न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 318, कुल 654 में से
संदर्भ में पढ़ें२९६ न्यायमञ्जर्याम्
उच्यते, नेदन्तानिर्द्दिश्यमानशाबलेयादिविशेषस्तद्वान् न च सर्वत्रैको-
क्यवर्त्ती व्यक्तिव्रातस्तद्वान् किं तु सामान्याश्रयः कश्चिदनुल्लिखितशाबलेया-
दिविशेषस्तद्वानित्युच्यते, सामान्याश्रयत्वाच्च नानन्त्यव्यभिचारयोस्तत्राव-
सरः, न च विशेषणमभिधाय विशेष्यमभिधाति शब्द इत्यभ्युपगच्छामः
येनैनमतिभारेण पीडयेमहि, सामान्याश्रयमात्रे सङ्केतग्रहणात् तावन्मात्रं वदतः
शब्दस्य कतरो ऽतिभारः एवं तद्गतानांस्वातन्त्रत्वादित्यादि दूषणं परिहृतं
भवति, किं च—
प्रत्यक्षं न हि निष्कृष्टजात्यंशपरिवेष्टितम् ।
तद्गोचरप्रवृत्तश्च शब्दस्तं कथयेत्कथम् ॥
तस्मात्प्रत्यक्षविषये प्रवर्त्तमानं तत्समानविषयमेव भवितुमर्हति पदं न सा-
मान्यमात्रनिष्ठम् ।
युगपन्नु संवित्तिर्विशेषणविशेष्ययोः ।
प्रत्यक्षे ऽपि न दृष्टैव न च युष्माभिरिष्यते ॥
कार्यकारणभावो हि तद्धियोर्भवतां मते ।
तस्माद्विशेषणे जातौ पूर्वमिन्द्रियजा मतिः ॥
पदादपि तदा यत्तु सम्बन्धज्ञप्त्यपेक्षिणः ।
तत्रैव बुद्धिरित्येव न व्यक्तेरपि वाच्यता ॥
उच्यते, प्रत्यक्षे तावद् द्वयोरपि विशेषणविशेष्ययोरिन्द्रियविषयत्वं सामा-
न्येऽपि संयुक्तसमवायादिन्द्रियं प्रवर्त्तमानं विशेषणवद्विशेष्यमपि विषयीकरोति,
न हि सामान्यं प्रत्यक्षं विशेषे ऽनुमेय इति व्यवहारः, एवं गुणमात्रग्राहिणीन्द्रिये
गुणिने ऽनुमेयत्वं स्यान्न चैवमस्ति, तस्माद्विशेषपर्यन्तं प्रत्यक्षं तथा पदमपि
तत्तुल्यविषयं न तु सामान्यमात्रनिष्ठमिति युक्तम् ।
यत्तु “सामान्यांशानपोद्धृत्य पदं सर्वं प्रवर्त्तते” इति तत्केवलव्यक्त्यभिधाने
सति आनन्त्यव्यभिचारभयादुच्यते तद्वदभिधाने तु तद्द्वयं नास्तीति न शुद्ध-
जात्यभिधातृतया शब्दः संकोचनीयः, न तु सर्वात्मना प्रत्यक्षतुल्यविषयः
शब्दः प्रतिपत्तिसाम्यप्रसङ्गात्, न च शब्दान्द्रियाच्च तुल्ये प्रतिपत्ती भवतः,
तदुक्तम् “अन्यथैवाग्निसम्बन्धाद् दाहं दग्धो ऽभिमन्यते” इत्यादि ।
उच्यते, पूर्वमेवैतत्परिहृतं सकलविशेषग्रहणाग्रहणाभ्यां प्रतिपत्तिविशेषसिद्धेः
धर्म्यभिप्रायेण च संप्लवस्योक्तत्वान्नतावता सामान्यमात्रनिष्ठः शब्दो भवति ।
अपि च निष्कृष्टसामान्यांशवचनत्वे पदस्येष्यमाणे गोशब्दाद्गोत्वशब्दाच्च
तुल्ये प्रतिपत्ती स्याताम्, गौः शुक्ल इतिवच्च गोत्वं शुक्लमिति बुद्धिः स्यात्,
चातुर्वर्ण्यादिवच्च स्वार्थे एव गोशब्दाद्भावप्रत्ययस्त्वतलादिः स्यात् ।
अथ मन्येथाः आक्षिप्तव्यक्तिकां जातिं गोशब्दो वक्ति भावप्रत्ययान्तस्तु