न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 315, कुल 654 में से
संदर्भ में पढ़ेंति वक्तुमतिभारप्रसङ्गात् , न च व्यक्त्यवगतौ गतिरन्या नास्ति यत इयन्तं
शब्दे भारमारोपयेम, न हि वयं व्यक्तिप्रतीतिं भवन्तीमपह्नुमहे नापि भवन्तीं
जातिप्रतीतिमपह्नुमहे उभयप्रतीतेः प्रत्यात्मवेदनीयत्वात् , उभयत्र चाभिधा-
त्री शक्तिरतिभारः शब्दस्यान्यतरप्रतीत्या चान्यतरप्रतीतिसिद्धेः, तत्र गोशब्दः
किं जातौ वर्त्तमानः व्यक्तिमाहो स्विद्व्यक्तौ वर्त्तमानो जातिमाक्षिपतिरिति
विचारणायां जातेर्विशेषणत्वात्पूर्वतरं प्रतिपत्तिरिति सैव शब्दार्थो भवितुमर्ह-
ति तस्यां च शब्दादवगतायां तत एव व्यक्त्यवगमः सेत्स्यतीति नोभयत्र
शाब्दो व्यापारः ।
ननु दण्डिशब्दादिव विशेषणं च जातिं विशेष्यां च व्यक्तिं गोश-
ब्दादेव प्रतिपत्स्यामहे को ऽस्यातिभारः, विषमो ऽयं दृष्टान्त तत्र हि प्रकृ-
तिप्रत्ययविभागेन द्वयप्रतीतिरवकल्पते दण्डशब्दः प्रकृतिविशेषणमभिवदति
मत्वर्थीयप्रत्ययश्च विशेष्यमिति, गोशब्दे तु नैष न्यायः सम्भवति, तत्र न वि-
शेषणे दण्डिशब्दो वर्त्तते न विशेष्ये दण्डशब्दः, इह तु गोशब्द एक एव स च
विशेषणे विशेष्ये वा वर्त्तेत, विशेष्ये वर्त्तमानो विशेषणे प्रमाणान्तरमपेक्षते
विशेषणे तु वर्त्तमानस्तदवगमाय विशेष्यमाक्षिपतिरिति न कश्चिद्दोषः, तदिदमा-
त्मप्रत्यक्षं यच्छब्दे उच्चरिते व्यक्तिरवगम्यते स किं शब्दादुत जातेरिति विवेको
न प्रत्यक्षः स युक्त्या ऽवगम्यते, शब्दस्य द्वयाभिधाने यत्नगौरवाद्विरम्य व्यापा-
रस्य चासंवेदनात्, अन्तरेणापि च शब्दं जात्यवगमाद्व्यक्तिप्रतीतिदर्शनाज्
जातित एवैषा व्यक्तिप्रतीतिः जातिप्रतीतिश्च शब्दादिति निश्चीयते, भवद्भिर-
पि च विशेषणज्ञानपूर्विका विशेष्यावगतिरङ्गीकृतैव, यथा ऽऽह कणव्रतः(१),
“समवायिनः श्वैत्याच्छ्रैत्यबुद्धेश्च श्वेते बुद्धिस्ते कार्यकारणभूते” इति ।
यत्पुनरभिहितम् आलम्भनविशसनप्रोक्षणादिक्रियायोगाद्व्यक्तिः शब्दार्थ
इति, तदप्यनैकान्तिकम्, जातावपि क चित्क्रियायोगदर्शनात् श्येनचितं चि-
न्वीतेति,
नन्वत्रापि व्यक्तेरेव कार्याङ्गता नामूर्त्ताया जातेः, मैवम्, न ह्यत्र
श्येनः साधनत्वेन निर्दिश्यते पशुना यजेतेतिवत्, कर्मण्यग्न्याख्यायामिति त्व-
भियुक्तस्मरणाच्चयननिर्वर्त्यः श्येन इति शब्दार्थो ऽवगम्यते, न च श्येनव्यक्ति-
श्चयनेन निर्वर्त्तयितुं पार्यते, अग्न्याख्यायामिति स्मर्यते न हीष्टकानिचयेन पतत्री
अभिनिर्वर्त्तते तदाकारस्त्वग्निरभिनिर्वर्त्यते इत्यत्र जातेः क्रियाङ्गत्वं न व्यक्तेः ।
ननु व्यक्त्या सादृश्यं सम्पादयिष्यते न शक्यते सम्पादयितुं व्यक्त्यन्तर-
वैसाद्दृश्यस्यापि सम्भवाद्यो ह्येकया व्यक्त्या सदृशः सो ऽन्यविसदृशो भवति,
( १ ) वैशेषिकसूत्रम् अ० ८ आ-१ सू० ९ ।