न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 255, कुल 654 में से
संदर्भ में पढ़ेंनन्वितिहासपुराणानि पञ्चम इति तत्र पठ्यते एव, किं चातः, किमियता
ऽऽथर्वणश्चतुर्थो न भवति वेदः, चतुर्थशब्दोपादानादितिहासादितुल्यो ऽसौ न
वेदसमानकक्ष इति चेत् केयं कल्पना, चतुर्थशब्दोपादानादप्राधान्ये त्रयो
वेदा असृज्यन्तेत्यादौ त्रित्वसंख्योपादानात्ते ऽपि न प्रधानतामधिगच्छेयुः,
इतिहासादिभिर्वा सह परिगणनमप्राधान्यकारणं यदुच्यते तदपि सर्ववेदसाधा-
रणमिति यत्किंचिदेतत्, तथा शताध्ययने ऽपि ऋचो वै ब्रह्मणः प्राणा इत्य-
भ्युपक्रम्य आथर्वणो वै ब्रह्मणः समान इति पठ्यते, तथा ये ऽस्योदञ्चो रश्म-
यस्ता एवास्योदीच्यो मधूनाड्यो ऽथर्वाङ्गिरस एव मधुकृत इति(१), तथा
तैत्तिरीये(२) तस्माद्वा एतस्मात्प्राणमयादन्योन्तर आत्मा मनोमय इति प्रस्तुत्य
तस्य यजुरेव शिरः ऋग्दक्षिणः पक्षः सामोत्तरः पक्षः आदेश आत्माऽथर्वाङ्गि-
रसः पुच्छं प्रतिष्ठेति पठ्यते, तथान्यत्र(३) ऋचां प्राची महती दिगुच्यते
दक्षिणामाहुर्यजुषां साम्नामुत्तराम् अथर्वणामङ्गिरसां प्रतीची महती दिगुच्यते
ति, शतपथे ब्रह्मयज्ञविधिप्रक्रमे “मध्यमे पयआहुतयो वा एता देवानां यदृच
युपक्रम्य मेदआहुतयो वा एता देवानां यदथर्वाङ्गिरसः स्म य एवं विद्वानथ-
र्वाङ्गिरसो ऽहरहः स्वाध्यायमधीते मेदआहुतिभिरेव देवान् स तर्पयति त एनं
तृप्तास्तर्पयन्ति”(४) इति, मन्त्रा अपि तदर्थप्रकाशनपरा अनुश्रूयन्ते, (५)“त्वा-
मग्ने पुष्करादध्यथर्वा निरमन्थत” इत्यादयो न चैषामथर्वा नाम कश्चिदृषिरित्येवं-
प्रकारं व्याख्यानं युक्तम् अन्यत्राप्यसमाश्वासप्रसङ्गात्, इत्येवंजातीयकास्तावदु-
दाहृताः श्रुतिवाचः, स्मृतिवाक्यानि खल्वपि मनुस्तावत्, “श्रुतीरथर्वाङ्गिरसीः
कुर्यादित्यभिचारयन्” इति श्रुतिशब्देन त्रयीवद् व्यवहरति याज्ञवल्क्यः चतु-
र्दशविद्यास्थानानि गणयन्—
पुराणतर्कमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दशेति ॥
चतुर एव वेदानावेद्यते, नान्यथा हि चतुर्दशसंख्या पूर्यते, स्मृत्यन्तरे च
स्पष्टमेवोक्तम्—
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दशेति ॥
(१) छान्दोग्योपनिषदि प्र० ३ खण्ड ३ ।
(२) ब्रह्मोपनिषदि अ० ३ ।
(३) तैत्तिरीयब्राह्मणे अन्तिमप्रपाठके अ० १० ।
(४) काण्ड० ११ प्र० ३ ब्राह्मणम् ८ ।
(५) तैत्तिरीयसंहिता अ० ३ प्र०५ अ० ११ ।
३० न्या०