न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 258, कुल 654 में से
संदर्भ में पढ़ेंविद्यायाः सारेण ब्रह्मत्वं क्रियते इत्युक्तं भवति, न च त्रय्येव त्रय्याः शुक्लं
भवति न चात्यन्तं ततो ऽर्थान्तरमेव तेनेदमथर्ववेदात्मकमेव त्रय्याः शुक्लं, शु-
क्रमिति च गुह्यमाहुः, अथर्वशब्दो ऽपि रहस्यवचनो यज्ञाथर्वाणं चैकस्या इष्टय
इति, तेन त्रयीशुक्ररूपेणाथर्ववेदेन ब्रह्मत्वमितीत्थमथर्ववेदस्य न त्रयीबाह्यत्वमि-
त्थं सर्वशाखाप्रत्ययमेकं कर्मेति न सर्वशब्दः सङ्कोचितो भवति, अत एव ब्रह्मवेदो
ऽथर्ववेद इति पूर्वोत्तरब्राह्मणे पठ्यते ऋग्वेदो यजुर्वेदः सामवेदः ब्रह्मवेद इति,
तथा च काठकशताध्ययने ब्राह्मणे ब्रह्मोदने श्रूयते ब्रह्मवादिनो वदन्ति पुरा वा
औद्दालकिरारुणिरुवाच ब्रह्मणे त्वा प्राणाय जुष्टं निर्वपामि ब्रह्मणे त्वा व्यानाय
जुष्टं निर्वपामीत्युपक्रम्य आथर्वणो वै ब्रह्मणः समानो ऽथर्वणमेवैतज्जुष्टं निर्वपति
ऽतुः शरावे भवति चत्वारो हीमे वेदास्तानेव भागिनः करोति मूलं वै ब्रह्म-
णो वेदाः वेदानामेतन्मूलं यदृृत्विजः प्राश्नन्ति तद् ब्रह्मोदनस्य ब्रह्मोदनत्वमिति,
तथा सामवेदे पृष्ठ्यस्य चतुर्थेऽहन्यार्भवे पवमाने आथर्वणे साम्नोगानं यत्तद्विधाने
श्रूयते चतुर्विधमाथर्वणं भवति चतुरात्रस्य वृत्त्यै चतुष्पदामानुष्टुभा ऽनु-
ष्टुभमेवैतद्दर्शयच्चतुर्थं भेषजं वाथर्वाणं तद्धि भेषज्यमेव तत्करोत्याथर्वणानि
यागभेषजानीत्येतदालम्बनेयं स्तुतिरत् एव प्रागुक्तं यज्ञे यदूनं च विरिष्टं च
यातयामं च करोति तदथर्वणा तेजसाप्याययतीति तस्मादाथर्वण एव ब्रह्मेति,
एतच्च शास्त्रान्तरे विस्तरेणाभियुक्तैर्युक्तिभिरुपपादितमिति नेहात्यन्ताय
प्रतायते ।
यत्तु नाथर्वणेन प्रवृञ्ज्यादिति तत्कल्पसूत्रवाक्यत्वाद्देविरुद्धमित्यनाहृ-
तम् , अथापि श्रौतमिदं वाक्यं तदापि प्रकरणाधीतं चेत्तत्रव क चित्कर्मणि
निवेश्यते, अनारभ्यवादपक्षे ऽपि पूर्वोक्तवाक्यविसदृशार्थत्वादथर्ववेदस्य च
त्रयीबाह्यत्वेन सम्पर्कपरिहारार्हत्वान्नियतविषयमेव व्याख्यास्यते ।
यदप्युच्यते उच्चैर्ऋचा क्रियते उच्चैःसाम्नोपांशु यजुषेतिवदथर्वधर्मो ऽपि
न कश्चिदाम्नात इति तदप्यसारम् , मन्त्रधर्मो ह्ययमुपदिश्यते न वेदधर्मः।
मन्त्रब्राह्मणसमुदायस्वभावा हि चत्वार इमे वेदग्रन्था मन्त्रास्तु ते गद्यपद्यभे-
दाद् द्विधैव गद्यबन्धो यजुरुच्यते पद्यबन्ध ऋगिति गीतिनिबन्धनं तु भेदान्तरं
सामेति, अत एव जैमिनिना मन्त्रविभागं प्रस्तुत्य(१) तेषामृग्यत्रार्थवशेन
पादव्यवस्था, गीतिषु सामाख्या, शेषे यजुः शब्द, इत्थमेव तेषां त्रैविध्यमुपपा-
दितम् , तेषामेव चायमुच्चैरादिधर्मो न वेदशब्दवाच्यानां मन्त्रब्राह्मणसमुदा-
यात्मनां ग्रन्थानाम् , अथर्ववेदेपीयं त्रिविधैव मन्त्रजातिरिति तत्रापीदं धर्म-
( १ ) प्रकरणादीनामिति मूले पाठः ।
( २ ) जैमिनिसूत्रम् । अ० २ पा० १ सू० ३५-३६-३७ ।