न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 627, कुल 654 में से
संदर्भ में पढ़ेंसमानानेकधर्माव्यवसायादन्यतरधर्माव्यवसायाद्वा न संशयः ॥ १॥
विप्रतिपत्त्यव्यवस्थाव्यवसायाच्च ॥ २ ॥
विप्रतिपत्तौ च सम्प्रतिपत्तेः ॥ ३ ॥
अव्यवस्थात्मनि व्यवस्थितत्वाच्चाव्यवस्थायाः ॥ ४ ॥
तथात्यन्तसंशयस्तद्धर्मसातत्योपपत्तेः ॥ ५ ॥
यथोक्ताव्यवसायादेव तद्विशेषापेक्षात् संशये नासंशयो नात्यन्तसं-
शयो वा ॥ ६ ॥
यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः ॥ ७ ॥
प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः ॥ ८ ॥
पूर्वं हि प्रमाणसिद्धौ नेन्द्रियार्थसन्निकर्षात्प्रत्यक्षसिद्धिः ॥ ९ ॥
पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः ॥ १० ॥
युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावो बुद्धीनाम् ॥ ११ ॥
त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः ॥ १२ ॥
सर्वप्रामाण्यप्रतिषेधाच्च प्रतिषेधानुपपत्तिः ॥ १३ ॥
तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः ॥ १४ ॥
त्रैकाल्याप्रतिषेधश्च शब्दादातोद्यसिद्धिवत्तत्सिद्धेः ॥ १५ ॥
प्रमेया च तुलाप्रमाणवत् ॥ १६ ॥
प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः ॥ १७ ॥
तद्विनिवृत्तेर्वा प्रमाणसिद्धिवत्प्रमेयसिद्धिः ॥ १ १८ ॥
न प्रदीपप्रकाशसिद्धिवत्तत्सिद्धेः ॥ १९ ॥
१ समानानेकधर्माव्यवसायादित्येवमादि सूत्रमिति वार्त्तिकम् । २ अस्य सूत्रत्वे
विश्वनाथपञ्चाननवृत्तिः तत्त्वालोकश्च प्रमाणम् । ३ अस्य सूत्रत्वे वार्तिकं प्रमाणम् ।
४-५-६-७ ८-९-एषां सूत्रत्वे वार्तिकं मानम् । नवमसूत्रे प्रत्यक्षसिद्धिरित्यस्य
स्थाने प्रत्यक्षोत्पत्तिरित्यन्यत्र पाठः । १० पश्चात्सिद्धाविति सूत्रमिति वार्त्तिकम् ।
११ युगपत्सिद्धाविति सूत्रमिति वार्त्तिकम् । १२ अयमपि प्रतिषेधस्त्रिष्वपि
कालेषु नोपपन्न इत्यर्थ सूत्रार्थ इति वार्त्तिकम् । १३ अस्य सूत्रत्वे न्यायसूचीनिब-
न्धःप्रमाणं १४ इदं सूत्रमिति परिशुद्धिः । १५ इदं सूत्रमिति वार्त्तिकम् । १६ अस्य
चार्थस्य ज्ञापनार्थं सूत्रमिति वार्त्तिकम् । प्रमेयता चेति वृत्तिसंमतः पाठः । १७
पूर्वपक्षसूत्रमिति वृत्तिः प्रमाणानामितिभागो न्यायतत्त्वालोके न दृश्यते । १८ अस्य
सूत्रत्वे प्रमाणं नोपलभ्यते । न्यायतत्त्वालोकः प्रमाणमित्यन्ये । तत्सिद्धिरित्यस्य-
स्थाने प्रमेयसिद्धिरिति क्वचित्पाठः । १९ सिद्धान्तसूत्रमिति वृत्तिः एतदग्रे 'क्वचित्त्वि-
द्धिसद्भावानिवृत्तिदर्शनार्थ क्वचिदनैकान्तः' इति सूत्रमस्ति इति तात्पयर्टीकावाक्य-