न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
ति निर्विकल्पकमपि द्विचन्द्रज्ञानम्, यद्येवं तरङ्गादिसादृश्यरूषितमूषरे म-
रीचिचक्रं चक्षुषा परिच्छेत्तुमशक्यमिति तत्रापि निर्विकल्पकमुदकग्राहि विज्ञा-
नं किमिति नेष्यते, अभ्युपगमे वा सदसत्कल्पनोत्पातादिकृतः प्रमाणेतरव्यव-
हारो न स्यात्, अपि च न बाधकोपनिपातमन्तरेण भ्रान्तता ऽवकल्पते ज्ञाना-
नां न च क्षणिकवादिमते बाध्यबाधकभावो बुद्धीनामुपपद्यते इत्यलं विमर्देन ।
इति सुनिपुणबुद्धिर्लक्षणं वक्तुकामः
पदयुगलमपीदं निर्ममे नानवद्यम् ।
भवतु मतिमहिम्नश्चेष्टितं दृष्टमेत-
ज्जगदभिभवधीरं धीमतो धर्मकीर्त्तेः ॥
श्रोत्रादिवृत्तिरपरैरविकल्पिकेति
प्रत्यक्षलक्षणमवर्णि तदप्यपास्तम् ।
साम्यान्न यस्य न च सिद्ध्यति बुद्धिवृत्त्या
दृष्टत्वमात्मन इति प्रतिपादितं प्राक् ॥
मीमांसकाभिमतस्य प्रत्यक्षलक्षणस्य खण्डनम् -
सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपल-
म्भनत्वादित्येतत्सूत्रं जैमिनियैः साक्षात्प्रत्यक्षलक्षणपरत्वेन न व्याख्यातम्, चो-
दनालक्षणो ऽर्थो धर्म इति प्रकृतप्रतिज्ञासङ्गत्यभावादपि तु धर्मं प्रति प्रत्यक्षम्-
निमित्तमेवंलक्षणकत्वादित्यनुवादत्वं लक्षणस्यापि सम्भवेदिति तदेवलक्षणवर्णने
सूत्रयोजनमसमीचीनम्, अतिव्याप्तिदोषानिवृत्तेः, तथा हीन्द्रियाणां सत्सम्प्र-
योगे सति पुरुषस्य जायमाना बुद्धिः प्रत्यक्षमिति सूत्रार्थः, तथा चातिव्याप्तिः
संशयविपर्ययबुद्ध्योरपि इन्द्रियसंप्रयोगजत्वेन प्रत्यक्षत्वप्रसङ्गात्,
अथ सत्सम्प्रयोग इति सतां सम्प्रयोग इति व्याख्यायते तथा ऽपि निराल-
म्बनविभ्रमा एवार्थनिरपेक्षजन्मानो निरस्ता भवेयुर्न सालम्बनौ संशयविपर्ययौ ।
अथ सति सम्प्रयोगे इति सत्सप्तमीपक्ष एव न त्यज्यते संशयविपर्ययच्छेदी
च सम्प्रयोग इत्युपसर्गो वर्ण्यते यथोक्तम्-
सम्यगर्थे च संशब्दो दुष्प्रयोगनिवारणः ।
दुष्टत्वाच्छुक्तिकायोगो वार्यतामक्षजेक्षणात् ॥ इति ॥
तथापि प्रयोगसम्यक्त्वस्यातीन्द्रियत्वेन प्रत्यक्षानवगम्यत्वात्कार्यतो ऽवग-
तिर्वक्तव्या, कार्यं च ज्ञानं न च तद्विशेषितमेव प्रयोगस्य सम्यक्त्वमवगमयति,
न च तद्विशेषणपरमिह पदमप्यक्षरमपि मात्रामात्रमपि वा सूत्रे पश्यामः, सतां
प्रयोग इति च परं निरालम्बनविज्ञाननिवृत्तये वर्णितम्, सतीति तु सप्तम्यैव ग-
तार्थत्वादनर्थम् , लोकत एव कार्यविशेषावगमात्प्रयोगसम्यक्त्वमवगमिष्याम
इति चेल्लोकत एव प्रत्यक्षस्य सिद्धत्वात् किं लक्षणे सूत्रसामर्थ्ययोजनाक्लेशेन,
यदप्यत्रभवान्वृत्तिकारः प्राह—यद्व्यभिचारि न तत्प्रत्यक्षम् यत्प्रत्यक्षं यदि-
षयं ज्ञानमन्यसम्प्रयोगे भवति न तत्प्रत्यक्षमित्येवं तत्सतोर्व्यत्ययेन लक्षणम-
नपवादमवकल्पते इति तदपि वृथाटाट्यामात्रम् , संशयज्ञानेन व्यभिचारानति-
वृत्तेः, तत्र हि यद्विषयं ज्ञानं तेन सम्प्रयोगे इन्द्रियाणां पुरुषस्य बुद्धिजन्म स-
त्प्रत्यक्षं तदन्यविषयं ज्ञानमन्यसम्प्रयोगे भवति न तत्प्रत्यक्षमस्त्येव ।
ननूभयविषयं ज्ञानं न चोभाभ्यां सम्प्रयुक्तमिन्द्रियम् , मैवम्—न हि,
धवखदिरवत् द्वावपि संशयसंविदि प्रतिभासेते किं तु स्थाणुर्वा पुरुषो वेत्य-
निर्धारितैकतरपदार्थतत्त्वावमर्शी संशयो जायते, नूनं च तयोरन्यतरेणेन्द्रियं
सम्प्रयुक्तमेवेति उभयावमर्शित्वाच्च संशयस्य
प्रमाणप्रकरणम् ९५
परैर्हि धर्मग्राहि योगिज्ञानमभ्युपगतम् अतस्तदनुभाषणे धर्मग्राहकं न ध-
र्मग्राहकमिति उक्तं स्यात् ।
परसंसिद्धमूलं च नानुमानं प्रकल्पते ।
उक्तं भवद्भिरिहैवेदं निरालम्बनदूषणम् ॥
साध्यसिद्धियर्था नास्ति परसिद्धेन हेतुना ।
तथैव धर्मिसिद्धत्वं परसिद्ध्या न युज्यते ॥
तत्रैतत्स्यात् प्रसङ्गसाधनमिदं प्रसङ्गश्च नाम परप्रसिद्धेन परस्यानिष्टापा-
दनमुच्यते, परस्य च विद्यमानोपलम्भनं सत्सम्प्रयोगजन्यं च प्रत्यक्षं प्रसिद्धम् ,
अतस्तेनैव धर्मेण हेतुना धर्मनिमित्तत्त्वं तस्योपपद्यते इति को दोषः नैतदेवम्—
प्रसङ्गसाधनं नाम नास्त्येव परमार्थतः ।
तद्धि कुड्यं विना तत्र चित्रकर्मेव लक्ष्यते ॥
न हि नभः कुसुमस्य सौरभासौरभविचारो युक्तः, अथापि किं न एतेन
भवत्विदं प्रसङ्गसाधनम् ।
तदत्रापि न तु व्याप्तिप्रतीतिरिह मादृशाम् ।
न धर्मग्राहि सर्वेषां प्रत्यक्षमिति वेत्ति कः ॥
मत्प्रत्यक्षमक्षमं धर्मग्रहणे इति भवान्न जानीते स्वप्रत्यक्षमपि न धर्मग्रा-
हीति नाहं जाने अन्यस्य प्रत्यक्षमीदृशमेवेत्युभावप्यावां न जानीवहे ।
त्वया तु यदि सर्वेषां प्रत्यक्षं ज्ञातमीदृशम् ।
तर्हि त्वमेव योगीति योगिनो द्वेक्षि किं वृथा ॥
प्रामाणिकस्थितिं तस्मादित्थं श्रोत्रिय बुध्यसे ।
परोक्षे ऽतीन्द्रिये ऽर्थे मा वादीर्दूषणं पुनः ॥
प्रमाणसिद्धे इतरशक्तिदूषणं प्रमाणशून्ये ऽपि वृथा तदुक्तयः ।
निरस्य चोद्यव्यसनं तु मृग्यतामतीन्द्रिये वस्तुनि साधनं पुनः ॥
स चेत्पर्य्यनुयुक्तः सन्वक्तुं शक्नोति साधनम् ।
ओमिति प्रतिपत्तव्यं नो चेन्नास्त्येव तस्य तत् ॥
योगजप्रत्यक्षसाधनम्—
आह शान्ताः स्मः प्रामाणिकवृत्तं न दूषणं ब्रूमो भवन्तमेवाऽनुयुञ्ज्महे
तदेतर्हि कथ्यतां धर्माधिगमनिपुणयोगिप्रत्यक्षसिद्धौ किं प्रमाणमिति, इदमु-
च्यते दर्शनातिशय एव प्रमाणम् , तथा ह्यस्मदादिरपेक्षितालोको ऽवलोकयति-
निकटस्थितमर्थवृन्दम् , उन्दुरुवैरिणस्तु (१)सान्द्रतमस्तमःपङ्कपटलविलिप्तदेशप-
तितमपि संपश्यन्ति, संपातिनामा च गृध्रराजो योजनशतव्यवहितामपि
( १ ) उन्दुरुर्मूषकस्तद्वैरी बिडालः ।
९६ न्यायमञ्जर्याम्
दशरथनन्दनसुन्दरीं ददर्शेति श्रूयते रामायणे, सा ऽयं दर्शनातिशयः शुक्ला-
दिगुणातिशय इव तारतम्यसमन्वित इति गमयति परमपि निरतिशयम-
तिशयम् अतश्च यत्रास्य परः प्रकर्षः ते योगिनो गीयन्ते, दर्शनस्य च परो
ऽतिशयः सूक्ष्मव्यवहितविप्रकृष्टभूतभविष्यदादिविषयत्वम् ,
ननु स्वविषयानतिक्रमेण भवतु तदतिशयकल्पना धर्मस्तु चक्षुषो न वि-
षय एव, यदुक्तम्—
यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् ।
दूरसूक्ष्मदिदृक्षौ स्यान्न रूपे श्रोत्रवृत्तिता(१) ॥
अपि च—
ये ऽपि चातिशया दृष्टाः प्रज्ञामेधाबलैर्नृणाम् ।
स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनादिति ॥
एतदयुक्तम् , यतो यद्यपि नास्मदादिनयनविषयो धर्मः तथापि योगीन्द्रिय-
गम्यो भविष्यति, तथाहि योजनशतव्यवहितमन्धकारान्तरितं वा नास्मदादि-
लोचनगोचरतामुपयाति सम्पातिवृषदंश(२)दृशोस्तु विषयो भवत्येव,
नन्वेवमविषये प्रवृत्तं योगिनां चक्षुर्गन्धरसादीनपि गृह्णीयात् , यथोक्तम्—
एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते ।
नूनं स चक्षुषा सर्वान् रसादीन्प्रतिपद्यते(३) ॥ इति ।
नैतदेवम् , रसादिग्राहीण्यपि योगिनामिन्द्रियाणि चक्षुर्वदतिशयवन्त्येवे-
ति न रसादिषु चक्षुर्व्यापारः परिकल्प्यते, धर्मे ऽपि न तर्हि कल्पनीय इति चेद्
न तस्य रसादिवत्तदविषयता शब्दस्याभावात्
अपि च योगीन्द्रियाविषयत्वं धर्मस्य कथमवगतवान्भवान् , अविषयत्वं
तद्भावे ऽपि तदनवगमादवगम्यते यथा नयनसद्भावे ऽपि शब्दाश्रवणात्तद्विष-
यता शब्दस्यावसीयते, न चैवं योगिचक्षुषि सत्यपि धर्मस्याग्रहणमवगन्तुं श-
क्नोति भवानुभयस्यापि भवतः परोक्षत्वादिति विषयस्स तस्य नेति नैव वक्तुं
युक्तमिति ।
ननु कर्त्तव्यतारूपः त्रिकालस्पर्शवर्जितः ।
चक्षुर्विषयतामेति धर्म इत्यतिसाहसम् ॥
सत्यं साहसमेतत्ते मम वा चर्मचक्षुषः ।
न त्वेष दुर्गमः पन्था योगिनां सर्वदर्शिनाम् ॥
( १ ) श्लोकवार्तिके सू०२श्लोक११३।
( २ ) श्लोकवार्तिक सू० २श्लोक१११।
( ३ )वृषदंशो विडालः ।
प्रमाणप्रकरणम् ९७
यच्च त्रिकालानवच्छिन्नो यजेतेत्यादिलिङादियुक्तशब्दैकशरणावगमो धर्मः
कथं ततो ऽन्येन प्रमाणेन परिच्छिद्यतामित्युच्यते तदपि प्रक्रियामात्रम्, कि-
मिव हि त्रिकालस्पर्शास्पर्शाभ्यां कृत्यम् , यथा वयं गमनादिक्रियाणां देशान्तर-
प्राप्त्यादिप्रयोजनतां जानीमस्तथा ऽग्निहोत्रादिक्रियाणां स्वर्गादिफलतां ज्ञास्यन्ति
योगिन इति किमत्र साहसम्, यदि हि बाह्येन्द्रियेष्वमर्षो न तेष्वतिशयो विष-
ह्यते तदलमनुबन्धेन ।
मनःकरणकं ज्ञानं भावनाभ्याससम्भवम् ।
भवति ध्यायतां धर्मे कान्तादाविव कामिनाम् ॥
मनो हि सर्वविषयं न तस्याविषयः कश्चिदस्ति, अभ्यासवशाच्चातीन्द्रि-
येष्वप्यर्थेषु परिस्फुटाः प्रतिभासाः प्रादुर्भवन्तो दृश्यन्ते, यथा ऽऽहुः-
कामशोकामयोन्मादचौरस्वप्नाद्युपद्रुताः ।
अभूतानपि पश्यन्ति पुरतो ऽवस्थितानिव ॥ इति ।
नन्वेतेषां मिथ्याज्ञानत्वान्न योगिविज्ञाने दृष्टान्तत्वं युक्तम्, न स्फुटाभास-
मात्रतया दृष्टान्तत्वोपपत्तेः, न हि शब्दघटयोरपि सर्वात्मना तुल्यत्वम्, तन्न
कामशोकादिभावनाभ्यासभुवां प्रतिभासानां बाधकवैधुर्यादप्रामाण्यं भविष्यति
नेतरेषां तदभावात्, स्फुटाभासत्वं तूभयत्रापि तुल्यम् ।
नन्वभ्यासो ऽपि क्रियमाणो नात्यन्तमपूर्वमतिशयमावहति लङ्घनाभ्यासवत्,
योऽपि हि प्रतिदिनमनन्यकर्मा लङ्घनमभ्यस्यति सो ऽपि कतिपयपदपरिमित-
मवनितलमभिलङ्घयति न तु पर्वतमम्बुधिं वेति,
प्रातिभज्ञाननिरूपणम्-
उच्यते-
लङ्घनं देहधर्मत्वात्कफजाड्यादिसम्भवात् ।
मा गात्प्रकर्षं ज्ञाने तु तस्य कः प्रतिबन्धकः ॥
लङ्घनादौ तु पूर्वेद्युः प्रयत्नसमुपार्जितः ।
न देहे ऽतिशयः कश्चिदन्वेद्युरवतिष्ठते ॥
तत्र केवलमभ्यासात्प्रक्षये कफमेदसोः ।
शरीरलाघवं लब्ध्वा लङ्घयन्ति यथोचितम् ॥
इह विज्ञानजन्यस्तु संस्कारो व्यवतिष्ठते ।
क्रमोपचीयमानो ऽसौ परातिशयकारणम् ॥
यथाऽनुवाकग्रहणे संस्थाऽभ्यसनकल्पितः ।
स्थिरः करोति संस्कारः पाठस्मृत्यादिपाटवम् ॥
यथा वा पुटपाकेन शोध्यमानं शनैः शनैः ।
हेमनिष्प्रतिकाशं तद्याति कल्याणतां पराम् ॥
१३ न्या०
९८ न्यायमञ्जर्याम्
तथैव भावनाभ्यासाद् योगिनामपि मानसम् ।
ज्ञाने सकलविज्ञेयसाक्षात्कारे क्षमं भवेत् ॥
अस्मदादेश्च रागादिमलावरणधूसरम् ।
मनो न लभते ज्ञानप्रकर्षपदवीं पराम् ॥
प्रत्यूहभावनाऽभ्यासक्षपिताशेषकल्मषम् ।
योगिनां तु मनः शुद्धं कमिवार्थं न पश्यति ॥
यथाच तेषां रागादि प्रमाणमवकल्पते ।
तथा ऽपवर्गचिन्तायां विस्तरेणाभिधास्यते ॥
तदेवं क्षीणदोषाणां ध्यानावहितचेतसाम् ।
निर्मलं सर्वविषयं ज्ञानं भवति योगिनाम् ॥
अपि चानागतं ज्ञानमस्मदादेरपि क चित् ।
प्रमाणं प्रातिभं श्वो मे भ्राता ऽऽगन्तेति दृश्यते ॥
नानर्थजं न संदिग्धं न बाधविधुरीकृतम् ।
न दुष्टकारणं चेति प्रमाणमिदमिष्यताम् ॥
क चिद्बाधकयोगश्चेदस्तु तस्याप्रमाणता
यत्रापरेद्युरभ्येति भ्राता तत्र किमुच्यताम् ॥
काकतालीयमिति चेन्न प्रमाणप्रदर्शितम् ।
वस्तु तत् काकतालीयमिति भवितुमर्हति ॥
नन्वनर्थजमिदं ज्ञानं भ्रातुस्तज्जनकस्य तदानीमसत्त्वात्, स्यादेतदेवम्—
यदि तदा ऽस्तित्वेन भ्रातरं गृह्णीयात्, किं तु भाविनमेनं गृह्णाति भावित्वं च
तदवस्यास्त्येवेति कथमनर्थजं तज्ज्ञानम् ।
ननु भावितया ग्रहणमघटमानं भावित्वं हि नाम सावधिः प्रागभावः अ-
भावस्य च भावेन भ्रात्रा सह कः सम्बन्धः, वस्त्ववस्तुनोर्विरोधात्, तदेतद्-
सम्यक्, तद्देशसंबन्धस्य तत्र प्रागभावो न तु धर्मिणः, स हि विद्यते एव प्राग-
भावतः, स च कुतश्चिद्भोजनोत्कण्ठादेः कारणात् स्मरणपदवीमुपारूढः श्वस्त-
नागमनविशिष्टत्वेन प्रतिभातीति प्रातिभस्य स एव जनक इति, तस्मादनर्थज-
त्वाभावात्प्रमाणं प्रातिभम्, प्रमाणं च सत्प्रत्यक्षमेव न प्रमाणान्तरम्, शब्दलि-
ङ्गसारूप्यनिमित्तानपेक्षत्वात् ।
ननु प्रत्यक्षपि मा भूदिन्द्रियानपेक्षत्वात् , मैवम् मनस एव तत्रेन्द्रिय-
त्वात् , पूर्वोत्पन्नचाक्षुषविज्ञानविशेषणस्य बाह्यस्य वस्तुनो मनो ग्राहक मिति
नान्धाद्यभाव इत्युक्तम् , शब्दाद्युपायान्तरविरतौ च जायमानमनवद्यं ज्ञानं मा-
नसं प्रत्यक्षं भवति सुरभि केतककुसुमं मधुरा शर्करेति ज्ञानवदित्यप्युक्तम् ,
अत एव नानियतनिमित्तकं ज्ञानं प्रत्यक्षातिरिक्तस्यार्षनाम्नः प्रत्ययस्याभावात् ,
प्रमाणप्रकरणम् ९९
‘ऋषीणामपि यज् ज्ञानं तदप्यागमपूर्वकम्’ इति हि वदन्ति, आगमग्रहणं च
निदर्शनार्थम् , अनुपायस्य ज्ञानस्य तेषामसत्त्वात् , न च सिद्धदर्शनं प्रतिभाऽ
स्मदादेरपि भावात्, तस्मान्न प्रमाणान्तरं प्रातिभम् अपि तु प्रत्यक्षमेव ।
ननु प्रत्यक्षमपि नेदं भवति तद्धि वर्त्तमानैकविषयम् , यथोक्तम् संबद्धं
वर्त्तमानं च गृह्यते चक्षुरादिनेति, तथा एष प्रत्यक्षधर्मश्च वर्त्तमानार्थतयैवेति,
मैवम् , अनागतग्राहिणः प्रत्यक्षस्य प्रदेशान्तरे स्वयमेवोक्तत्वात्, ‘रजतं गृह्य-
माणं हि चिरस्थायीति गृह्यते’ इति भवानेवावोचत्, तस्मात्प्रत्यक्षमनागतग्राहि
श्वो मे भ्राता ऽऽगन्तेति सिद्धम् , एवं चास्मदादीनामिवानागते भ्रातरि योगि-
नां भविष्यति धर्मे प्रत्यक्षं प्रवर्त्स्यतीति, तस्माद्यत्सर्वज्ञनिषेधाय कथ्यते—
यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम् ।
भवेदिदानीं लोकस्य तथा कालान्तरे ऽप्यभूदिति ॥
तदपास्तं भवति, तत्रैतत्स्यात् , सर्वज्ञता योगिनां किमेकेन ज्ञानेन बहुभि-
र्वा, न तावदेकेन न ह्येकस्मिञ्ज्ञाने परस्परविरोधिनो ऽर्थाः शीतोष्णवदवभासते,
नापि बहुभिः तानि हि क्रमेण वा भवेयुर्युगपद्वा न युगपज्ज्ञानानि सम्भवन्ति
सूक्ष्मन्तःकरणसापेक्षत्वात्, क्रमभाविभिस्तु, ज्ञानैरशेषत्रिभुवनकुहरनिहितनि-
खिलपदार्थसार्थसाक्षात्कारणमेषां मन्वन्तरकोटिभिरपि दुर्घटमिति कथं सर्वज्ञा
योगिनः, उच्यते, युगपदेकयैव बुद्ध्या सर्वत्र सर्वानर्थान् द्रक्ष्यन्ति योगिनः,
यत्तु विरुद्धत्वादिति तदप्रयोजकम्, विरुद्धानामपि नीलपीतादीनामेकत्र चि-
त्रप्रत्यये भासनात् , एकत्र च मेचकप्रत्यये सन्निहितपदार्थव्यतिरिक्तसकलवस्त्व-
भावग्रहणं पूर्वस्य (१)दर्शितत्वात् , शीतोष्णयोरपि क चिदवसरे भवति युगपदु-
पलम्भस्तद्यथा प्रतपति हुतवहविस्फुलिङ्गनिकरानुकारिकिरणे तरुणोष्मणि
ग्रीष्मे हिमशकलशिशिरपयसि सरसि निमग्ननाभिदघ्नदेहस्य पुंसो युगपदेव
सरः सलिलसूर्यातपवर्त्तिनौ शीतोष्णस्पर्शावनुभवपथमवतरतः,
नन्वेकेन ज्ञानेन सर्वानर्थान् भूतभाविनः परोक्षानपि पश्यन्तो योगिनः कथ-
मखिलत्रैलोक्यवृत्तान्तदर्शिनः सकलजगद्गुरोरीश्वराद्विशिष्येरन् , अस्ति वि-
शेष ईश्वरस्य तथाविधं नित्यमेव ज्ञानं योगिनां तु योगभावनाभ्यासप्रभवमिति ।
ननु नादृष्टपूर्वे ऽर्थे क चिद्भवति भावना ।
आगमात्तु परिच्छिन्ने धर्मे भावनया ऽपि किम् ॥
चोदनैव धर्मे प्रमाणमिति सावधारणप्रतिज्ञार्थः प्रथममागमादवगतधर्मस्व-
रूपेषु सत्स्वपि योगिषु न विप्लवत एवेति, उच्यते योगिष्वस्त्येवायं प्रकारः, प-
श्चादपि प्रवर्त्तमाने धर्मग्राहिणि प्रत्यक्षे चोदनैवेत्यवधारणं शिथिलीभवत्येव ।
( १ ) ग्रहणस्य पूर्वमिति युक्तः पाठः ।
अपि चेश्वरज्ञानं सांसिद्धिकमेव धर्मविषयं वेदस्य कारणभूतं वक्ष्यामः,
तस्मिन्नपि सति न चोदनैवेत्यवधारणार्थसिद्धिः, तस्मान्न धर्मग्राहकं योगिप्रत्य-
क्षं विद्यमानोपलम्भनत्वान्सत्सम्प्रयोगजत्वादित्यादिसाधनमप्रयोजकम् ।
प्रमाणान्तरविज्ञातप्रमेयप्रतिपादकः ।
धर्मोपदेशकः शब्दः शब्दत्वाद् घटशब्दवत् ॥
प्रत्यक्षः कस्य चिद्धर्मः प्रमेयत्वाद् घटादिवत् ।
इत्यादयश्च सुलभाः सन्त्येव प्रतिहेतवः ॥
तेन निष्प्रतिभयुक्तिसाधितां योगबुद्धिमखिलार्थदर्शिनीम् ।
किं विडम्बयितुमुच्यते मुधा दुष्टहेतुनिकुरुम्बशम्बरम् ॥
तदित्थमपि जैमिनीयं सूत्रमसङ्गतार्थम् , लक्षणपरत्वं त्वस्य निरस्तमेव ।
यदपि कैश्चित्प्रत्यक्षलक्षणमुक्तम् , आत्मैन्द्रियमनोऽर्थसन्निकर्षाद्यदुत्पद्यते
ज्ञानं तदन्यदनुमानादिभ्यः प्रत्यक्षमिति, तदपि त्रयद्वयसन्निकर्षजन्मनां सुखा-
त्मादिविज्ञानानामव्यापकमतिव्यापकं च व्यभिचार्यादिबोधानामित्युपेक्षणीयम् ।
सांख्याभिमतप्रत्यक्षलक्षणखण्डनम्—
ईश्वरकृष्णस्तु प्रतिविषयाध्यवसायो दृष्टमिति प्रत्यक्षलक्षणमवोचत् , तदपि
न मनोज्ञम् , अनुमानादिज्ञानानामपि विषयाध्यवसायस्वभावत्वेनातिव्याप्तेः,
यत्तु राजा व्याख्यातवान् प्रतिराभिमुख्ये वर्त्तते तेनाभिमुख्येन विषयाध्यवसायः
प्रत्यक्षमिति तदप्यनुमानादावस्त्येव, घटो ऽयमितिवद्वह्निमान् पर्वत इत्याभि-
मुख्येनैव प्रतीतेः, स्पष्टता तु सर्वसंविदां स्वविषये विद्यते एव, अथ मन्यसे
सामान्यविहितस्य विशेषेण बाधादनुमानादिव्यावृत्तिः सेत्स्यति सामान्येनाध्य-
वसाय उत्सृष्टः स लिङ्गशब्दाभ्यां विशेषित इति तदितरो ऽध्यवसायः प्रत्यक्ष-
मिति स्थास्यति, यद्येवं प्रत्यक्षलक्षणमिदानीमव्याकरणीयमेव, शब्दलिङ्गशृङ्-
गे वर्णिते सति तद्वैलक्षण्यादेव प्रत्यक्षं ज्ञास्यते इति, तस्मादिन्द्रियार्थसन्निकर्षो-
त्पन्नपदोपादानमन्तरेण नानुमानादिव्यवच्छेद उपपद्यते इति इदमपि न प्रत्यक्ष-
लक्षणमनवद्यम् ।
अलमतिविस्तरेण परदर्शनगीतमतो
विगतकलङ्कमस्ति न हि लक्षणमक्षधियः ।
तदमलमक्षपादमुनिनैव निबद्धमिदं
हरति मनांसि लक्षणमुदारधियाम् ॥
अथानुमानलक्षणम्—
एवं प्रमाणज्येष्ठे ऽस्मिन् प्रत्यक्षे लक्षिते सति ।
कथ्यते ऽवसरप्राप्तमनुमानस्य लक्षणम् ॥
[प्रमाणप्रकरणम् १०१]
तत्पूर्वकं च त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतोदृष्टं च ॥ ५.॥
तत्रानुमानस्वरूपं ब्रूमहे ततस्तत्र सूत्रं योजयिष्यामः ।
पञ्चलक्षणाकाल्लिङ्गाद्गृहीतान्नियमे स्मृतेः ।
परोक्षे लिङ्गिनि ज्ञानमनुमानं प्रचक्षते ॥
अत्रापि लिङ्गविषयं ज्ञानं ज्ञानविषयीकृतं वा लिङ्गं प्रतिबन्धस्मरणसहितं
प्रमाणम् , लिङ्गज्ञानं फलम् , लिङ्गिज्ञानस्य वा प्रमाणतायां पूर्ववदुपादानादि-
ज्ञानं फलमुपवर्णनीयं करणस्य हि प्रमाणत्वमिति स्थितमेवैतत् , तत्र परोक्षो
ऽर्थो लिङ्ग्यते गम्यते ऽनेनेति लिङ्गम् , तच्च पञ्चलक्षणम् , कानि पुनः पञ्च
लक्षणानि, पक्षधर्मत्वं सपक्षधर्मत्वं विपक्षाद्व्यावृत्तिरबाधितविषयत्वमसत्प्रतिप-
क्षत्वं चेति, सिषाधयिषितधर्मविशिष्टो धर्मी पक्षः तद्धर्मत्वं तदाश्रितत्वमित्यर्थः,
ततश्चैवंविधाद्धेतोः स्वसाध्यनियमोज्झितात् ।
साध्याभिलाष इत्येवं षण्ढानुनयदोहदः ॥
अन्वयपूर्वकत्वाच्च व्यतिरेकग्रहणस्य तन्निराकरणे तदपाकरणमवगन्तव्य-
म्, अपि च सिषाधयिषितधर्मवैपरीत्येन वह्नेः प्रत्यक्षतो निश्चयाद् वस्तुवृत्तेन
स एव विपक्ष इति न ततो व्यतिरेकः कृतकत्वस्येति, तन्मात्रत्रैलक्षण्यापाया-
देव हेत्वाभासो ऽयमिति न रूपान्तरमबाधितविषयत्वमपेक्षते कथं चेदमबाधि-
तत्त्वं निश्चीयते ।
न ह्यदर्शनमात्रेण बाधाविरहनिश्चयः ।
सर्वात्मना हि नास्तित्वं विदुः कथमयोगिनः ॥
अनिश्चिते तदङ्गे च न हेतोर्हेतुता भवेत् ।
यथैव पक्षधर्मादिरूपाणामनुपग्रहे ॥
तस्मादबाधितत्वं रूपान्तरमवचनीयमिति,
अत्राभिधीयते, यदुक्तम् अन्वयग्रहणं सर्वाक्षेपेणेति तद्ग्रहणवेलायामेव-
सिषाधयिषितधर्मविपर्ययाध्यासितहुतवहस्वरूपपरिस्फुरणादन्वयशून्यो ऽयं हेतु-
रिति तदहृदयंगमम्, अन्वयः सत्यं सर्वाक्षेपेण गृह्यते न पुनरेकैकधर्मिसमुल्ले-
खेन, एवं हि तदानन्त्यादन्वयो ग्रहीतुमेव न शक्यते, अनुमानस्य च वैफल्य-
मित्थं भवेदग्निमंतां धूमवतां सर्वधर्मिणामन्वयावगमकाले एव गृहीतत्वात् ।
धूमो हि यत्र यत्रेति सामान्येनैव गृह्यते ।
न पुनः पर्वते ऽरण्ये गृहे वेत्येवमिष्यते ॥
एवं च सत्याक्षेपवाचोयुक्तिरुपपन्ना भविष्यति ।
न चैवं सति वक्तव्यं षण्ढानुनयमार्गणम् ।
न हि तद्वर्जमित्येवं व्याप्तिग्रहणमिष्यते ॥
सामान्येन च व्याप्तिर्गृहीता सती सिषाधयिषितधर्म्यपेक्षायां सैवान्तर्व्याप्ति-
रुच्यते, यैव च नगलग्नाग्न्यनुमानसमये तद्व्यतिरिक्तकान्तारादिप्रदेशवर्त्तिनी
बहिर्व्याप्तिरभूत्सैव कालान्तरे कान्तारवर्त्तिनि वह्नावतुमीयमाने ऽन्तर्व्याप्तिरव-
तिष्ठते, तदिहापि यत्कृतकं तदनुष्णमिति सामान्यतः परिच्छेदान्न तदानीमन-
लोन्मेष इति सिद्धो ऽन्वयः, व्यतिरेको ऽपि कार्ये तेजोऽवयविनि पक्षीकृते
कृतकत्वस्य तेजःपरमाणुभ्यो विधुतारकपरमाण्वनभ्युपगमे तु विपक्ष एव ना-
स्तीति तदभावात्सुतरां तत्रावृत्तिर्भवतीति, न हि सपक्षे इव विपक्षे वृत्तिरिष्यते
येन यत्नतः तत्सिद्धये यतेत, अग्निरेव विपक्ष इति चेन्मैवम्, न हि पक्ष एव
विपक्षो भवितुमर्हति,
ननु वस्तूनामद्विरूपत्वात्पक्षो नाम परमार्थतो नास्त्येव, साध्यधर्माऽधिक-
रणभूतश्चेत्सो ऽर्थस्तत्सपक्ष एव विपर्यये तु न विपक्षतामतिवर्त्तते, न च क्र-
मद्ध्वयोगित्वं रूपद्वयरहितत्वं वा वस्तुनः समस्तीति, तदयुक्तम् अनुमानोच्छेद-
प्रसङ्गात्, अद्विरूपत्वे ऽपि वस्तूनां निसर्गेणविषयीकृतो ऽर्थः कश्चित्पक्ष एषितव्यः,
तदभावे तदपेक्षस्वरूपयोः सपक्षविपक्षयोरप्यभावः स्यात् तदस्य पक्षस्य सतोऽपि
सपक्षत्वमारोप्य यत्तेन व्यभिचारचोदनं तेनाग्न्यनुमानमपि विप्लवेत,
ननु पर्वतादिर्धर्मी न ज्वलनाख्यसाध्यधर्मशून्यतया तत्र निश्चितः तेजोऽव-
यवी त्वनुष्णत्ववैपरीत्येन प्रत्यक्षतो निश्चित इति तत्किमिदानीं पर्वतादिरग्नि-
मत्तया निश्चितः तथाभ्युपगमे वा किमनुमानेन ।
ननु न पर्वतोऽग्निमत्तया निश्चितो नापि तद्वैपरीत्येन : किं तु संदिग्ध
एवास्ते, यद्येवं संदिग्धे ऽपि विपक्षे वर्त्तमानो धूमादिरहेतुरेव स्यान्नि-
श्चितविपक्षवृत्तित्वात्संदिग्धविपक्षावृत्तेरप्यहेतुत्त्वात्सर्वमनुमानमुत्सीदेत् , तस्मा-
त्पक्षे व्यभिचारचोदनमनुचितमिति व्यतिरेकवानेवायं हेतुः, यत्पुनरभिहितम् ,
अनिराकृतपक्षवृत्तित्वमस्य नास्तीति तत्सत्यम् , वयमप्यमुं पक्षमध्यक्षाबाधित-
मिच्छाम एव, यत्तु न पक्षमात्रपर्यवसितो बाधः किं तु हेतुमपि स्पृशति ।
न हेतुनिरपेक्षात्मा पक्षो नामास्ति कश्चन ।
प्रसाधयितुमिष्टो हि हेतुना पक्ष उच्यते ॥
स न साधयितुं शक्यः प्रत्यक्षे प्रतियोगिनि ।
साध्यापहारद्वारेण हेतुर्भवति बाधितः ॥
अबाधितानुमेयत्वमत एवास्य लक्षणम् ।
ननु हेतुरसिद्धो ऽयं ज्वलने वृत्तिसंभवात् ॥
यत्तु बाधितता ज्ञातुं शक्या नेति विकल्पितम् ।
पक्षस्यापि महाभाग कथं तां प्रतिपत्स्यसे ॥
प्रयत्ने क्रियमाणे ऽपि यदि बाधा न दृश्यते ।
नास्त्येवेत्यवगन्तव्यं व्यवहारो हि नान्यथा ॥
अतस्त्रिलक्षणे ऽपि हेतौ बाधसम्भवादबाधितत्वं रूपान्तरं वक्तव्यम् , एवं
च यदुच्यते बाधाविनाभावयोर्विरोधादिति तत्कथं चिद्युक्तं कथं चिदयुक्तम् ,
पञ्चलक्षणके लिङ्गे यः परिसमाप्तो ऽविनाभावः तत्र नास्त्येव बाध इत्येवं
युक्तमेतत् त्रिलक्षणकलिङ्गाविनाभावाभिप्रायेण त्वयुक्तमेतदित्यलं प्रसङ्गेन ।
नियमस्मृतेरिति विव्रियतां को ऽयं नियमो नाम, व्याप्तिरविनाभावो नि-
त्यसाहचर्यमित्यर्थः,
तादात्म्यतदुत्पत्त्योर्बौद्धाभिमतव्याप्तिग्रहोपायत्वकथनम् —
आह नैतावत्येव विरन्तुमुचितं तस्य तदविनाभावित्वमित्यत्र हि नि-
मित्तमन्वेषणीयं तार्किकैः, तच्च तादात्म्यतदुत्पत्तिरूपमीक्षितवन्तो भि-
क्षवः, यो हि यदात्मा भावः स कथं तमुत्सृजति वृक्षात्मिकैव हि शिंशपा
[१०४] न्यायमञ्जर्याम्
तेन वृक्षत्वमनुमापयति, सो ऽयं स्वभावहेतुरुच्यते वृक्षो ऽयं शिंशपात्वादिति
तत्र तादात्म्यं प्रतिबन्धः, कार्यं च नाम कारणाधीनात्मलाभमेव भवति न
कारणानपेक्षमिति तदुपलभ्यमानं तदनुमापयत्यग्निरत्र धूमादिति कार्यहेतौ
तदुत्पत्तिप्रतिबन्धः, एवं हि द्विविधं प्रतिबन्धमनुमेयान्यभिचारनिबन्धनमनु-
क्त्वा केवलसाहचर्यनियममात्रवर्णनं यत् प्रसारिका सैवेति,
बौद्धमतखण्डनम् —
उच्यते पादप्रसारिकैव साधीयसी स्थूलदृष्टिभिरवलम्बिता वरं न सूक्ष्मदृष्टि-
भिरुत्प्रेक्षिताः तादात्म्यादिप्रतिबन्धाः, तादात्म्ये तावद्गमकाङ्गे हेतुसाध्ययोरव्यति-
रेके गम्यगमकभाव एव दुरुपपादः, न खल्वगृहीतं लिङ्गं लिङ्गिप्रतीतिमाधातुम-
र्हति, तत्र लिङ्गबुद्धौ लिङ्गं प्रतिभासते न वा, अप्रतिभासे तद्बुद्ध्या तदग्रहणा-
त्कथं तस्य तदात्मकत्वम् , प्रतिभासे तु लिङ्गवत्प्रत्यक्ष एव सोऽर्थ इति किमनु-
मानेन, विपरीतसमारोपव्यवच्छेदार्थमनुमानमिति चेद् न, तत्स्वरूपग्रहणे विप-
रीतारोपणावसराभावात् , न हि शिरःपाण्यादिविशेषदर्शने सति स्थाणुसमारो-
पः प्रवर्त्तते तत्र तद्भेदादुपपद्येतापि न हि शिरःपाण्यादय एव पुरुष इति तद्ग्रहणे
ऽप्यपुरुषारोपः कामं भवेत्, इह वृक्षत्वशिंशपात्वयोरभेदाच्छिंशपात्वग्रहणे सति
का कथा वृक्षेतरसमारोपस्य, अपि च वृक्षत्वग्रहणे सति सामान्यधर्मग्रहणा-
द्विशेषानध्यवसायात्कदा चिदशिंशपारोपः स्याद् न तु शिंशपात्वग्रहणे सति
अवृक्षत्वसमारोपो युक्तः ।
प्रमातुः शिंशपात्वं हि यस्य प्रत्यक्षगोचरः ।
परोक्षं तस्य वृक्षत्वमिति नातीव लौकिकम् ॥
किं च साध्यसाधनयोर्व्यतिरेकाद् यथा शिंशपात्वेन वृक्षत्वमनुमीयते तथा
वृक्षत्वेनापि शिंशपात्वमनुमीयेत तादात्म्याविशेषात् , तथा च प्रयत्ननानन्तरीय-
कत्वेनानित्यत्वं साध्यते तद्वदनित्यत्वेनापि तत्साध्येत, ततश्च सपक्षाव्याप्यद्वया-
त्त्रिभ्यां कृतकत्वप्रयत्ननानन्तरीय कत्वयोर्यो भेद उक्तः स हीयेत ।
ननु चान्यः सम्बन्धः अन्यश्च प्रतिबन्धः द्विष्ठः सम्बन्धः प्रतिबन्ध-
स्तु परायत्तत्वलक्षणः, तत्र शिंशपात्वं वृक्षत्वे प्रतिबद्धं न वृक्षत्वं शिंशपात्वे
प्रयत्ननानन्तरीय कत्वमप्यनित्यत्वे नियतं न त्वनित्यत्वं तत्रेति तथा धूमस्याग्नौ
प्रतिबन्धो न त्वग्नेर्धूमे, सत्यमेवं किं त्वेवमुच्यमाने नियम एवाङ्गीकृतो भवेद्
न तादात्म्यम् , तादात्म्ये हि यथा शिंशपा शिंशपां विना न दृश्यते तथा वृक्षत्व-
मपि शिंशपारहितं न दृश्येत, दृश्यते च खदिरादौ शिंशपारहितं वृक्षत्वं विद्यु-
दादौ च प्रयत्ननानन्तरीय कत्वरहितमनित्यत्वमुपलभ्यते इति कथमभेदः ।
विना साधनधर्मेण साध्यधर्मो ऽयमस्ति हि ।
प्रमाणप्रकरणम् १०५
दृष्टस्तद्व्यतिरेकेण तदात्मा चेति कैतवम् ॥
अथ विद्युदाद्यनित्यत्पादन्यदेव घटाद्यनित्यत्वं यत्प्रयत्ननान्तरीय कत्वाभिने-
मुच्यते तर्हि धर्मिभेदेन धर्माणां भेदे ऽन्वयग्रहणाद्यनुपपत्तेः सर्वमनुमानमुत्सी-
देद्, धूमाग्न्योस्तु कार्यकारणयोर्भेदाद्युक्तं वक्तुं धूमस्याग्नौ प्रतिबन्धो न त्व-
ग्नॆर्धूमे, इह तु साध्यसाधनयोरव्यतिरेकान्न तथा शक्यते वक्तुं तथा ऽभिधाने वा
नान्यतिरेकः, सर्वथा तदात्म्यं वा त्यज्यतां वृक्षत्वानित्यत्वाभ्यां शिंशपात्वप्रय-
त्नानन्तरीय कत्वे अनुमीयेताम् नान्तरावस्थातुं लभ्यते, यश्चायमनित्यः शब्दः
कृतकत्वादिति स्वभावहेतुरुदाहृतः स कथं स्वभावहेतुः, इदं हि चिन्त्यताम्
अनित्यत्वं नाम किमुच्यते किं च कृतकत्वमिति, तत्रानित्यत्वं विनाशयोगः
उत्पत्तियोगश्च कृतकत्वम्, उत्पन्नस्य च भावस्य विनाशो न त्उत्पाद एव
विनाश इति कथं साध्यसाधनयोरव्यतिरेकः, अत्र चोदयन्ति, विनाशयोगे
ह्यनित्यत्वे विनाशी शब्द इति बुद्धिः स्यान्नानित्य इति, एष्या च मिथ्याबुद्धिः
शिखरिण एव कृशानुविशेषितस्य विनाशवतः शब्दस्य ग्रहीतुमशक्यत्वात् ।
अभावेन हि धर्मेण तद्वत्ता धर्मिणः कथम् ।
अभावग्रहवेलायां धर्मिणो ऽनुपलम्भनात् ॥
अनित्यत्वमिति च भावप्रत्ययः कथमभावे भवेद्विरुद्धत्वात् , तस्मादुभया-
न्तपरिच्छिन्ना वस्तुसत्ता ऽनित्यत्वमुच्यताम्, कृतकत्वमपि सत्तैव कारणोत्पा-
दिताधारा सती कथ्यते इति, एवं च सत्तैव साध्यं साधनं चेति सिद्धं स्वभा-
वहेतुत्वम्, तदिदमनुपपन्नम्, साध्यसाधनयोस्तथात्वेनानवभासनात् , एवं
ह्युच्यमाने शब्दः सत्तावान्सत्त्वात्त्वादिति प्रतीतिः स्यात्, न चैवं दृश्यते अपि
तु अनित्यः शब्दः कृतकत्वादिति, अथोभयान्तपरिच्छिन्ना सत्ता साध्या कार-
णनिर्वर्त्या ऽऽश्रयसमवायिनी च साधनमित्युच्यते तदेतद्घटमानम्, विनाश-
रूपस्यान्तस्य तदानीमविद्यमानत्वेन सत्तापरिच्छेदकत्वाभावात् ।
बुद्धिस्थेनाथ तेनास्याः परिच्छेदो ऽभ्युपेयते ।
शब्दस्यैव परिच्छेदो विनाशेनास्तु तादृशा ॥
धर्मः समानकालो ऽपि बुद्धयैव विषयीकृतः ।
तद्विशेषणतां याति तथा भाव्यपि यास्यति ॥
तदेवं विनाशी शब्द इति विशेषणविशेष्यभावसिद्धेः किं सत्तासाध्यकल्प-
नया, यत्पुनरभिहितम् अभावे भावप्रत्ययस्त्वतादिर्न स्यादिति तदत्यन्तानभि-
ज्ञस्य चोद्यम्, शब्दप्रवृत्तिनिमित्तस्य तत्र भावप्रत्ययेनाभिधानात् , यस्य गुण-
स्य हि भावाद् द्रव्ये शब्दनिवेश इति अभावे ऽपि अभावत्वमिति दर्शनात् ,
तस्माद्बुद्धिस्थविनाशयोग एवानित्यत्वम्, कृतकत्वमप्युत्पत्तियोग एव न सत्ता,
कारणोत्पादिताभाव्यावच्छेदे तु तस्या इष्यमाणे धर्मिण एव तद्ववच्छेदो भव-
१४ न्या०
त्विति किं सोपानान्तरेण ।
ननूत्पादविनाशाख्यं न धर्मद्वयमन्वयि ।
यद् घटे नास्ति तच्छब्दे यच्च शब्दे न तद् घटे ॥
अथैक एव धर्मः सर्वभावसम्बन्धी इष्येत तर्हि ।
एकभावसमुत्पादे सर्वोत्पादः प्रसज्यते ।
एकप्रलयकाले च सकलप्रलयो भवेत् ॥
तस्मात्सत्तापक्ष एव वरम्, नैतदेवम्, धर्मिभेदे ऽपि धर्माणां तुल्यरूपा-
णामवभासात् ।
न घटादिस्वरूपं हि नाश इत्यवकल्पते ।
येनानन्वयदोषः स्यात् तद्भेदोपनिबन्धनः ॥
एकत्वमपि धर्मस्य नास्ति सर्वेषु धर्मिषु ।
येनैकध्वंससमये सकलध्वंससङ्करः ॥
भिन्नत्वे ऽपि च धर्माणां समानरूपत्वेनावभासमानत्वादन्वयग्रहणादिका-
र्यविरोधः, अत एव सामान्यमन्तरेणापि समानधर्ममूलान्वयादिव्यवहारोपपत्ते-
स्तत्र न सूत्रकारेण सामान्यग्रहणं कृतम् अपि तु साधर्म्यग्रहणमुपात्तम्, उदा-
हरणसाधर्म्यात्साध्यसाधनं हेतुः साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणमि-
ति तेन विनाशोत्पादधर्मयोः साध्यसाधनभावात् तयोश्च भेदाद् अनित्यः शब्दः
कृतकत्वादिति न स्वभावहेतुरिति सिद्धम्, कार्यहेतुरपि न सम्भवति भवतां
हि पक्षे क्षणयोर्वा कार्यकारणभावो भवेत्सन्तानयोर्वा ।
क्षणयोर्नेति वक्ष्यामः क्षणभङ्गनिराकृतौ ।
सम्भवन्नपि दुर्लक्ष्यः सूक्ष्मत्वाच्च तथाऽसौ ॥
धूमाग्निसन्तानयोस्तु अवास्तवत्वादेव नास्ति कार्यकारणभावः अर्थक्रिया-
कारित्वमेव वस्तुत्वम्, यदि धूमः कार्यत्वादनलमनुमापयेत् कटुमलिनगगन-
गामित्वादिधर्मैरपि तस्य गमको भवेत्, न च कथं चित्तत्कार्यत्वं कथं चिदत-
त्कार्यत्वं च धर्मस्योपपन्नम्, सर्वात्मकस्य तदन्वयव्यतिरेकानुविधायिप्रभवत्वाद्
अथ सर्वात्मना ऽपि तत्कार्यत्वे ।
धूमत्वमात्रमेवाग्निसहचारीति मन्यसे ।
सहचारित्वमेवास्तु तदुत्पत्तिकथा वृथा ॥
साहचर्यस्यानुमितिहेतुत्वम्—
ननु भवद्भिरपि कार्यानुमानमङ्गीकृतमेव यथा शेषवदिति व्याख्यास्यते,
यथाऽह कणव्रतः कार्यं कारणसंयोगि समवायि विरोधि चेति लैङ्गिकमिति, न
साहचर्योपलक्षणार्थत्वात्, धूमाग्न्योर्नदीपूरयोर्वा न कार्यकारणभावाद्गमकत्वं
यथोक्तेन न्यायेन अपि तु नित्यसाहचर्यानियमादेवेति, विरोधिनाः कथं साह-
चर्यमिति चेत् सदसतोगर्म्यगमकभावाद्विरोधिनोरेकतरदर्शनादन्यतरस्याभावो
ऽनुमीयते भावाभावयोश्च साहचर्यं तयोरस्त्येव, कणादसूत्रे कार्यादिग्रहणं चो-
पलक्षणम् ।
अन्येषामपि हेतूनां भूम्नां जगति दर्शनात् ।
सूर्यास्तमयमालोक्य कल्प्यते तारकोदयः ॥
पूर्णचन्द्रोदयाद्वृद्धिरम्बुधेरवगम्यते ।
उदितेनानुमीयन्ते सरितः कुम्भयोनिनः ।
शुष्यत्पुलिनपर्यन्तविश्रान्तखगपङ्क्तयः ॥
पिपीलिकाण्डसञ्चारचेष्टानुमितवृष्टयः ।
भवन्ति पथिकाः पर्णकुटीरकरणोद्यताः ॥
अन्ये ऽपि सौगतोद्गीतप्रतिबन्धद्वयोज्झिताः ।
कियन्तो बत गण्यन्ते हेतवः साध्यबोधकाः ॥
लोकप्रसिद्धतादात्म्यतदुत्पत्त्यवधीरणात् ।
डिम्भहेवाकसदृशं स्वमत्या तत्समर्थनम् ॥
अतश्च तत्स्वभावस्तत्कार्यमित्यादि व्यसनमात्रम्, अपि च—
व्यावृत्त्योर्लिङ्गलिङ्गित्त्वं प्रतिबन्धश्च वस्तुनोः ।
विकल्पैर्ग्रहणं तस्य कथं सङ्गच्छतामिदम् ॥
उक्तं चैतत्प्रथमे एवाह्निके इत्यलं प्रसङ्गेन ।
तस्मादनुमितिहेतुः संबन्धः साहचर्यमिति सिद्धम्, न तु शौद्धोदनिशिष्य-
परिकल्पितमुभयमप्येतत् ।
यत्त्वभ्यधीयत परैः किमधीनमस्य
तत्साहचर्यमिति तत्र विधिः प्रमाणम् ।
तादात्म्यतज्जननयोरपि चैष तेषां
तुल्यो ऽनुयोग इति किं विफलैः प्रलापैः ॥
नियमो व्याख्यातः स्मृतेरिति को ऽर्थः, उच्यते-
नियमो हि गृहीतो ऽङ्गमनुमेयप्रमां प्रति ।
न नारिकेलद्वीपस्थो धूमादग्निं प्रपद्यते ॥
साध्यानुमितिवेलायां न चास्ति नियमग्रहः ।
नियमग्रहकाले च न साध्यमनुमीयते ॥
तेन पूर्वगृहीतः सन्निदानीं स्मृतिगोचरः ॥
नियमः प्रतिपत्त्यङ्गं तथा ऽवगतिदर्शनात् ।
द्वितीयलिङ्गदर्शने सत्यपि नियमस्मरणमन्तरेण साध्यप्रमितेरनुत्पादात् ।
:
There is अ, then ग्नि?
Wait, look at अग्नि in line 14: पर्वताग्नी इति
Line 15: नाग्निविशिष्टधराधरधर्मतया -> here नाग्नि has ना + ग्नि (with ि matra).
Line 15/16: यत्र धूमस्तत्राग्निमान् -> ग्नि has ि matra.
Now look at line 13:
त्वम् अग्निधर्मत्वाद् धूमस्य?
Wait, between त्वम् and धर्मत्वाद्:
There is अ then ग्नि? Wait, is there an ि? No, it looks like अग्नि without the top curl, or does it have the curl? It has a vertical line before ग: that's ि! But the top loop is very faint or broken: अग्निधर्मत्वाद्!
Wait, could it be अनग्निधर्मत्वाद्?
No, only one letter between त्वम् and धर्मत्वाद्: अग्नि!
Wait, why would it say "अग्निधर्मत्वाद् धूमस्य"? Wait, in Nyaya:
If fire is the sadhya, who is the paksha? The mountain. But here: "धर्मे हि साध्ये न हेतोः पक्षधर्मत्वम्" - if the dharma (
प्रमाणप्रकरणम् १०९
ये तु प्रत्यक्षतो विश्वं पश्यन्ति हि भवादृशः ।
किं दिव्यचक्षुषामेषामनुमानप्रयोजनम् ॥
सामान्यद्वारको ऽप्यस्ति नाविनाभावनिश्चयः ।
वास्तवं हि न सामान्यं नाम किं चन विद्यते ॥
भूयोदर्शनगम्या ऽपि न व्याप्तिरवकल्पते ।
सहस्रशो ऽपि तद्दृष्टे व्यभिचारावधारणात् ।
बहुकृत्वो ऽपि वस्त्वात्मा तथेति परिनिश्चितः ।
देशकालादिभेदेन दृश्यते पुनरन्यथा ॥
भूयो दृष्ट्वा च धूमो ऽग्निसहचारीति गम्यताम् ।
अनग्नौ तु स नास्तीति न भूयोदर्शनाद्गतिः ॥
न चापि दृष्टमात्रेण गमकाः सहचारिणः ।
तत्रैव नियतत्वं हि तदन्याभावपूर्वकम् ॥
नियमश्चानुमानाङ्गं गृहीतः प्रतिपद्यते ।
ग्रहणं चास्य नान्यत्र नास्तितानिश्चयं विना ॥
दर्शनादर्शनाभ्यां हि नियमग्रहणं यदि ।
तदप्यसदनग्नौ हि धूमस्येष्टमदर्शनम् ॥
अनग्निश्च कियान्सर्वं जगज्ज्वलनवर्जितम् ।
तत्र धूमस्य नास्तित्वं नैव पश्यन्त्ययोगिनः ॥
तदेवं नियमाभावात्सति वा ज्ञप्त्यसम्भवात् ।
अनुमानप्रमाणत्वदुराशा परिमुच्यताम् ॥
अनुमानविरोधो ऽपि यदि चेष्टविघातकृत् ।
विरुद्धाव्यभिचारो वा सर्वत्र सुलभोदयः ॥
अत एवानुमानानामपश्यन्तः प्रमाणताम् ।
तद्विस्त्रम्भनिषेधार्थमिदमाहुर्मनीषिणः ॥
हस्तस्पर्शादिना ऽन्धेन विषमे पथि धावता ।
अनुमानप्रधानेन विनिपातो न दुर्लभः ॥
अपि च—
यत्नेनानुमितो ऽप्यर्थः कुशलैरनुमातृभिः ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥
अनुमानप्रामाण्यसमर्थनम्--
अत्राभिधीयते, किमयमनुमानस्वरूपाक्षेप एव क्रियते उत तत्तत्तार्किकोपल-
क्षिततल्लक्षणाक्षेप इति तत्रानुमानस्वरूपं चाशक्यनिह्नवमेव सर्वलोकप्रसिद्धत्वात् ।
अबलाबालगोपालहालिकाप्रमुखा अपि ।
बुध्यन्ते नियतार्थादर्थान्तरमसंशयम् ॥
अनुमानापलापे तु प्रत्यक्षादपि दुर्लभा ।
लोकयात्रेति लोकाः स्युर्लिखिता इव निश्चलाः ॥
प्रत्यक्षदृष्टमपि पदार्थजातं तज्जातीयत्वलिङ्गव्यापारेण सुखसाधनम् इतर-
कारणमिति वा निश्चित्य तदुपाददते जहति वा लौकिकाः, अथाविचारितर-
मणीयतैव तत्त्वं न तु लक्षणनियमः शक्यक्रियस्तस्येति लक्षणाक्षेपो ऽयमुच्यते
सो ऽप्ययुक्तः यतः,
यं कं चिदर्थमालोक्य यः कश्चिन्ना वगभ्यते ।
कं चिदेवात्तिपत्यर्थमर्थः कश्चिदिति स्थितिः ॥
तत्र वस्तुस्वभावो ऽयमिति पादप्रसारिका ।
दृश्यते ह्यविनाभूतादर्थादर्थान्तरे मतिः ॥
अतो यद्दर्शनाद्यत्र प्रतीतिरूपजायते ।
तयोरस्त्यर्थयोः कश्चित्सम्बन्ध
सौ नियतो धूम इति मनसा प्रतिपद्यते ।
मनश्च सर्वविषयं केन वा नाभ्युपेयते ।
असन्निहितमप्यर्थमवधारयितुं क्षमम् ॥
न च सकलत्रिभुवनविवरनिरुद्धधूमाग्निव्यक्तिसार्थसाक्षात्कारणमुपयुज्यते
ज्वलनत्वादिसामान्यपुरःसरतया व्याप्तिग्रहणात् , यत्तूक्तं सामान्यं वास्तवं ना-
स्तीति तच्छब्दार्थचिन्ताप्रसङ्गे प्रतिसमाधास्यते ।
अपरे पुनः योगिप्रत्यक्षकल्पं यौक्तिकं सम्बन्धग्राहि प्रत्यक्षं प्रतिपेदिरे किल
धूमत्वाग्नित्वसामान्यपुरस्कारेण व्याप्यव्यापकयोरन्वयो नाम गृह्यताम्, व्य-
तिरेकस्त्वनग्निभ्यो धूमस्य ग्रहीतव्यः, अनग्नयश्चातिवितताः न च तेष्वनग्नि-
त्वं नाम सामान्यमस्ति, तेन समस्तत्रैलोक्यान्तर्गताग्न्यनग्निनिगतान्वयव्यतिरे-
कग्राहिप्रत्यक्षव्यतिरेकेण न प्रतिबन्धोऽवधृतो भवेत् अनवधृतश्च न प्रमा-
ङ्गमस्ति च प्रमेति युक्तं बलात्प्रतिबन्धग्राहकमेकस्मिन् क्षणे प्रत्यक्षमि-
दमशेषव्यक्तिविषयमसंचेद्यमानमपि कल्पितमिति यौक्तिकमुच्यते ।
अन्ये पुनः अत एव तत्कल्पनाभयाद्भूयोदर्शनपरिच्छिन्नसामान्यपुरःसरा-
न्वयमनपेक्षितव्यतिरेकनिश्चयमेव लिङ्गं गमकमभ्युपागमन् , यथोक्तम् , मम
त्वदृष्टिमात्रेण गमकाः सहचारिण इति, अयमाशयः—
भूयोदर्शनतस्तावदुदेति मतिरीदृशी ।
नियतो ऽयमनेनेति सकलप्राणिसाक्षिका ॥
तावता च गमकत्वमौत्सर्गिकं सिध्यति मीमांसकानां तु विपक्षे दर्शनं बा-
धकः प्रत्ययः न च सोस्ति नाद्य यावदनग्नौ धूमो दृष्टः, अनुत्पन्ने ऽपि बाध-
के तदाशङ्कनमयुक्तमित्युक्तं तैः, दोषज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणिकेति,
एतत्तु न चारु, व्यतिरेकनिश्चयमन्तरेण प्रतिबन्धग्रहणानुपपत्तेरित्युक्तत्वात्,
ज्ञापकत्वाद्वि नियमः स्वग्रहणमपेक्षते, नियमश्चायमुच्यते यत्तस्मिन्सति भव-
नं ततो विना न भवनमिति भूयोदर्शनं तच्च तस्मिन्सति भवनमित्यन्वयमात्र-
परिच्छेदादधं गृहीतो नियमः स्यात् ततो विना न भवनमित्यस्यार्थस्यापरिच्छे-
दादिति,
अपरे पुनः अनग्नित्वसामान्यमन्तरेणापि योगिप्रत्यक्षकल्पनामकूर्वन्त
एव मानसप्रत्यक्षगम्यमन्वयव्यतिरेकमाहुः, धूमाग्निसामान्ये तावत्सहचरिते
उपलब्धे तद्गतदभावावपि सहचरितावुपलभ्येते एव, धूमत्वसामान्यस्यानग्नौ ज-
लादावदर्शनात् , सर्वगतत्वे ऽपि सामान्यानां वृत्तिभेदो नियामक इति वक्ष्यते
यद्यपि चानग्नित्वाद्यभावसामान्यं नास्ति तथा ऽपि प्रतिषेध्याग्नित्वसामान्यानु-
गमसिद्धैव तदभावानुगमग्रहणं सिध्यति सकलव्यक्तिज्ञानमनङ्गं व्याप्तिनिश्चये ।
भावसामान्ययोर्यद्वत्तथैव तदभावयोः ।
भावयोः साहचर्यं यदन्वयं तत्प्रचक्षते ॥
व्यतिरेकं तु मन्यन्ते साहित्यं तदभावयोः ।
साध्यसाधनभावस्तु भवेद्यत्राप्यभावयोः ॥
तयोरेवान्वयस्तत्र व्यतिरेकस्तु भावयोः ।
तदेवमभावान्वयवद्भावव्यतिरेको ऽपि प्रत्यक्षगम्यो भवत्येव ।
इयानेव विशेषस्तु भावयोर्यादृशी ययोः ।
व्याप्यव्यापकता सैव व्यत्यस्ता तदभावयोः ॥
अभावयोस्तु गम्यगमकभावे भावयोर्व्याप्तिप्रत्ययो द्रष्टव्यः, एवं च प्रति-
षेध्यानुगमपूर्वकसामान्यभावद्वयानुगमप्रत्ययोपपत्तेरन्वयतद्व्यतिरेकनिश्चये ऽपि
न योगिप्रत्यक्षमुपयुज्यते भावाभावसाहचर्यमवधार्य मनसा नियमज्ञानसिद्धे-
रित्यलं निर्बन्धेन, तस्मान्नियमवत्तद्ग्रहणोपायो ऽप्यस्तीति सिद्धम् ।
गृहीते नियमे यावत्पुनः क चिद्धर्मिणि धूमादेर्लिङ्गस्य ग्रहणं न वृत्तं तावन्न
भवति लिङ्गिनो ऽवगतिरिति सम्बन्धग्रहणकालापेक्षया द्वितीयं तल्लिङ्गदर्शनम-
पेक्षितव्यम्, सैवेयं पक्षधर्मतोच्यते, पक्षधर्मान्वयव्यतिरेकनिश्चये सत्यपि प्रत्य-
क्षागमविरोधेन प्रतिपक्षोपनिपातेन वा न गमकत्वमिति तदपरं लक्षणद्वयमुपदि-
ष्टम्, अबाधितविषयत्वम् असत्प्रतिपक्षत्वं चेति, तदेवमनुभवसिद्धत्वादनुमान-
स्वरूपमिव तस्य लक्षणमपि तान्त्रिकविरचितमवाचकं लक्षणं तत्स्वयमनवद्यमा-
वेद्यताम् , न तु तद्द्द्वेषेण लक्ष्यमप्यनुमानं निह्नोतुं युक्तम् ,
यत्पुनरभाणि प्रमाणस्य गौणत्वादनुमानादर्थनिश्चयो दुर्लभ इति तन्न-
बुद्ध्यामहे, न हि प्रमाणस्य किं चिद्गौणत्वमिह पश्यामः, पक्षधर्मादि-
पदानि यदि नाम व्याख्यातृभिर्गौणानि प्रयुक्तानि किमेतावता प्रमाणं गौणी-
भवेत् , शब्