सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 298, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 298

२७६ न्यायमञ्जर्याम्
कर्कादिकार्यादन्यत्वं यथा श्वेतस्य दृश्यते ।
न तथा खण्डकार्यस्य मुण्डकार्याद्विभिन्नता ॥
ननु तथा मा भून्न त्वभिन्नमेव खण्डमुण्डयोः कार्यम्, दर्शनमेव तर्हि तयो-
रेकं कार्यं भविष्यति तच्चाभिन्नम् , ननु दर्शनमपि प्रतिव्यक्ति भिन्नमेव सत्यम्,
तत्तु स्वपृष्ठभाविप्रत्यवमर्शैक्यकायैक्यादेकमित्युच्यते, यथैव शाबलेयादिपिण्ड-
दर्शनेऽपि गौरित्येवावमर्श इति तदेकत्वमुच्यते, तदुक्तम्—
एकप्रत्यवमर्शस्य हेतुत्वाद्धीरभेदिनी ।
एकधीहेतुभावेन व्यक्तीनामपि भिन्नतेति ॥
तस्मादौपाधिकत्वादनुवृत्तबुद्धेर्न सामान्यं किं चिद्वास्तवमस्तीति ।
जात्यनङ्गीकारेऽपि शब्दानुमानयोः सम्बन्धग्रहणोपपादनम् ।
तत्राह—
अनिष्यमाणे सामान्ये ननु शब्दानुमानयोः ।
कथं प्रवृत्तिः सम्बन्धग्रहणाधीनजन्मनोः ॥
न हि व्यक्तिषु सम्बन्धो ग्रहीतुमिह शक्यते ।
स हि व्यक्तिषु गृहीत सर्वास्वेकत्र वा क चित् ॥
न तु सर्वासु देशकालादिभेदेन तदानन्त्यादशक्यत्वात्, नैकस्यां व्यभिचा-
रात्ततो ऽन्यत्रापि स शब्दः प्रवर्त्तमानो दृश्यते, अगृहीतसम्बन्धे च न शब्दलि-
ङ्गे तत्प्रतीतिमुत्पादयितुमुत्सहेते इति, उच्यते स्यादेतदेवं यदि प्रत्यक्षविषये
स्वलक्षणे शब्दलिङ्गयोः प्रवृत्तिः स्यात् , ननु प्रत्यक्षविषये तयोर्वृत्तावनिष्यमा-
णायामनवस्थादिदोषोपघातादप्रवृत्तिरेव स्यात्, मैवं वोचः कथमसकृदभिहित-
मपि न बुद्ध्यसे ।
विकल्पविषये वृत्तिरिष्टा शब्दानुमानयोः ।
अवस्तुविषयाश्चैवे विकल्पा इति वर्णितम् ॥
अपोहस्य विकल्पविषयत्वम् ।
ननु विकल्पानामपि विषयो यद्यनुगामी कश्चिन्नेष्यते तदुत्सीदेतामेव
शब्दानुमाने, बाढमस्ति विकल्पानामनुस्यूतो विषयः स तु न वास्तवः, कः
पुनरसाविति चेत्—
अतद्रूपपरावृत्तिस्वभावमबहिर्गतम् ।
बहिः स्थमिव सामान्यमालम्बते हि विकल्पः ॥
या च भूमिर्विकल्पानां स एव विषयो गिराम् ।
अत एव हि शब्दार्थमन्यापोहं प्रचक्षते ॥