न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 317, कुल 654 में से
संदर्भ में पढ़ेंप्रमाणप्रकरणम् २९५
त्प्रयुक्तं पदमंशेन कं चिदर्थमभिदधाति ततो ऽर्थान्तरं लक्षयति तद्गतत्वेन
पुनः लिङ्गसंख्यामभिधत्ते इति न प्रातीतको ऽयं क्रमः ।
साक्षात्तदन्वितत्वेन कथ्यमानं त्वसङ्गतम् ।
तद्गवेदग्निना सिञ्चेदित्यादिविधिसन्निभम् ॥
ननु पुंसीव सामान्ये कथं नैव भविष्यति ।
व्यक्त्यन्तरितमित्येष युक्तो वैभक्तिको ऽन्वयः ॥
प्रातिपदिकार्थसामान्यगतत्वेनैव विभक्त्या स्वार्थो ऽभिधीयते न लक्षित-
व्यक्तिवृत्तित्वेन यतो ऽभिधानवैषम्यं स्यात्स च विभक्त्यर्थो जातौ साक्षादस-
म्भवन्व्यक्त्यन्तरितो भविष्यति, नैतत् , आत्मनो ज्ञानप्रयत्नादियोगित्वेन कार-
कत्वोपपत्तेः जातेस्तु साक्षान्न मनागपि व्यापारलेशसंस्पर्श इति स्वतो दुर्लभं
तस्याः कारकत्वम् , अतः कथं तत्र विभक्त्यर्थान्वयः ।
यदन्वितं च संख्यादि तत्स्थत्वेन न कथ्यते ।
कथ्यते यद्गतत्वेन न तत्तेन समन्वितम् ॥
न च व्यवहितव्यक्तिप्रतीतिं मन्यते जनः ।
ना ऽन्यथानुपपत्त्यापि क्रमसंवेदनं क चित् ॥
जनयन्तीं च पश्यामो व्यक्तिं जात्यनुरञ्जिताम् ।
संख्यादियोगिनी चेति सा वै धत्ते पदार्थताम् ॥
जातेः कार्यान्वयः श्येनचितमित्यभ्यधायि यत् ।
तत्र संस्थाननिर्देशान्न जातेः का चिदङ्गता ॥
श्येनव्यक्त्या चेत्सादृश्यमिष्टकाकूटस्य नास्ति व्यक्त्यन्तरेण व्यभिचारात्
नितराममूर्त्तया जात्या सादृश्यमाकाशेनेव न तस्यावकल्पते इति स्पर्धोदाहरण-
मेतत् ।
जातिविशिष्टवाच्यत्वोपपादनम् —
अन्येषु तु प्रयोगेषु गां देहीत्येवमादिषु ।
तद्वतो ऽर्थक्रियायोगात्तस्यैवाहुः पदार्थताम् ॥
पदं तद्वन्तमेवार्थमाञ्जस्येनाभिजल्पति ।
न च व्यवहिता बुद्धिर्न च भारस्य गौरवम् ॥
सामानाधिकरण्यादिव्यवहारो ऽपि मुख्यया ।
वृत्त्योपपद्यमानः सन्नान्यथा योजयिष्यते ॥
तस्मात्तद्वानेव पदार्थः,
ननु को ऽयं तद्वान्नाम तदस्यास्तीति तद्वानिति विशेष एव सामान्यवा-
नुच्यते विशेषवाच्यत्वे चानन्त्यव्यभिचारौ तदवस्थौ सामान्यं तु शब्देनानुच्य-
मानं नोपलक्ष्यमाणं भवति उभयाभिधाने च शब्दस्यातिभार इत्युक्तम् ,