न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 296, कुल 654 में से
संदर्भ में पढ़ें१७४ न्यायमञ्जर्याम्
सर्वत्रैव प्रतीयेत न वा सर्वगतं भवेत् ॥
तद्देशग्रहणे तस्य न हि किं चित्रियामकम् ।
दीपवद्व्यञ्जकः पिण्डो न तु तत्पिण्डवृत्ति तत् ॥
सर्वत्र गृह्यमाणं च सर्वत्रास्तीति मे ऽन्वयः ।
सर्वसर्वगतं तस्मान्न गोत्वमुपपद्यते ॥
पिण्डसर्वगतत्वे तु काममेतद्दूषणम् ।
किं तु नैवाद्य जातायां गवि गोप्रत्ययो भवेत् ॥
पिण्डे नासीदसञ्जाते जातिर्जाते च विद्यते ।
संक्रामति न चान्यस्मात्पिण्डादन्यत्र निष्क्रिया ॥
आयान्त्यपि न तं पिण्डमपोज्झति पुरातनम् ।
न चांशैर्वर्त्तते तत्र कष्टा व्यसनसन्ततिः ॥
सर्वबुद्धीनां व्यावृत्यनुवृत्त्यनुगमात्मकत्वशङ्कापरिहारौ—
भट्टास्तु ब्रुवते भिन्नाभिन्नमेकम्—
वस्तुबुद्धिर्हि सर्वत्र व्यावृत्यनुगमात्मिका ।
जायते द्व्यात्मकत्वेन विना सा च न सिद्ध्यति(१) ॥
केवलविशेषात्मकपदार्थपक्षे सामान्यप्रतीतेर्नालम्बनत्वं सामान्यमात्रवादे
विशेषबुद्धेरनुपपत्तिः ।
न चाप्यन्यतरा भ्रान्तिरूपचारेण गम्यते ।
दृढत्वात्सर्वदा बुद्धेर्भ्रान्तिस्तद्भ्रान्तिवादिनाम्(२) ॥
न हि मिहिरमरीचिनिचयनीरप्रतीतिवत्सामान्यप्रत्ययोपमर्देन विशेषप्रती-
तिः विशेषप्रत्ययोपमर्देन वा सामान्यप्रतीतिरुदेति किं तु अविरोधेनैव युगपदुभ-
यावभासः, अत एव निर्विकल्पबोधे न द्व्यात्मकस्यापि वस्तुनो ग्रहणमुपेयते ।
तदेतदभिधीयमानमेव न मनोज्ञमिवाभाति ।
नानारूपं स्वयैकस्य विरुद्धं वदता स्वयम् ।
दूषणादानमौखर्यमस्माकमपवारितम् ॥
( १ ) श्लोकवार्त्तिके आकृतिवार्त्तिके श्लो० ५ वस्तुनः द्व्यात्मकत्वमन्तरा व्या-
वृत्त्यनुगमात्मिका बुद्धिर्न संभवति यदि सौगतवत् स्वलक्षणमेव स्यान्न सामान्यं तदानु-
वृत्तबुद्धिर्न स्यात् यदि च वेदान्तिवत् सामान्यमेव स्यात्तदा व्यावृतबुद्धिर्न स्यादित्यर्थः।
( २ ) तत्रैव श्लो० ७ ननु एकस्य सामान्यविशेषात्मकत्वं न युक्तिसहमित्य-
न्यतरत् भ्रान्तं स्यादित्यत आह—न चेति । उभयोर्द्दढत्वान्नैकस्य भ्रान्तत्वं कल्पयितुं
शक्यमित्यर्थः ।