सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 316, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 316

२१४ न्यायमञ्जर्याम्
यत्त्वमूर्त्तत्वाज्जातेः न क्रियाङ्गत्वमिति, नैष दोषः, अमूर्त्तानामपि गुणकर्मणां
क्रियासाधनतयोपपत्तेः अरुणया क्रीणाति अभिक्रामञ्जुहोतीति, व्यक्त्याक्षेप-
द्वारेण चालम्भनविशसनप्रोक्षणादिप्रयोगचोदनासु साधनत्वं जातेरुपपत्स्यते ।
लक्षितव्यक्तिसाध्यं तु तत्साध्यं कार्यमिष्यते ।
यथा भूतेन्द्रियोत्पाद्यमात्मकर्तृकमुच्यते ॥
आत्मा तावत्सर्वकर्मस्वधिकृतः कर्त्ता च स चामूर्त्तत्वाद् देहेन्द्रियद्वारेण
औदुम्बरीसंमार्जनाव्यावेक्षणादीनि कार्याणि निर्वर्त्तयन् कर्त्ता तेषु भवति, एवं
जातिरपि व्यक्तिवर्त्मना तन्निर्वर्त्तयन्ती साधनतां लप्स्यते ।
अतश्च जातिरेवाङ्गमिति मीमांसका जगुः ।
तस्याश्चेदं क्रियाङ्गत्वमन्यद्वारकमात्मवत् ॥
एवं षड् देया इत्यन्यं तद्वर्णमालभेतेति च तद्द्वारकमेव योज्यम्, एतेनो-
पचयापचयसंघाताद्यपि वक्तव्यम्, सम्बन्धग्रहणादिकार्यं च जातिपक्षे एव
सूपपादम्, आनन्त्यव्यभिचारादिदोषानवकाशात् ।
यत्पुनरभ्यधायि प्रत्यक्षविषये पदं वर्त्तते न च प्रत्यक्षस्य सामान्यमात्रं
विषय इति परिहृतं तद्वार्त्तिककृता प्रत्यक्षस्य हि चित्रात्मकं वस्तु विषयः ।
न च तत्तादृशं किं चिच्छब्दः शक्नोति भाषितुम् ।
सामान्यांशानपोद्धृत्य पदं सर्वं प्रवर्त्तते इति(१) ॥
न हि नानाधर्मनिचयरचितचित्राकारवस्तुसमर्पणनिपुणमेकं किमपि पद-
मुपपद्यते न च तत्र सम्बन्धग्रहणं सुकरमिति सामान्यांशनिष्ठमेव पदं युक्तं
तस्माज्जातिरेव शब्दार्थ इति ।
जातिमात्रवाच्यत्वाक्षेपः—
अत्राभिधीयते, न जातिः पदस्यार्थो भवितुमर्हति पदं हि विभक्त्यन्तो
वर्णसमुदायो न प्रातिपदिकमात्रम, तत्र च प्रकृतिप्रत्ययावितरेतरान्वितमर्थम-
भिधत्त इति स्थितम्, द्वितीयादिश्च विभक्तिः प्रातिपदिकादुच्चरन्ती प्रातिपदि-
कार्थगतत्वेन स्वार्थमाचष्टे युगपच्च त्रितयं विभक्त्यर्थः कारकं लिङ्गं संख्या
च न चैतत् त्रितयं प्रातिपदिकार्थे जातावन्वेति न जातिः कारकं न च जातेः
स्त्रीपुंनपुंसकविभागः न चास्या द्वित्वादियोग इति ।
ननु व्यक्तिलक्षणया सर्वमुपपत्स्यते इत्युक्तम्, न च युक्तमुक्तम, सकृ-
( १ ) श्लोकवार्तिके आकृतिवार्त्तिके श्लो० ६३ अयमर्थः यद्येकमेव वस्त्वनेका-
कारं तर्हि तादृशमेव शब्दोऽभिदधत् सामान्यमात्रामिधायी न स्यादत आह—न
चेति । कीदृशं तु भाषतेऽत आह सामान्यांशानिति ।