सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 123, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 123

[प्रमाणप्रकरणम् १०१]

तत्पूर्वकं च त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतोदृष्टं च ॥ ५.॥
तत्रानुमानस्वरूपं ब्रूमहे ततस्तत्र सूत्रं योजयिष्यामः ।
पञ्चलक्षणाकाल्लिङ्गाद्गृहीतान्नियमे स्मृतेः ।
परोक्षे लिङ्गिनि ज्ञानमनुमानं प्रचक्षते ॥
अत्रापि लिङ्गविषयं ज्ञानं ज्ञानविषयीकृतं वा लिङ्गं प्रतिबन्धस्मरणसहितं
प्रमाणम् , लिङ्गज्ञानं फलम् , लिङ्गिज्ञानस्य वा प्रमाणतायां पूर्ववदुपादानादि-
ज्ञानं फलमुपवर्णनीयं करणस्य हि प्रमाणत्वमिति स्थितमेवैतत् , तत्र परोक्षो
ऽर्थो लिङ्ग्यते गम्यते ऽनेनेति लिङ्गम् , तच्च पञ्चलक्षणम् , कानि पुनः पञ्च
लक्षणानि, पक्षधर्मत्वं सपक्षधर्मत्वं विपक्षाद्व्यावृत्तिरबाधितविषयत्वमसत्प्रतिप-
क्षत्वं चेति, सिषाधयिषितधर्मविशिष्टो धर्मी पक्षः तद्धर्मत्वं तदाश्रितत्वमित्यर्थः,