार्याणामवश्यम्भा-
वित्वात् ।
यदपि हेतुना यः समग्रेणेत्यादिना योग्यतानुमानं व्याख्यातं तदप्यसाधु
स्वभावानुमानस्य निरस्तत्वात्, लोकश्च कारणाद्विकलात्कार्यमेव कल्पयति
न योग्यतामित्यलं प्रसङ्गेन ।
शेषवत्पदस्यार्थः--
शेषवदिति यत्र कार्येण कारणमनुमीयते यथा नदीपूरेणोपरितने देशे
वृष्टिरिति, अत्रापि वृष्टिमदुपरितनदेशसंसर्गलक्षणो नदीधर्मः तद्धर्मेणैव
विशिष्टेन पूर्णतादिना ऽनुमीयते, वृष्टिमत्पृष्ठदेशसंसृष्टा इयं नदी फेनिलक-
लुषत्वादिविशिष्टपूरोपे तत्वात् पूर्वोपलब्धैवंविधधुनीवत्, अयं देशो वा
वृष्टिविशिष्टदेशान्तरसंसृष्टः विशिष्टनदीपूरवत्त्वेनानुमीयते इति प्राक्तनवैधिक-
रण्यादिचोद्यचक्रस्येहापि नास्ति प्रसरः, फलतस्त्वियं वाचोयुक्तिः कार्येण का-
रणमनुमीयते इति परमार्थतस्तु धर्मो धर्मवत्त्वेन धर्मिवाननुमीयते इति स्थितिः,
यदाह भट्टः--
स एव चोभयात्मा ऽयं गम्यो गमक एव च ।
असिद्धेनैकदेशेन गम्यः सिद्धेन बोधक इति (१) ॥
यत्तु सेतुभङ्गाहिमविलयनादिनापि नदीपूरोपपत्तिर्दृष्टेति तत्राप्युच्यते ।
आवर्त्तवर्त्तनाशा लिविशालकलुषोदकः ।
कल्लोलविकटास्फालस्फुरत्फेनच्छटान्वितः ॥
वहद्वहलशैवलवनशाद्वलसंकुलः ।
नदीपूरविशेषो ऽपि शक्येत न निवेदितुम् ॥
प्रमातुरपराधो ऽयं विशेषं यो न पश्यति ।
नानुमानस्य दोषो ऽस्ति प्रमेयाव्यभिचारिणः ॥
रोधोपघातसादृश्यव्यभिचारनिबन्धनम् ।
अनुमानाप्रमाणत्वमतो वक्तुमसांप्रतम् ॥
( १ ) श्लोकवार्तिके अनुमानग्रन्थे श्लोकः २४।

प्रमाणप्रकरणम् ११९

पारम्पर्येण वृष्टिश्च नदीपूरस्य कारणम् ।
पतद्घनपयोबिन्दुसंदोहस्पन्दनक्रमात् ॥
सामान्यतो दृष्टपदस्यार्थः ।
सामान्यतोदृष्टं तु यदकार्यकारणभूताल्लिङ्गात्तादृशस्यैव लिङ्गिनो ऽनुमा-
नं यथा कपित्थादौ रूपेण रसानुमानम् , रूपरसयोः समवायिकारणमेकं कपि-
त्थादि द्रव्यं न तु तयोरन्योन्यं कार्यकारणभावः, शाक्यदृष्ट्या ऽपि वर्त्तमानयोः
क्षणयोरितरेतरकार्यकारणता न सम्भवत्येव, धर्मिणश्च रूपवत्त्वेन रसवत्तानु-
मानाद् असिद्धादिचोद्यानां पूर्ववदनवकाशो वक्तव्यः, यत्पुनर्भाष्यकारेण भास्क-
रस्य देशान्तरप्राप्त्या गत्यनुमानमुदाहृतं तदयुक्तम् , देशान्तरप्राप्तेर्गतिकार्यत्वा-
त्कार्येण कारणानुमानं शेषवदेवेदं स्यात् ।
अपि च देशान्तरप्राप्तिर्देशान्तरसंयोगः न च (१)दशशतांशोर्देशान्तरेण
शैलादिना संयोगः सम्भवति नभसा तु भवन्नपि दिशा वा दुर्लक्ष्यः प्रत्यक्षेतर-
वृत्तित्वात् पवनवनस्पतिसंयोगवत् मातृगर्भसंयोगवद्वा ।
अथ देशान्तरे तरणिदर्शनं हेतुरुच्यते तस्यापि गतिकार्यता पारम्पर्येण वि-
द्यत एव गत्या प्राप्तिः प्राप्त्या च तत्र दर्शनमिति, अथ देशान्तरे उपवने दर्शनं
पक्षीकृत्य दर्शनत्वेन च दर्शनशब्दवाच्यत्वेन च वा तस्य गतिपूर्वकत्वमनुमीयते
देशान्तरे दिवाकरदर्शनं गतिपूर्वकं देशान्तरदर्शनत्वात्तच्छब्दवाच्यत्वाद्वा देव-
दत्तदेशान्तरदर्शनवदिति तथा ऽपि पारम्पर्येण गतिकार्यता न निवर्त्तत एव, न
हि दर्शनत्वं गोत्वादिवत्सामान्यमस्ति किं तु भावप्रत्ययेनात्र दर्शनोत्पादिका श-
क्तिरुच्यते सा च नातीन्द्रिया नित्या का चिद् अपि तु स्वरूपसहकारिस्वभावै-
वेति दृश्यमानं च देशान्तरप्राप्त्यात्मकमिति गतिकार्यम् , एवं दर्शनशब्दवा-
च्यत्वे ऽपि हेतूकृते वक्तव्यम् , गत्या देशान्तप्राप्तिः जन्यते तया तत्र दर्शनं ते-
न शब्दप्रयोगः स एव वाच्यत्वमिति भावप्रत्ययेनोक्तः तस्मात्सर्वथा गतिका-
र्यत्वानपायाच्छेषवदेवेदमनुमानम् ।
तदेतद्भाष्यकारीयमुदाहरणमीदृशम् ।
रूपाद्रसानुमानं तु तस्माद्युक्तमुदाहृतम् ॥
अकार्यकारणप्रायहेतूनां च प्रदर्शितः ।
भदन्तकलहे(२) ऽस्माभिरुदाहरणविस्तरः ॥


( १ ) दशशतांशोः-सूर्यस्य ।
( २ ) भदन्तो-

Here is the line-by-line transcription of the Sanskrit text from the page:

१२० न्यायमञ्जर्याम्
अनुमानत्रैविध्यान्तरम्—
एवं तावन्मतुब्व्याख्यया त्रैविध्यमनुमानस्य वर्णितम्, एतत्तु फल्गुप्रायमिव
मन्यन्ते नियमात्मकसम्बन्धबलादेव लिङ्गस्य गमकत्वमुक्तं न कार्यादिस्वरूपेण
तत्किमीदृशत्रैविध्येन दर्शितेनेति वतिप्रत्ययमाश्रित्यान्यथा व्याचक्षते, पूर्व-
वदिति अत्र संबन्धग्रहणकाले लिङ्गलिङ्गिनोः प्रत्यक्षतः स्वरूपमवधार्य पुन-
स्तादृशैव लिङ्गेन तादृगेव लिङ्गी गम्यते तत्पूर्वेण तुल्यं वर्त्तते इति पूर्ववद-
नुमानम्, यथा महानसे धूमाग्नी सहचरितौ दृष्ट्वा पुनः पर्वते धूमाग्न्यनुमानम्,
ननु प्रत्यक्षप्रतीत्या विषयगतसकलविशेषासाक्षात्कारणक्षमया तुल्या नानु-
मानिकी मतिरिति कथं क्रियातुल्यत्वं तदभावात्कथं वतिः, सत्यमेवम्, तथापि
वह्नेरेव तादृशस्य वैलक्षण्यापादकविशेषावच्छिन्नस्य लिङ्गेन ग्रहणाददूरवि-
प्रकर्षेण क्रियातुल्यत्वमुपपत्स्यते, शेषवन्नाम परिशेषः स च प्रसक्तप्रतिषेधे ऽन्य-
त्राप्रसङ्गाच्छिष्यमाणसंप्रत्ययः, यथा क चित्प्रदेशे धूमेनाग्निमात्रे ऽनुमिते किं-
मिन्धनो ऽयमग्निरिति विमर्श प्रसक्तानां तृणपर्णकाष्ठादीनां प्रतिषेधान्मूत्राष-
णादीनामप्रसङ्गाच्च गोमयेन्धनो ऽग्निः परिकल्प्यते, यथा वा शब्दे द्रव्यकर्मत्व-
प्रतिषेधात्सामान्यादावप्रसङ्गाच्च गुणत्वानुमानं वक्ष्यते, सामान्यतोदृष्टं तु यत्र
संबन्धकाले ऽपि लिङ्गस्वरूपमप्रत्यक्षं नित्यपरोक्षमेव सामान्यतोव्याप्तिग्रहणा-
दनुमीयते यथा शब्दाद्युपलब्ध्या श्रोत्रादि करणम्, इन्द्रियाणामतीन्द्रियत्वान्न
कदा चित्प्रत्यक्षगम्यत्वम् अथ च छेदनादिक्रियाणां परश्वधादिकरणपूर्वकत्वेन
व्याप्तिग्रहणाच्छब्दाद्युपलब्धिक्रियाणां करणपूर्वकत्वमनुमीयते ।
अत्र वतिव्याख्याने चोदयन्ति, पूर्ववदेवमेकमनुमानमुक्तं स्यान्न त्रिविधम्,
यतो न तावदनवगतव्याप्तिकं लिङ्गं गमकं भवति विशेषाणामनन्तत्वेन च त-
दन्वयव्यतिरेकयोर्दुर्अवगमत्वात्सर्वत्र सामान्येनैव व्याप्तिग्रहणम्, यच्चैत्थं व्याप्ति-
ज्ञानं तत्तुल्यं त्रितये ऽपि अतः सर्वं पूर्ववदेव स्याद्वृतेः सर्वत्र सम्भवात् ।
तदेतदयुक्तम्, अवान्तरविशेषस्य सुस्पष्टस्य भावात्, व्याप्तिपूर्वकमनुमा-
नमित्येतावता यद्येकविधमुच्यते तत्सत्यम्, एवं प्रकारमेवेदं तस्मिन्सत्यपि तु
साम्ये भेदान्तरसम्भवात्त्रैविध्यमस्य प्रतिपाद्यते, तथा हि, धूमज्वलनयोः पूर्वं
प्रत्यक्षेण ग्रहणादिदानीं तेनैव धूमेन स एवाग्निरनुमीयते इति पूर्ववदिदमनुमा-
नमुच्यते यत्प्रत्यक्षपूर्वकमिति प्रसिद्धम् ।
ननु धूमान्तरेण वह्न्यन्तरानुमानं किं न प्रत्यक्षपूर्वकम्, क एवमाह न
पूर्ववदिति, कथं तर्हीदमुच्यते तेनैव धूमेनेति, जात्यभिप्रायमेतदुच्यते न व्य-
क्त्यभिप्रायम् ।
ननु सामान्यतस्तर्हि तत्परिच्छेदात्सामान्यतोदृष्टमेवेदं स्यात्, न सामा-

न्यतोदृष्टस्य नित्यपरोक्षानुमेयैकविषयत्वात् , प्रसक्तप्रतिषेधादिना च नियतसा-
ध्यपरिच्छेदहेतुः परिशेषानुमानमुच्यते, यथा गोमयेन्धनदहनानुमानमुदाहृतं
शब्दे वा गुणत्वकल्पनम् , सामान्यतोदृष्टं तु नित्यपरोक्षविषयमुदाहृतमेव श्रो-
त्राद्यनुमानम् , तदेवं भेदसम्भवात्त्रिविधमनुमानमिति युक्तम् ।
आस्तां वोदाहरणभेदः एकत्रप्युदाहरणे त्रैविध्यमभिधातुं शक्यते, यथा
इच्छादिकार्यमाश्रितं कार्यत्वाद् घटवद् इत्याश्रयमात्रे साध्ये पूर्ववदनुमानम् ,
प्रसक्तशरीरेन्द्रियाद्याश्रयप्रतिषेधेन विशिष्टाश्रयकल्पने तदेव परिशेषानुमानम् ,
अनुमेयस्य नित्यपरोक्षत्वात् तदेव सामान्यतोदृष्टं च ।

सामान्यतोदृष्टशेषवदनुमानयोर्भेदः

ननु परिशेषस्य सामान्यतोदृष्टस्य च को विशेषः, उच्यते—परिशेषानुमा-
नप्रवृत्तावन्यः पन्थाः सामान्यतोदृष्टस्यान्यः, इच्छादिकार्यं देहादिविलक्षणाश्रयं
शरीरादिषु बाधकप्रमाणोपपत्तौ सत्यां कार्यत्वादिति सामान्यतोदृष्टस्य क्रमः,
परिशेषानुमानस्य तु इत्थं प्रवृत्तिः इच्छादेराश्रयत्वेन प्रसक्तानि शरीरेन्द्रियम-
नांसि निषिध्यन्ते दिकालादौ च तत्प्रसङ्गो नास्ति तत्पारिशेष्यादात्मैव तदाश्रय
इति, परिशेषानुमाने च सर्वत्र नैष नियमः साध्यस्यातिपरोक्षत्वमिति गोमया-
ग्निकल्पनादिदर्शनात्, सामान्यतोदृष्टं तु नित्यपरोक्षविषयमेवेति सूक्तं त्रैविध्यम् ।
अपरे पुनः अदृष्टस्वलक्षणविषयं शक्तिक्रयानुमानं सामान्यतोदृष्टमुदाहरन्ति
देवदत्तादावपि क्रियायाः परोक्षत्वात् , चलतीति प्रत्यये हि न देवदत्तस्वरूपाति-
रिक्तक्रियातत्त्वप्रतिभासः ।
य एव देवदत्तात्मा तिष्ठत्प्रत्ययगोचरः ।
चलतीत्यपि संवित्तौ स एव प्रतिभासते ॥
अविरलसमुल्लसत्संयोगविभागप्रबन्धविषयत्वाच्चलतीति प्रत्ययस्य न सर्वदा
तदुत्पादः, कथं तर्हि नित्यपरोक्षे क्रियास्वलक्षणे ऽनुमानं क्रमते इति चेत् का-
र्यस्य कादाचित्कत्वेन कारणपूर्वकत्वात् परिदृश्यमानस्य द्रव्यस्वरूपस्य कारण-
त्वे सर्वदा कार्योत्पादनप्रसङ्गात् सर्वदा तत्स्वरूपसद्भावाद्, न च सर्वदा का-
र्यमुत्पद्यते इति तदतिरिक्तक्रियानुमानम् , एवं शक्तावपि द्रष्टव्यम्, क्रियाश-
क्तिस्वरूपस्य च नित्यपरोक्षत्वात्तददृष्टस्वलक्षणविषयमनुमानमुच्यते न तु वि-
शेषविषयं विशेषव्याप्तिग्रहणस्यासम्भवादिति ।
तदिदमनुपपन्नम् , परिस्पन्दरूपस्योत्क्षेपणादिभेदवतः कर्मणः चलत्यादिप्र-
तीतौ प्रकाशमानत्वेन प्रत्यक्षत्वाद् न तस्य नित्यानुमेयत्वम् , संयोगविभागाल-
म्बनत्वे तु संयुज्यते विभज्यते इति प्रतीतिः स्याद् न चलतीति यथाविषयं प्रत्य-
योदयात् , संवेदनानुसारिणी च विषयव्यवस्था अन्यथा घटप्रत्यये ऽपि परस्या-
१६ न्या०