न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 257, कुल 654 में से
संदर्भ में पढ़ें[Header] प्रमाणप्रकरणम् २३५
वृणीष्व स हि हौत्रं वेद यजुर्विद्मेवाध्वर्युं वृणीष्व स हि आध्वर्यवं वेद सा-
मविद्मेवोद्गातारं वृणीष्व स हि औद्गात्रं वेद अथर्वाङ्गिरोविद्मेव ब्रह्माणं
वृणीष्व स हि ब्रह्मत्वं वेदेति एवमभिधाय पुनराह अथ चेन्नैवम्विधं होतारम-
ध्वर्युमुद्गातारं ब्रह्माणं वा वृणुते पुरस्तादेव वैषां यज्ञो रिष्यतीति तस्मादृग्वि-
दमेव होतारं कुर्याद् यजुर्विद्मेवाध्वर्युं सामविद्मेवोद्गातारम् अथर्वाङ्गिरसो-
विद्मेव ब्रह्माणमिति, तथा यज्ञे यदूनं च विरिष्टं च यातयामं च करोति तद्-
थर्वणां तेजसाप्याययतीति अथानन्ते भृग्वङ्गिरोभ्यः सोमः पातव्य इति ।
अथर्ववेदस्य त्र्यात्मकत्वम्—
नन्वेताः श्रुतीरथर्वाण एवाधीयते नान्ये त्रयीविदः ते त्वेनां पठन्ति यहचा
हौत्रं क्रियते यजुषा ऽऽध्वर्यवं साम्ना औद्गात्रम् अथ केन ब्रह्मत्वं क्रियते इति
त्रय्या विद्ययेति ब्रूयादिति, तथा च यहचैव हौत्रमकुर्वत यजुषा ऽऽध्वर्यवं सा-
म्नोद्गात्रं यदेव त्रय्यै विद्यायै शुक्लं तेन ब्रह्मत्वमिति ।
उच्यते, वयमप्येवमादीनि वाक्यानि न नाधीमहि किं त्वेषामयमेवार्थोऽथ-
र्वाङ्गिरोविदेव ब्रह्मेति, कथम् , यतो न त्रयी नाम किमपि वस्त्वन्तरम् , अपि
तु त्रयाणां वेदानां समाहार इति, समाहारश्च समाह्रियमाणनिष्ठो भवति, समा-
ह्रियमाणाश्च ऋग्वेदादयस्त्रयो हौत्रादिपरत्वे चरितार्था न पुनस्तत्र भेदमर्हन्ति,
एकैकशः चरितार्थानां समुदायो ऽपि चरितार्थ एव, समुदायबुद्धौ हि विभज्य-
मानायां समुदायिन एव प्रस्फुरन्ति नावयविवदर्थान्तरं ते चान्यत्र व्यापृताः,
किं नु खलु ऋग्वेदादीनां ब्रह्मत्वं कुर्वतामतिभारो भवति, न ब्रूमः अतिभार
इति किं तु त्र्यात्मकत्वेन ब्रह्मत्वकर्तव्यतोपदिश्यते त्र्यात्मकश्चान्यतमो ऽपि
तेषां न भवति वेदः अथर्ववेदस्तु त्र्यात्मक एव, तत्र हि ऋचो यजूंषि सामानि
इति त्रीण्यपि सन्ति तेन ब्रह्मत्वं क्रियमाणं त्रय्या कृतं भवति ।
ननु यस्त्रीन्वेदानधीते तेन चेद् ब्रह्मत्वं क्रियेत तत्किं तया न कृतं भवति,
बाढमित्युच्यते सो ऽपि एकस्मै वा कामायान्ये यज्ञक्रतवस्समाह्रियन्ते सर्वेभ्यो ऽ
ज्योतिष्टोमः सर्वेभ्यो दर्शपूर्णमासाविति श्रुतावपि(१) योगसिद्ध्यधिकरणन्याये-
नान्यतममेव बुद्ध्वावादाय विदध्यान्न समुदायं बुद्धावारोपयितुं शक्नुयादित्येके-
नैतत्कृतं भवति न त्रय्येति ।
नन्वन्ये ऽपि त्र्यात्मका वेदाः यद्येवं सुतरामथर्ववेदो न पृथक् करणीयः
सर्वेषां रूपाविशेषात् , तेषां पृथक्प्रतिष्ठैः स्वैः स्वैर्ऋगादिभिरेव व्यपदेश इति
न ते समुदायशब्दव्यपदेश्याः, यत्तु वाक्यान्तरे त्रय्यै विद्यायै शुक्लं तेन ब्रह्मत्व-
मिति तत्रेयं चतुर्थी षष्ठ्याः स्थाने प्रयुक्ता शुक्रमिति सारमाचक्षते तेन त्रयी-
( १ ) जैमिनिसूत्रम् । अ० ४ पा० ३ सू० २७–२८