न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 254, कुल 654 में से
संदर्भ में पढ़ेंस्मृतिरपि मानवी प्रतिवेदं द्वादशवार्षिकब्रह्मचर्योपदेशिनी दृश्यते षट्त्रिंशदार्षि-
कं चर्यं गुरौ त्रैवेदिकं व्रतमिति, श्राद्धप्रकरणे ऽपि(१) ।
यत्नेन भोजयेच्छ्राद्धे बह्वृचं वेदपारगम् ।
शाखान्तगमथाध्वर्युं छन्दोगं वा समाप्तिगमिति ॥
त्रिवेदपारगानेव श्राद्धभुजो ब्राह्मणान् दर्शयति नाथर्ववेदाध्यायिनः प्रत्यु-
निषेधः क चिदुपदिश्यते तस्मादाथर्वणं न प्रवृञ्ज्यादिति ।
अथर्ववेदप्रामाण्याक्षेपपरिहारः
एवमाक्षेपे सति केचिदाचक्षते—
यदि यज्ञोपयोगित्वं नेहास्याथर्वणश्रुतेः ।
अर्थान्तरे प्रमाणत्वं केनास्याः प्रतिहन्यते ॥
शान्तिपुष्ट्यभिचारार्था एकब्रह्मर्त्विगाश्रिताः ।
क्रियास्तया प्रमीयन्ते त्रय्येवात्मीयगोचर इति ॥
एवं तत्तु सर्वं न साध्वभिधीयते, तथा हि तत्प्रमाणं बादरायणस्यान-
त्वादिति(२) य एष वेदप्रामाण्याधिगतौ जैमिनिना निरदेशि पन्थाः यो
ऽक्षपादेन कणादेन प्रकटितः तद्वचनादाम्नायस्य प्रामाण्यमिति मन्त्रायुर्वेदप्रामाण्य-
वच्च तत्प्रमाण्यमाप्तप्रामाण्यादिति स चतुर्ष्वपि वेदेषु तुल्यः, तत्र विशेषतुषो ऽपि
न कश्चिदस्ति प्रयत्नेनान्विष्यमाणः प्राप्यते, न हि मीमांसकपक्षे एवं वक्तुं श-
क्यते त्रय्येवानादिमती नाथर्वणश्रुतिस्तस्यां कर्तृस्मरणसम्भवादिति, नापि नैया-
यिकादिपक्षे एवं शक्यम् आप्तप्रणीतास्त्रयो वेदाः चतुर्थस्तु नाप्तप्रणीत इति, तेन
प्रामाण्याधिगमोपायाविशेषात्समानयोगक्षेमतया चत्वारो ऽपि वेदाः प्रमाणम् ।
व्यवहारो ऽपि सर्वेषां सारेतरविचारचतुरचेतसां चतुर्भिरपि वेदैश्चतुर्णां
वर्णानामाश्रमाणां चतसृषु दिक्षु चतुरुधिमेखलायामवनौ प्रसिद्ध इति को ऽय-
मत्रान्यथात्वभ्रमः, श्रुतिस्मृतिमूलश्चार्यावर्त्तनिवासिनां भवति व्यवहारः, ते
च श्रुतिस्मृती चतुरो ऽपि वेदान् समानकक्षानभिददतः, ऋग्यजुःसामवेदेष्वपि
अथर्ववेदाशंसीनि भूयांसि वचांसि भवन्ति, तथथा शतपथे अथ तृतीये ऽहनी-
त्युपक्रमस्याश्वमेधे परिलवाख्याने सो ऽयमाथर्वणो वेद' (३)इति श्रूयते, छा-
न्दोग्योपनिषदि(४) च "ऋग्वेदः यजुर्वेदः सामवेद आथर्वणः चतुर्थ" इति
पठ्यते ।
( १ ) मनुस्मृतौ अ० ३ श्लो० १४५ ।
( २ ) जैमिनिसूत्रम् अ० १ पा० १ सू० ५ ।
( ३ ) प्रकरणम् १३ प्रपाठक ३ कण्डिका ७ ।
( ४ ) सप्तमप्रपाठके ६ खण्डे ।