न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 314, कुल 654 में से
संदर्भ में पढ़ें२९२ न्यायमञ्जर्याम्
ल्पेतान्यस्यापनीयमानस्य पशुद्रव्यस्य सैव जातिः तत्रान्यत्वसंबन्धो व्यक्तेरेव-
कल्पते न जातेरित्यतो ऽपि व्यक्तिः शब्दार्थः ।
चयापचयसंघातस्वस्वामित्वादिकल्पनाः ।
यान्ति व्यक्तिमभिधेयत्वपक्षे झडिति संगतिम् ॥
न व्यक्तिलक्षणाद्वारमित्यकार्यं च युज्यते ।
वक्रः पन्था न गन्तव्यः प्रष्ठे वहति वर्त्मनि ॥
उपलक्षणमाश्रित्य जातिसंबन्धवेदनम् ।
प्रसेत्स्यतीति नानन्त्यव्यभिचारकृतो ज्वरः ॥
किं च—
प्रत्यक्षविषये वृत्तिः पदस्येष्टा परैरपि ।
निष्कृष्टं न च सामान्यमात्रं प्रत्यक्षगोचरः ॥
व्यक्तेरेव पदार्थत्वं तस्मादभ्युपगम्यताम् ।
तथा च बुद्धिस्तत्रैव श्रुतशब्दस्य जायते ॥
जातिमात्रस्य वाच्यत्वनिरूपणम्-
तदेतज्जैमिनीयैर्न क्षम्यते, तथा हि व्यक्तिमात्रं वा शब्दार्थ इष्यते विशि-
ष्टा वा व्यक्तिः न तावद्व्यक्तिमात्रं न हि यस्यां कस्यां चिद्व्यक्तौ गोशब्दं वक्तारः
प्रयुञ्जते, न च यां कां चिद्व्यक्तिं गोशब्दाच्छ्रोतारः प्रतिपद्यन्ते, अथ गोत्वविशि-
ष्टव्यक्तिः शब्दार्थ इत्युच्यते गोत्वमेव हि तर्हि गोशब्दार्थो न व्यक्तिः, कथम्,
श्रूयतां यदि हि व्यक्तिः शब्दार्थो भवेद् व्यक्त्यन्तरे न प्रयुज्येत अथ व्यक्त्य-
न्तरे ऽपि प्रयुज्यते सर्वव्यक्तिसाधारणस्तस्यार्थो न व्यक्तिः ।
ननु व्यक्त्यन्तरमपि व्यक्तिरेव सो ऽयं व्यक्तौ गोशब्दः प्रयुक्तो न सामा-
न्ये, मैवम्, व्यक्तौ चेद् गोशब्दः प्रयुज्यते कर्कादिव्यक्तावपि प्रयुज्येत, यत्र
प्रयोगोऽस्य दृष्टस्तत्र प्रयुज्यते इति चेद् अथ जातायां गवि मा प्रयोजि, न हि-
तत्र प्रयोगो ऽस्य दृष्ट इति तस्माद्दर्शनमकारणम् , प्रतिव्यक्ति तस्यासम्भवात् ,
व्यक्तौ च शब्दार्थे इयं वा गौरियं वा गौरिति प्रतिपत्तिः स्यान्न त्वियमपि गौरि-
ति भवति चैवं प्रतीतिर्न चायमविद्यमाननियन्तृक एव यदृच्छाशब्दप्रयोगः प्रव-
र्तते इति नियामकस्य चिन्त्यम् , गोत्वमेव नियामकमिति चेदायूष्मन्साधु-
बुध्यसे किं तु तद्गोत्वमवगतमनवगतं वेति वक्तुमर्हसि नानवगतमतिप्रसङ्गा-
दवगतं चेत्कुतस्तदवगच्छामः शब्दादन्यतो वा, नान्यतः प्रमाणान्तरासन्निधा-
नात् , शब्दाच्चेत्तर्हि शब्दः प्रथमतंर गोत्वे वर्तितुमर्हति नागृहीतविशेषणा वि-
शिष्टे बुद्धिरिति न्यायात् ।
ननु जातिं विशेषणत्वेन व्यक्तिं च विशेष्यत्वेन वक्ष्यति गोशब्दः न शक्तो-