सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 324, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 324

तदिदमनुपपन्नम्, बाह्यार्थस्यानन्तरमेव प्रसाधितत्वात्, न संसर्गनिर्भासं
ज्ञानं वाक्यार्थो भवितुमर्हति स्थापयित्वा हि बाह्यमर्थं वाक्यार्थचिन्तामुप-
क्रान्तवन्तो वयमतः को ऽवसरो विज्ञानमात्रवाक्यार्थत्ववर्णनस्य, न च पदार्थ-
व्यतिरिक्तो नास्ति वाक्यार्थः, इदं तावद्भवान्पृष्टो व्याचष्टां किं गौरि-
ति पदाद्यादृशी प्रतिपत्तिस्तादृश्येव गौः शुक्ल आनीयतामिति वाक्यादुत
भिन्ने एते प्रतिपत्ती इति, तत्र तुल्यत्वं तावत्प्रतिपत्त्योरनुभवविरुद्धम्, वैलक्षण्ये
तु प्रतीत्योर्विषयवैलक्षण्यमपि बलादुपनतमसति विषयभेदे प्रतीतिभेदानुपप-
त्तेः, यश्च तदतिरिक्तो विषयः स वाक्यार्थः, एवं केवलगुणक्रियापदोच्चारणे
ऽपि योजनीयम्, तदुक्तं “यत्राधिक्यं स वाक्यार्थ” इति, संसर्गो ऽपि पदार्थानां
न न प्रतीयते, न हि गौरश्वः पुरुषो हस्तीत्यसंसृ