न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 326, कुल 654 में से
संदर्भ में पढ़ेंका वयं यच्छब्द आह तदेवास्माकं प्रमाणम् , तद्यथा राजपुरुष इति वस्तुवृत्ते
राजा जगतामीशिता प्रधानम् , पुरुषस्तपस्वी तदिच्छाऽनुवर्त्तनेन जीवति,
शब्दस्तु पुरुषप्राधान्यमाचष्टे उत्तरपदार्थप्रधानत्वात्तत्पुरुषस्येति, एवमिहापि
यजेत दध्नाञ्जुहुयादिति क्रियां प्राधान्येनोपदिशति शब्दःस्वर्गकाम इत्यपि क्रियां
प्रति कर्तुरूपदेशो वस्तुवृत्तेन तु कर्मणि क्रियमाणे कर्मस्वाभाव्यं फलं चेद्भवति
भवतु तत् , पुरुषो ऽपि प्रयत्ततां नाम फलेन न तु शब्दः फलोपदेशनिष्ठः आह
च 'तस्मिंस्तु कृते स्वयमेव तद्भवति' इति, स्वयमेवेति को ऽर्थः न शब्दः
फलपारतन्त्र्यं क्रियायाः प्रतिपादयतीति ।
तदेतदयुक्तम् एवं वर्ण्यमाने स्वर्गकामो यजेतेति स्वर्गकामपदस्यानन्वयो
दुरुपपादः,
ननु कर्तृपदमेतत्कर्ता च क्रियार्थो न कर्त्रर्था क्रियेत्युक्तम् , न कर्तृपदं
स्वर्गकाम इति किं त्वधिकारिपदमेतन्न हि जात्यैव कश्चित्स्वर्गकामो नाम
कुत्र चित्पुरुषो ऽवगम्यते यो ह्यत्र कर्तृत्वेन नियोज्येत, स्वर्गं कामो यस्यासौ
स्वर्गकामः स्वर्गं वा कामयते स्वर्गकामः उभयथा ऽपि स्वर्गकामना-
विशिष्टः पुरुष एव तस्मात्पदादवगम्यते,
तदत्र काम्यमानः स्वर्गः कथं क्रियया सम्बध्येत दृष्टेनादृष्टेन वोपकारेण ।
स्वर्गस्य क्रियायां न दृष्टोपकारकत्वम्—
यदि हि चन्दनं स्वर्गः षोडशवर्षाः अङ्गनाः स्वर्ग इति चन्दनाङ्गनादि
द्रव्यसामानाधिकरण्यप्रयोगाद् द्रव्यशब्दः स्वर्गशब्दः तदा “द्रव्याणां कर्मसं-
योगे गुणत्वेनाभिसम्बन्ध”(१) इति दध्यादिवत्साधनत्वेन स्वर्ग उपकरोति
क्रियां कामना ऽपि द्रव्याहरणाङ्गत्वादुपकारिणी यत्तया द्रव्यमानेतुं यतते
इति दृष्टोपकारित्वम् ,
तच्चैतदसमञ्जसम् , स्वर्गशब्दस्य द्रव्यवाचित्वाभावात्प्रीतिवचनो ह्येष
स्वर्गशब्दो न द्रव्यवचनः तदेव चन्दनं शीतातुरेण न स्वर्ग इति ग्रीष्मोपहतेन
च स्वर्ग इति व्यपदिश्यते, सैवाङ्गना सुरतार्थिना स्वर्ग इति विरतायां सुरततृषि न
स्वर्ग इत्युच्यते तदेवनेष स्वर्गशब्दः प्रीतिं न व्यभिचरति द्रव्यं तु व्यभिचरत्ये-
वमद्रव्यत्वात्स्वर्गस्य न क्रियाङ्गत्वम् , तथा ऽपि निरतिशयसुखप्रतीत्यन्यथानु-
पपत्तितः परिकल्पितः कनकगिरिशिखरादिर्देशः स्वर्गः सुतरां तस्य न क्रिया-
साधनत्वमवकल्पते दध्यादिवदुपादातुमशक्यत्वात्,
स्वर्गस्यक्रियायां नादृष्टोपकारकत्वम् —
यद्यप्यदृष्टेनैव द्वारेण समुद्रं मनो ध्यायेदितिवत्स्वर्गकामना तत्रोपकारिणी-
( १ ) जैमिनिसूत्रम् अ. ६ पा. १ सू. १ ।