सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 501, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 501

अपवर्गनिरूपणम् । ८७
नानुकूलः प्रिये हेतुः प्रतिकूलो न विप्रिये ।
स्वकर्मफलमश्नामि कः सुहृत्कश्च मे रिपुः ॥
एवमहर्दिवं चिन्तयतां नितान्तं मनःसमचित्तता सर्वत्र समुद्भवतीति वि-
लीयन्ते दोषग्रन्थयः ।
अत एवोपदिश्यन्ते मोक्षशास्त्रेष्वनेकशः ।
तस्य तस्योपघाताय तास्ताः प्रत्यूहभावनाः ॥
ननु च प्रतिपक्षभावने ऽपि न सर्वात्मना दोषपक्षः क्षयमुपयाति निम्बा-
द्युपयोगे इव क्रियमाणे कफधातुरिति, नतदेवं तत्र निम्बोपयोगवत्तदनुकूल-
स्यातपादेरुपयोगदर्शनात् ।
अपि च—
धर्मिलोपभयात्तत्र नेष्टः सर्वात्मना क्षयः ।
कफाधिक्यं तु हन्तव्यं धातुसाम्यस्य सिद्धये ॥
इह सर्वात्मनोच्छेद्याः क्लेशाः संसारकारिणः ।
छेदश्चैकान्ततस्ते