न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 253, कुल 654 में से
संदर्भ में पढ़ेंप्रमाणप्रकरणम् २३१
अनादिरेवेश्वरकर्तृको ऽपि सदैव सर्गप्रलयप्रबन्धः ।
सर्गान्तरेष्वेव च कर्मबोधो वेदान्तरेभ्यो ऽपि जनस्य सिध्येत् ॥
अन्यत्वे किं प्रमाणं ननु तव सुमते किं तदैक्यप्रमाणं
ध्वस्तं तावत्समस्तं भुवनमिति तदा वेदनाशो ऽप्यवश्यम् ।
एकस्त्वीशो ऽवशिष्टः स च रचयति वा प्राक्तनं संस्मरेद्वा
वेदे स्वातन्त्र्यमस्मान्नियतमुभयथा ऽप्यस्ति चन्द्रार्धमौलेः ॥
एकस्य तस्य मनसि प्रतिभासमानो
वेदस्तदा हि कृतकान्न विशिष्यते ऽसौ ।
प्रत्यक्षसर्वविषयस्य तु नेश्वरस्य
युक्ता स्मृतिः करणमेव ततो ऽनवद्यम् ॥
तेनाप्तनिमित्ततयैव निरत्ययार्थ-
संप्रत्ययोपजननाय जनस्य वेदे ।
शास्त्रं सुविस्तरमपास्तकुतर्कमूल-
मोहप्रपञ्चमकरोन्मुनिरक्षपादः ॥
अथर्ववेदप्रमाण्याक्षेपः ।
अत्र कश्चिदाह, युक्तमितरेतरव्यतिषक्तार्थोपदेशित्वेनैककर्तृकत्वानुमानद्वा-
रकंत्रिवेद्याः प्रामाण्यम् , अथर्ववेदस्य तु त्रय्याम्नातधर्मोपयोगानुपलब्धेस्त्रयीबा-
ह्यत्वेन तत्समानयोगक्षेमत्वम् , अनपेक्षत्वलक्षणप्रामाण्यपक्षे ऽपि विचित्रशाखा-
न्तरोपदिष्टविशिष्टज्योतिष्टोमाद्यनेक कर्मानुप्रविष्टहौत्राध्वर्यवादि व्यापारव्यतिष-
[