न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 118, कुल 654 में से
संदर्भ में पढ़ें९६ न्यायमञ्जर्याम्
दशरथनन्दनसुन्दरीं ददर्शेति श्रूयते रामायणे, सा ऽयं दर्शनातिशयः शुक्ला-
दिगुणातिशय इव तारतम्यसमन्वित इति गमयति परमपि निरतिशयम-
तिशयम् अतश्च यत्रास्य परः प्रकर्षः ते योगिनो गीयन्ते, दर्शनस्य च परो
ऽतिशयः सूक्ष्मव्यवहितविप्रकृष्टभूतभविष्यदादिविषयत्वम् ,
ननु स्वविषयानतिक्रमेण भवतु तदतिशयकल्पना धर्मस्तु चक्षुषो न वि-
षय एव, यदुक्तम्—
यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् ।
दूरसूक्ष्मदिदृक्षौ स्यान्न रूपे श्रोत्रवृत्तिता(१) ॥
अपि च—
ये ऽपि चातिशया दृष्टाः प्रज्ञामेधाबलैर्नृणाम् ।
स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनादिति ॥
एतदयुक्तम् , यतो यद्यपि नास्मदादिनयनविषयो धर्मः तथापि योगीन्द्रिय-
गम्यो भविष्यति, तथाहि योजनशतव्यवहितमन्धकारान्तरितं वा नास्मदादि-
लोचनगोचरतामुपयाति सम्पातिवृषदंश(२)दृशोस्तु विषयो भवत्येव,
नन्वेवमविषये प्रवृत्तं योगिनां चक्षुर्गन्धरसादीनपि गृह्णीयात् , यथोक्तम्—
एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते ।
नूनं स चक्षुषा सर्वान् रसादीन्प्रतिपद्यते(३) ॥ इति ।
नैतदेवम् , रसादिग्राहीण्यपि योगिनामिन्द्रियाणि चक्षुर्वदतिशयवन्त्येवे-
ति न रसादिषु चक्षुर्व्यापारः परिकल्प्यते, धर्मे ऽपि न तर्हि कल्पनीय इति चेद्
न तस्य रसादिवत्तदविषयता शब्दस्याभावात्
अपि च योगीन्द्रियाविषयत्वं धर्मस्य कथमवगतवान्भवान् , अविषयत्वं
तद्भावे ऽपि तदनवगमादवगम्यते यथा नयनसद्भावे ऽपि शब्दाश्रवणात्तद्विष-
यता शब्दस्यावसीयते, न चैवं योगिचक्षुषि सत्यपि धर्मस्याग्रहणमवगन्तुं श-
क्नोति भवानुभयस्यापि भवतः परोक्षत्वादिति विषयस्स तस्य नेति नैव वक्तुं
युक्तमिति ।
ननु कर्त्तव्यतारूपः त्रिकालस्पर्शवर्जितः ।
चक्षुर्विषयतामेति धर्म इत्यतिसाहसम् ॥
सत्यं साहसमेतत्ते मम वा चर्मचक्षुषः ।
न त्वेष दुर्गमः पन्था योगिनां सर्वदर्शिनाम् ॥
( १ ) श्लोकवार्तिके सू०२श्लोक११३।
( २ ) श्लोकवार्तिक सू० २श्लोक१११।
( ३ )वृषदंशो विडालः ।