सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 260, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 260

२३८ न्यायमञ्जर्याम्
वेद एव ज्यायान् ।
यत्तु मानवं वाक्यमुदाहृतं षट्त्रिंशदाब्दिकं तत्त्रिवेदाध्ययनविषयं वैक-
ल्पिकं वेदानधीत्य वेदौ वा वेदं वा ऽपि यथाक्रममिति एकस्मिन्वेदे द्वाद-
शवर्षाणि व्रतं द्वयोश्चतुर्विंशतिः त्रयाणां षट्त्रिंशदिति, यस्तु चतुरो वेदान-
धीते तस्याष्टचत्वारिंशद्वर्षं वेदब्रह्मचर्यमुपासीतेति स्मृत्यन्तरमस्ति न च तदा-
यैर्नादृतम् , तत्र त्रिवेदाध्यायिनामेव प्रतिवेदं षोडशवर्षाणि व्रतं चरेदिति व्या-
ख्यानमसङ्गतम्, उपक्रमविरोधाद् अनुपयोगाच्च, तेन वेदान्तराध्ययनकृत ए-
वायं विकल्पविधिर्न द्वादशषोडशवर्षापेक्षेत्यनादरो ऽप्यस्यां स्मृतौ कृष्णकेशो
ऽग्नीनादधीतेति श्रुतिविरोधकृत्तो नाथर्ववेदाध्ययननिषेधगर्भ इति, त्रैवेदिकव्रत-
ब्रह्मचर्यस्मृतिरपि चेयम् अथर्ववेदाध्ययनपर्युदासमेव विषयीकरोति न च वेदा-
न्तराध्ययननिषेधमिति अत्रापि न विशेषहेतुरस्ति, त्रिषु वेदेष्विदं व्रतं न पुन-
रेष्वेव त्रिष्विति नियामकं वचनमस्ति ।
यदपि श्राद्धप्रकरणे यत्नेन भोजयेदितित्रिवेदपारगपरिकीर्त्तनं तद्वेदपारग-
मिति शाखान्तरगमिति समाप्तिगमिति विशेषणपदपर्यालोचनया ऋग्वेदाद्येक-
वेदाध्यायिनामनधिकारमेव श्राद्धे सूचयति अथर्वणस्तु अथर्वशिरो ऽध्ययनमा-
त्रलब्धपङ्क्तिपावनभावस्यैकदेशपाठिनो ऽपि तत्राधिकार उपपद्यते, दर्शितं
चाथर्वशिरोऽध्ययनमात्रादपि पङ्क्तिपावनत्वं पङ्क्तिपावनश्च श्राद्धभोजने ऽन-
धिकृत इति विप्रतिषिद्धम् ।
यत्तु ज्येष्ठसामगस्त्रिमधुस्त्रिसुपर्णिक इति वेदान्तरैकदेशाध्यायिनामपि
श्राद्धभोजनाभ्यनुज्ञानं तदनुकल्परूपमिव भाति प्रथमकल्पेन समग्रवेदाध्ययनो-
पदेशादिति, तस्मान्नाथर्वनिषेधार्थमेतद्वाक्यमिति, तदेवमवस्थिते यद्वार्त्तिकका-
रेण भयादिव द्वेषादिव मोहादिव सानुकम्पमिव वेदमूच्यते(१) यदि यज्ञोपयो-
गित्वमित्यादि तदहृदयङ्गमम् , अथर्ववेदे पूर्वोत्तरब्राह्मणे विस्पष्टमिष्टिपश्वेका-
हाहीनसत्राणामुपदेशात्, वेदान्तरेषु तच्चोदनाभावात्किमथर्ववेदे तदुपदेशेनेति
चेत् सुभाषितमिदम् , एवमपि हि वक्तुं शक्यम् अथर्ववेदे तच्चोदनाया दर्शनात्किं
तदुपदेशेनेति, न च जाने कस्यैष पर्यनुयोगः किं नित्यस्य वेदस्य किं वा तत्प्र-
णेतुरीश्वरस्येति द्वावपि हि तावपर्यनुयोज्यावित्युक्तम् , अर्थान्तरशान्तिपुष्ट्यभि-
चारादि वेदान्तरेष्वपि न न दृश्यते श्येनो हि सामवेदे उत्पन्नः अद्भुतशान्त्या-
दयश्च यजुर्वेदेइति तदपि समानम्, एकब्रह्मर्त्विगाश्रिता इत्येतदपि न सत्यम्,
यत एवं तत्र पठ्यते द्वे यज्ञवृत्ती भवतो वैहारिकी च पाकयज्ञवृत्तिश्चोत तत्र
वैहारिकी नानानेकर्त्विगाश्रितानामेकक्रियाणामुपदेशः श्रुतावेकब्रह्मर्त्विगाश्रिता-
( १ ) तन्त्रवार्त्तिके अ १ पा० ३ सू० ४ ।