न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 325, कुल 654 में से
संदर्भ में पढ़ेंसाध्यं च साध्यमानत्वात्प्रधानमवगम्यते ।
तस्मात्तदेव वाक्यार्थः क्रियातो नापरं च तत् ॥
क्रिया हि प्रतीयमाना स्वनिष्पत्तये साधनान्याक्षिपति तैश्च कैश्चित्संबध्यते
तानि च कानि चित्पदान्तरोपात्तानि भवन्ति कानि चिद्वाक्यान्तरोपात्तानि
कानि चित्प्रकरणान्तरपाठलभ्यानि कानि चिदारादुपकारकाणि कानि चित्स-
न्निपत्योपकारकाणि कानि चिदन्तिकोपनिपतितान्यपि योग्यताविरहात्परिहरति
कानि चिदतिदूरवर्त्तीन्यपि योग्यानि स्वसम्पत्त्यर्थमाहरति इत्येवं दृष्टादृष्टोपका-
रकारककलापसम्पद्यमानस्वरूपा क्रियैव वाक्यार्थः ।
यजेत दद्याज्जुहुयादधीयीतेति चोदितः ।
क्रियां साध्यतया वेत्ति तां च लोको ऽनुतिष्ठति ॥
अधिकारिपदमपि क्रियापेक्षितकर्तृसमर्पणेन तदुपयोगितामेवावलम्बते
अस्यां क्रियायामेष कर्त्ता ऽनेनेयं क्रिया सम्पद्यते इति, तत्र च कर्त्ता क्रियासु
स्वप्राधान्यमुज्झति न हि क्रिया कर्त्रर्था ऽपि तु कर्ता क्रियार्थः, स हि तां निर्व-
र्तयन्नुपलभ्यते, शब्दो ऽपि तथैवोपदिशति एष इदं कुर्यादिति, किमर्थं पुनर-
सौ क्रियामनुतिष्ठतीति चेच्छब्दप्रामाण्यादेवेति ब्रूमः, शब्देन हि चोदितस्त्व-
येदं कर्त्तव्यमिति स चेन्नियुक्तो नानुतिष्ठेत् चोदनामतिक्रामेच्छास्त्रप्रत्याख्यात्
क्रियामनुतिष्ठति विरतफलाभिलाषः कर्मसंस्कारादेव परिपक्ककषायः स्तोकस्तो-
कप्रपञ्चविलापनद्वारेणोत्तमाधिकारमारूढस्तत एव ज्ञातास्वादस्तमेव परमपुरु-
षार्थं प्रतिपादयतीति दीर्घा सा कथा तिष्ठतु किमनया, सर्वथा क्रियाप्राधान्या-
त्सैव वाक्यार्थ इति, तदुक्तम् “द्रव्यगुणसंस्कारेषु बादरिः(१)” एतदुक्तं भव-
ति द्रव्यादीनामेव क्रियां प्रति शेषत्वमवगम्यते न हि क्रियाया अन्यशेषत्वमिति ।
क्रियापेक्षया फलस्य प्राधान्येन फलस्य वाक्यार्थत्वनिरूपणम्—
अत्रोच्यते, कुत इदं क्रियायाः प्राधान्यमुपेयते वस्तुवृत्तेन वा शब्दप्रत्य-
यमहिम्ना वा—
फलस्य वस्तुतस्तावत्प्राधान्यमवगम्यते ।
न सचेताः क्रियां कां चिदनुतिष्ठति निष्फलाम् ॥
वेदाद् गुरुनियोगाद्वा शासनाद्वा महीभुजः ।
न वैफल्यमपश्यन्तः क्रियां विदधते जनाः
जडो माणवको ऽप्येष चपेटापातहानये ।
मोदकाद्याप्तये वापि करोति गुरुशासनम् ॥
अत्रोच्यते, न वस्तुतः प्राधान्यमिहाश्रीयते अपि तु शब्दतः शब्दप्रमाण-
( १ ) जैमिनिसूत्रम् । अ. ३ पा. १ सू. ३ ।