न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 299, कुल 654 में से
संदर्भ में पढ़ेंप्रमाणप्रकरणम् २७७
तथा हि न विकल्पा वस्तु स्पृशन्ति । कुतः—
एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् ।
को ऽन्यो न दृष्टो भागः स्याद्यः प्रमाणैः परीक्ष्यते ॥
तस्माद् भ्रमनिमित्तसमारोपिताकारान्तरनिषेधाय तेषां प्रवृत्तिः, यथा रूप-
साधर्म्यसमारोपितरजताकारनिवारणाय शुक्तौ प्रमाणान्तरं प्रवर्त्तते नेदं रजत-
मिति तथेहापि शाबलेयादिस्वलक्षणे निर्विकल्पकेन सर्वात्मना परिच्छिन्ने कुत-
श्चिन्निमित्तादारोपितमगोरूपमिव व्यवच्छिन्दन्ति विकल्पाः, अगौर्न भवतीति न
तु गोः स्वलक्षणग्रहणे तेषां व्यापारः प्रागेव गृहीतत्वात् ।
अथ ब्रूयात् नानाविशेषनिकरकल्माषितवपुषस्तस्यार्थस्य किं चिद्विशेषणं
गृहीतं विकल्पैर्गृह्यते इति तदप्ययुक्तम्, विशेषणनिकररूषितस्यापि वस्तुनः
तद्विशेषणोपकारशक्तिव्यतिरिक्तात्मनो ऽनुपलाम्भात्तदभेदे सति तद्विशेषेणोप-
कार्यवस्तुस्वरूपग्रहणवेलायामेव तत्त्वात्तच्चित्रग्रहणसिद्धेर्विकल्पान्तराणामान-
र्थक्यमेव, तदुक्तम्—
यस्यापि नानोपाधिर्निर्वाहिका ऽर्थस्य भेदतः, तस्यापि—
नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मनो ग्रहे ।
सर्वात्मनोपकार्यस्य को भेदः स्यादनििश्चित इति ।
तस्मादपोहविषयाः शब्दा विकल्पश्चेति ।
मीमांसकरीत्या अपोहनिराकरणम् ।
नन्वपोहशब्दार्थपक्षे महतीं कृपाणवृष्टिमुत्ससर्ज भट्टः, तथा हि अपोहो
नाम व्यावृत्तिरभाव इष्यते न चाभावः स्वतन्त्रतया घटवदवगम्यते, तदयम-
न्याश्रितो वक्तव्यः कश्च तस्याश्रयः इति चिन्त्यम्, न तावद्गोः स्वलक्षणमा-
श्रयः तस्य विकल्पभूषित्वाभावात्, नाप्यवान्तरसामान्यं शाबलेयत्वादि तदा-
श्रयः तद्धि अशाबलेयनिवृत्तेराश्रयतां प्रतिपद्यते न ह्येवमुपपद्यते अशाबलेयो
भवतीति गौः किं तु शाबलेय इति, शाबलेयव्यावृत्तिर्हि गोष्वपि बाहुले-
यादिष्वस्ति ।
अथ वा शाबलेयादिस्वलक्षणसमुदायमगोव्यावृत्तेराश्रयं ब्रूयुः सो ऽप्यघट-
मान एव समुदायिव्यतिरेकेण तस्यानुपलम्भात्, समुदायिनां च स्वलक्षणानां
देशकालादिभेदेनानन्त्याद्वर्गीकरणं पुरुषायुषशतेनापि न शक्यक्रियमिति समु-
दायो ऽपि न तदाश्रयः, तस्मात्सर्वसाधारणं प्रतिपिण्डं परिसमाप्तं किमपि नूत-
नमगोव्यावृत्तेरधिकरणमभिधातव्यम्, तच्च गोत्वमेव तस्मिन्नङ्गीकृते वा किम-
गोव्यावृत्तिकल्पनाऽऽयासेन ।
अपि च न केवलमाश्रयाभावात्तद्ग्रहणं सम्भवति नापि वर्गीकरणनिमि-