न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 313, कुल 654 में से
संदर्भ में पढ़ेंर्थे ततः प्रतिपद्यन्ते स तस्यार्थः, तत्र यदि गोशब्दः केसरादिमति न प्रयुज्यते
सास्नादिमति च प्रयुज्यते तदसाधारणसन्निवेशविषय एवावगम्यते, प्रत्यक्ष-
विषये गौरित्यादि पदं प्रयुञ्जते प्रत्यक्षं चाकृतिविषयमश्वपिण्डसन्निवेशाद्विल-
क्षणो हि गोपिण्डसन्निवेश इन्द्रियेण प्रतीयते तत्कृतमेव वस्तुष्वितरेतरवैलक्ष-
ण्यम्, अतः प्रत्यक्षविषये पदं प्रवर्त्तमानमाकृतावेव वर्तितुमर्हति, प्रेषणादिक्रि-
यायोगश्च व्यक्तिद्वारक आकृतेर्भविष्यतीति तदुक्तम्—
तदयुक्तं प्रतिव्यक्ति भिन्नसंस्थानदर्शनात् ।
आनन्त्यव्यभिचाराभ्यां संबन्धज्ञप्त्यसम्भवात् ॥
न नियतस्य शाबलेयसन्निवेशस्य गोशब्दो वाचकः तदभावे ऽपि बाहुलेय-
सन्निवेशदर्शनात्, न च त्रैलोक्यान्तर्गतसकलगोपिण्डसन्निवेशवचनत्वमनुगतं
शक्यम् आनन्त्यात्ततश्च नाकृतिः शब्दार्थः तस्यां क्रियाऽनुपपत्तेः न हि प्रेषणा-
दिक्रियासाधनं सन्निवेशो ऽपि तु व्यक्तिः ।
न च गामानयेत्युक्तः सत्यामपि तथाकृतौ ।
चित्रमृत्स्नामयीं कश्चिद्गामानयति बुद्धिमान् ॥
ननु जातिवाच्यत्वपक्षे ऽपि गोत्वजातेः सर्वगतत्वात् किमिति मृद्गवान-
यनं नानुष्ठीयते, उच्यते हस्ती किं नानीयते सर्वगतत्वाज्जातेः अथ सर्वत्रा-
स्तित्वे ऽपि व्यञ्जकव्यक्तिनियमेनापहूयते हन्त तर्हि सास्नादिमत्प्राणी गोत्व-
जातेरभिव्यञ्जको न मृद्गव इति नातिप्रसङ्गः, सन्निवेशस्य च तत्र भावा-
त्तद्वाच्यत्ववादिनः नैनमतिप्रसङ्गमत्क्रामन्ति, किं चाकृतिवचनत्वे गोशब्द-
स्य शुक्लादिगुणवाचिभिः पदान्तरैः सामानाधिकरण्यं न प्राप्नोति न हि शुक्ला-
दिगुणा आकृतिवृत्तयः तत्सामानाधिकरण्यादिबलवत्तया वरं व्यक्तिः शब्दा-
र्थ इष्यताम् ।
व्यक्तौ तावत्क्रियायोगो जातौ संबन्धसौष्ठवम् ।
नाकृतौ द्वयमप्येतदिति तद्वाच्यता कुतः ॥
जातिव्यक्त्योरतः कार्यो वाच्यत्वे संप्रधारणा ।
तत्र व्यक्त्यभिधेयत्ववादिभिस्तावदुच्यते ॥
प्रयोगचोदनासामञ्जस्याद्व्यक्तिः शब्दार्थः, आलम्भनविशसनप्रोक्षणादिचो-
दना जातावसङ्गता भवन्ति न हि जातिरालभ्यते विशस्यते प्रोक्ष्यते वा, अपि-
च षड् देया द्वादश देया चतुर्विंशतिर्देया इति न जातिः षडादिसंख्याभिर्यु-
ज्यते ऽपि तु व्यक्तिः तस्मात्सैव शब्दार्थः, अपि च यदि पशुरुपाकृतः पलाये-
तान्यं तद्वर्णं तद्वयसमालभेतेति यदि जातिः शब्दार्थः स्यादन्यस्यालम्भो नावक-