न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 295, कुल 654 में से
संदर्भ में पढ़ेंत्मा सम्बन्ध एवमेव परिहर्त्तव्यः, यथाऽऽह भट्टः(१) नानिष्पन्नस्य सम्बन्धो
निष्पत्तौ युतसिद्धतेति, परमाख्वाकाशयोः परमाणुकालयोश्च सम्बन्ध इष्यते
नाकाशकालयोरन्योन्यमिति प्रक्रियैवेति अलमषान्तरचिन्तनेन, तस्मान्न जा-
तिव्यक्त्योः का चिद् वृत्तिरुपपद्यते ।
सुशिक्षितास्तु रूपरूपित्वलक्षणमाचते जातिव्यक्त्योः सम्बन्धं सोऽपि नोप-
पद्यते, रूपशब्दः किं शुक्लादिवचनः आकारवचनः स्वभाववचनो वा, शुक्लादिव-
चनत्वे नीरूपाणां पवनमनःप्रभृतीनां द्रव्याणां गुणकर्मणां च सामान्यशून्यता
स्यात्, आकारवचनत्वेऽपि अवयवसन्निवेशरहितानां तेषामेव गुणादीनां सामा-
न्यवत्ता न प्राप्नोति, स्वभाववचनत्वे तु जातिजातिमतोरव्यतिरेक एव भवेत् ।
अवभाति हि भेदेन स्वभावो न स्वभाविनः ।
शब्दातिरिक्ततैवेयं न तु वस्त्वतिरिक्कता ॥
किं चेदं रूपं नाम किं वस्त्वेव वस्तुधर्मो वस्त्वन्तरं वा, वस्त्वन्तरं तावन्न
प्रतिभातीत्युक्तम्, वस्तुधर्मोऽपि तद्व्यतिरिक्ततया स्थितो न चकास्त्येव, अव्य-
तिरेके च सम्बन्धवाचायुक्तिरनुपपन्नेत्युक्तम्, न च रूपरूपित्वलक्षणसम्बन्धः
संयोगसमवायव्यतिरिक्तः कोऽपि श्रोत्रियैर्विविच्य व्याख्यातुं शक्यते यथा
ईदृगिति, तस्माद्वाचायुक्तिनूतनतामात्रमिह कृतं न त्वर्थः कश्चिदुत्प्रेक्ष्यते
इत्यलं प्रसङ्गेन ।
जात्याधारानुपपत्तिप्रदर्शनम् ।
अपि चेयं जातिः—
सर्वसर्वगता वा स्यात्पिण्डसर्वगता ऽपि वा ।
सर्वसर्वगतत्वे स्यात्कर्कादावपि गोमतिः ॥
अश्वधीः शाबलेयादावुष्ट्रबुद्धिर्गजादिषु ।
पदार्थसंकरश्चैवमत्यन्ताय प्रसज्यते ॥
अथापि व्यक्तिसामर्थ्यनियमान्नैष संकरः ।
न हि कर्कादिपिण्डानां गोत्वादिव्यक्तिकौशलम् ॥
मैवं खण्डाद्यभिव्यक्तमपि गोत्वमनंशकम् ।
( १ ) श्लोकवार्तिक सू० ४ श्लो० १४६ । न चाप्ययुतसिद्धानां सम्बन्धित्वेन
कल्पना । इति कारिकापूर्वार्द्धम् । अयमर्थः वैशेषिकाः जातिव्यक्त्योरेकान्तभेदमेवा-
ङ्गीकृत्य समवायसम्बन्धं मन्यन्ते यदाहुः 'अयुतसिद्धानामाधार्याधारभूतानामिहप्रत्यय-
हेतुर्यः सम्बन्धः स समवाय' इति अयुतसिद्धिश्चापृथक्सिद्धिः, तान्निराचष्टे न चेति ।
अनिष्पन्नस्य घटादेः सामान्येन सम्बन्धो न सम्भवति निष्पत्तौ च युतसिद्धता इति
अपृथक्सिद्धत्वानुपपत्तिरिति ।
३५ न्या०