सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 300, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 300

त्तमेषां किं चिदस्ति, अश्वादयश्च विधिरूपतया भवन्मते न गृह्यन्ते किं त्वन्य-
व्यवच्छेदेनैवेति तेषामपि व्यवच्छेदग्रहणे सैव वार्त्तेति नेदानीं विकल्पैः क चि-
दपोहो विषयीकर्त्तुं शक्यते निर्विकल्पेन च न कश्चिद्व्यवहार इति सकळया-
त्रोत्सादप्रसङ्गः, किं च ये एते शावलेयादिशब्दाः ते सर्वे एवापोहवाचित्वावि-
शेषात्पर्यायाः स्युः, अपोहभेदाददोष इति चेन्न, अपोहानां भेदाभावात्, भिद्य-
मानत्वे वा स्वलक्षणवदेषां वस्तुत्वप्रसक्तिः, भवत्पक्षे ऽपि सामान्यमात्रवाचि-
त्वाविशेषात्पर्यायत्वं समानो दोष इति चेन्न, सामान्यानां विधिरूपत्वात्परस्पर-
संरहितस्वभावतया नानात्वावगमात्, अपोहस्त्वभावमात्ररूपविशेषान्न पर-
स्परं भिद्यते, कर्कादिशावलेयाद्याधारभेदादपोहभेद इति चेन्न, तेषामाधारत्वस्य
निरस्तत्वात्, आधारभेदेन वा तद्भेदाभ्युपगमे प्रतिस्वलक्षणमपोहतद्भेदप्रसङ्गः,
ततश्च सामान्यात्मता ऽस्य हीयते ।
अथापोह्याभेदेनापोहभेदमवधार्य पर्यायता पराणुद्यते तदप्यसारम्, भवन्न-
पोह्यभेदाद्भेदो न पर्यायत्वमपहन्ति भाक्तो ह्यसौ न मुख्यः, न चापोह्याभेदा-
द्भेदो ऽपोहस्यावकल्पते, यो हि सम्भाव्यमानसंसर्गैराधारैरपिन भेत्तुं पार्यते स
दूरवर्त्तिभिरलब्धसम्बन्धैरतिबाह्यैः कथं भिद्येत ।
अभ्युपगम्यापि ब्रूमः यद्यपोह्यभेदादपोहे भिन्नत्वमपोह्यैक्यात्तर्हि तदैक्येनापि
भवितव्यम्, अतश्च गवाश्वयोरन्यापोहेन व्यवस्थाप्यमानयोरगावो ऽनश्वाश्च
हस्त्यादयो ऽपोह्यास्तुल्या भूयांसो वा भवन्ति असाधारणस्तु एको गौरश्वे गवि
चाश्वे ऽतिरिच्यते तत्रेहापोह्यभेदाद्गवाश्वयोर्भेदो भवतु भूयसामपोह्यानामभे-
दादभेदो भवत्विति विचारणायां विप्रतिषिद्धधर्मस्य समवाये भूयसां स्यात्स-
धर्मत्वमित्यभेद एव न्याय्यो भवेत् ।
अथ साधारणत्वादश्वापोह्य एव गोऽपोहेन व्यवस्थाप्य इष्यते स तर्हि सिं-
हाद्यावर्त्तयतीति सोपीदानीं गोर्भवेत्, अथाश्वादिविशेषोद्‌घोषरहितमागोरूप्यं
व्यवच्छेद्यमुच्यते तत्प्रत्येकं ग्रहीतुमशक्यमानन्त्यात्, वर्गीकरणकारणं च किं
चिन्नास्त्येव न हि सर्वेषामगवामश्वादीनामेकदेशत्वमेककालत्वं वा समस्ति ।
अथ गोप्रतिषेध एव वर्गीकरणहेतुरिष्यते हन्त तर्हि गौः पूर्वसिद्ध एषित-
व्यः यत्प्रतिषेधेनागावः प्रतीयेरन्, पूर्वसिद्धे च गवि लब्धे किमगोभिः किं तद्-
पोहेन प्रयोजनम्, पूर्वसिद्धं गोस्वलक्षणमस्त्येवेति चेन्न तेन व्यवहाराभावात्,
गोसामान्ये तु पूर्वसिद्धे मुधा ऽपोहप्रयत्न इत्युक्तम् ।
अथ गोसामान्यमगोप्रतिषेधेन सिद्धयति तदा दुरुत्तरमितरेतराश्रयत्वम्
अगोनिषेधेन गोसिद्धिः गोसिद्ध्या चागोनिषेधसिद्धिरिति, तस्मादपोहस्यैव
निरूपयितुमशक्यत्वान्न तद्भेदादपोहभेदः सिद्ध्यति ।