न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 301, कुल 654 में से
संदर्भ में पढ़ेंअपि चाश्वादयः सामान्यरूपेण वापोहेरन्विशेषात्मना वा, न विशेषात्म-
ना तदनङ्गत्वादशब्दवाच्यत्वाच्च, सामान्यात्मना तु तेषामप्योहरूपत्वादभाव-
त्वम्, कथं चाभावस्यैवाभावः क्रियते करणे वा प्रतिषेधद्वययोगाद्विधिरवति-
ष्ठते इति विधिरूपः शब्दार्थः स्यात्, अपोह्यात्मनश्च तुरगादेर्यो ऽपोहः स तस्मा-
द्विलक्षणः अन्यथा वा, वैलक्षण्ये तस्य भावात्मता भवेत्, अवैलक्षण्ये तु यादृश-
एव अपोह्यः तादृश एव तदपोह इति गौरश्वयोः स्यात्, किं चापोहशब्दार्थ-
पक्षे नीलमुत्पलमित्यादौ विशेषणविशेष्यभावसामानाधिकरण्यादिव्यवहारा
विलुप्येरन् न ह्येकस्मिन्नर्थे द्वयोरपोहयोर्वृत्तिरुपपद्यते, न चैकः कश्चिदर्थो ऽस्ति
यत्र तयोर्वृत्तिः स्वलक्षणस्याशब्दार्थत्वादन्यस्य चासम्भवात्, न च वृत्तिरपि
का चि