न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 629, कुल 654 में से
संदर्भ में पढ़ेंगौतमसूत्रपाठः । ७
तयोरप्यभावो वर्त्तमानाभावे तदपेक्षत्वात् ॥ ४० ॥
नातीतानागतयोरितरेतरापेक्षा सिद्धिः ॥ ४१ ॥
वर्त्तमानाभावे सर्वाग्रहण प्रत्यक्षानुपपत्तेः ॥ ४२ ॥
कृतताकर्त्तव्यतोपपत्तेस्तूभयथाग्रहणम् ॥ ४३ ॥
मध्यन्तप्रायैकदेशसाधर्म्यादुपमानसिद्धेर्यथोक्तदोषानुपपत्तिः ॥ ४४ ॥
प्रसिद्धसाधर्म्यादुपमानसिद्धेर्यथोक्तदोषानुपपत्तिः ॥ ४५ ॥
प्रत्यक्षेणाप्रत्यक्षसिद्धेः ॥ ४६ ॥
नाप्रत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्यामः ॥ ४७ ॥
तथेत्युपसंहारादुपमानसिद्धेर्नाविशेषः ॥ ४८ ॥
शब्दोऽनुमानमर्थस्यानुपलब्धेरनुमेयत्वात् ॥ ४९ ॥
उपलब्धेरद्विप्रवृत्तित्वात् ॥ ५० ॥
संबन्धाच्च ॥ ५१ ॥
आप्तोपदेशसामर्थ्याच्छब्दादर्थसंप्रत्ययः ॥ ५२ ॥
पूरणप्रदाहपाटनानुपलब्धेश्च संबन्धाभावः ॥ ५३ ॥
शब्दार्थव्यवस्थानादप्रतिषेधः ॥ ५४ ॥
सामयिकत्वाच्छब्दार्थसंप्रत्ययस्य ॥ ५५ ॥
जातिविशेषे चानियमात् ॥ ५६ ॥
तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः ॥ ५७ ॥
न कर्मकर्तृसाधनवैगुण्यात् ॥ ५८ ॥
अभ्युपेत्य कालभेदे दोषवचनात् ॥ ५९ ॥
अनुवादोपपत्तेश्च ॥ ६० ॥
वाक्यविभागस्य चार्थग्रहणात् ॥ ६१ ॥
विध्यर्थवादानुवादवचनविनियोगात् ॥ ६२ ॥
विधिविधायकः ॥ ६३ ॥
स्तुतिनिन्दा परकृतिः पुराकल्प इत्यर्थवादः ॥ ६४ ॥
४० एतदनुज्ञापनार्थं सूत्रमिति वार्त्तिकम् । ४१ नाति-द्धिः इति ता० टी० । ४२ इदं
सूत्रमिति वार्त्तिकम् । ४३ । तस्मिन्क्रियमाणे कृतताकर्त्तव्यतोपपत्तेस्तू-
भयथाग्रहणम् इति भाष्यतात्पर्य्यटीकासंमतः पाठः ४४ अत्य-द्धिरिति ता० टी० ।
४५ प्रसि-त्तिरिति ता० टी० । ४६ प्रत्य देरिति ता० टी० । ४७-४८ अनयोः
सूत्रत्वे तत्त्वालोकः प्रमाणम् । ४९ इदं सूत्रमिति वार्त्तिकम् । ५०-५१-५२-५३-
५४ एषां सूत्रत्वे तत्त्वालोकः प्रमाणम् ५५ अत्र न सामयिकत्वादिति नकारसहितः
पाठन्तत्त्वालोके । ५६ जाति-च इति ता० टी० । ५७ तद-म्य इति ता० टी० ।
५८ सिद्धान्तसूत्रमिति वृत्तिः । ५९-६०-६१-६२-६३-६४ एषां सूत्रत्वे तत्त्वा०