न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 628, कुल 654 में से
संदर्भ में पढ़ेंन्यायसूत्रोद्धारे-
प्रत्यक्षलक्षणानुपपत्तिरसमग्रवचनात् ॥ २० ॥
नात्मनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः ॥ २१ ॥
दिक्देशकालाकाशेष्वप्येवं प्रसङ्गः ॥ २२ ॥
ज्ञानलिङ्गत्वादात्मनो नानवरोधः ॥ २३ ॥
तदयौगपद्यलिङ्गत्वाच्च न मनसः ॥ २४ ॥
प्रत्यक्षनिमित्तत्वाच्चेन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम् ॥ २५ ॥
सुप्तव्यासक्तमनसां चेन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् ॥ २६ ॥
तैश्चापदेशो ज्ञानविशेषाणाम् ॥ २७ ॥
व्याहतत्वादहेतुः ॥ २८ ॥
नार्थविशेषप्राबल्यात् ॥ २९ ॥
प्रत्यक्षमनुमानमेकदेशग्रहणादुपलब्धेः ॥ ३० ॥
न प्रत्यक्षेण यावत्तावदप्युपलम्भात् ॥ ३१ ॥
न चैकदेशोपलब्धिरवयविसद्भावात् ॥ ३२ ॥
साध्यत्वादवयविनि संदेहः ॥ ३३ ॥
सर्वाग्रहणमवयव्यसिद्धेः ॥ ३४ ॥
धारणाकर्षणोपपत्तेश्च ॥ ३५ ॥
सेनावनवद् ग्रहणमिति चेन्नातीन्द्रियत्वादणूनाम् ॥ ३६ ॥
रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाणम् ॥ ३७ ॥
नैकदेशत्राससादृश्येभ्योऽर्थान्तरभावात् ॥ ३८ ॥
वर्त्तमानाभावः पततः पतितपतितव्यकालोपपत्तेः ॥ ३९ ॥
म्यते । नकाररहितः पाठस्तत्त्वालोके । २० प्रत्य-ए इति ता० टी० पूर्वपक्षसूत्र-
मिति परिशुद्धिः । २१ नात्म-त्तिः इति ता० टी० । २२ अस्य सूत्रत्वे प्रमाणं
नोपलभ्यते इति केचित् स्वालोकः प्रमाणमित्यन्ये २३ ज्ञान-च इति ता०
टी० । २४ अस्य अनवरोध इति वर्तत इति भाष्येण सूत्रत्वं प्रतीयते । २५ सिद्धान्त-
सूत्रमिति वृत्तिः । २६ इदं सूत्रमिति वार्त्तिकम् । २७ तैश्चा-णामिति
ता० टी० । २८ व्याह-तुरिति ता० टी० । २९ परिहारसूत्रं नार्थ-ए
इति ता० टी० । ३० पूर्वपक्षसूत्रमिति परिशुद्धिः । ३१ तदेतत्सूत्रं वार्त्तिककारो
व्याचष्टे इति ता०टी० । ३२ न चैकदेशोपलब्धिरितिभाष्यमनुभाष्य वार्त्तिककारो
व्याचष्टे इति तात्पर्यटीकायां अवयविसद्भावादिति न्यायतत्त्वालोकस्य च दर्शनेन' अवय-
विसद्भावाद्' इत्येतन्मात्रं सूत्रमवगम्यते । ३३ साध्यत्वादिति यथाश्रुतं सूत्रं गृहीतवेति
ता० टी० । ३४ संशयापाकरणार्थं सूत्रमिति वार्त्तिकम् । ३५ धार-पत्तेरिति ता०टी० ।
३६ आशङ्कात इतरसूत्रमिति ता०टी० । ३७ इदं सूत्रमिति वार्त्तिकम् । ३८ इदं सूत्र-
मिति वार्त्तिकम् । ३९ वर्त्तमानकालप्रतिषेधार्थं सूत्रमिति वार्त्तिकम् ।