सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 252, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 252

२३० न्यायमञ्जर्याम्
नाप्यनुमानम् अन्वयव्यतिरेकाभ्यां तृप्तिभोजनयोरिव स्वर्गयागयोः साध्य-
साधनसम्बन्धानवधारणात्, जगद्वैचित्र्यान्यथाऽनुपपत्त्या तु विचित्रं कारण-
मात्रमनुमीयते न च तावता ऽनुष्ठानसिद्धिः, उक्तं च--
अधर्मे धर्मरूपे वा ऽप्यविभक्ते फलं प्रति ।
किमप्यस्तीति विज्ञानं नराणां कोपयुज्यते इति ॥
उपमानं त्वत्र शङ्क्यमानमपि न शोभते, नापि परस्परमुपदिशन्तो लौकिकाः
कर्माणि परलोकफलानि जानी्युरिति वक्तुं युक्तम्, अज्ञात्वा उपपादयतामा-
प्तत्वायोगात् , ज्ञानं तु लौकिकानां दुघर्टं प्रमाणाभावाद् इत्युक्तत्वात् , एवमेव
हि पुरुषोपदेशपरम्पराकल्पनायामन्धपरम्परान्यायः स्यात् , तस्मादवश्यमभ्युप-
गतपरलोकैः परलोकफलानि कर्माणि कुर्वद्भिः शास्त्रात्कर्मावबोधो ऽभ्युपग-
न्तव्यः, शास्त्रं च वेदा एवेति सिद्धं तत्प्रामाण्यम् ।
ननु लोकप्रसिद्धित एव धर्माधर्मसाधनानि कर्माणि ज्ञास्यन्ते किं शास्त्रेण,
उपकारापकारो हि धर्माधर्मयोर्लक्षणमिति प्रसिद्धमेवैतत्, तथा ऽऽह व्यासः--
इदं पुण्यमिदं पापमित्येतस्मिन् पदद्वये ।
आचण्डालं मनुष्याणामल्पं शास्त्रप्रयोजनमिति ॥
नैतद्युक्तं लोकप्रसिद्धेर्निर्मूलायाः प्रमाणत्वानुपपत्तेः, लोकप्रसिद्धर्नाम लौ-
किकानामविच्छिन्ना स्मृतिः, स्मृतिश्च प्रभवन्ती प्रमाणान्तरमूला भवति न
स्वतन्त्रेत्यवश्यमस्या मूलमन्वेषणीयम् , तच्च प्रत्यक्षादि नोपपद्यते इति नूनं
शास्त्रमूलैव लोकप्रसिद्धिः, विरुद्धनेकप्रकारत्वाच्च लोकप्रसिद्धेर्न तस्यां स्वतन्त्रा-
यां समाश्वसिति लोकः, न चोपकारकमात्रलक्षणावेव धर्माधर्मौ वक्तुं युज्येते
जपशीधुपानादौ तदभावात्, गुरुदारगमनादौ च विपर्ययादित्यवश्यं शास्त्रशर-
णावेव तावेषितव्यौ ।
अपि चेदमिष्टिमन्त्रादिकमेव फलम् अयमस्मिन्नधिकृत इति इयमितिकर्त्त-
व्यता एप देशः इमे ऋत्विजः इत्यादि किं लोकप्रसिद्धेरधिगन्तुं शक्यते, तस्मा-
दवश्यं शास्त्राधीन एव विशिष्टकर्मावबोध एषितव्यः, शास्त्रं च वेद एवेत्युक्तम् ,
अतस्तस्य निर्विवादसिद्धमेव प्रामाण्यमिति ।
एवं तु वर्ण्यमाने संसारानादित्वं तावदुक्तं स्यात्, वेदस्यानादित्वं कर्म-
ज्ञानानादित्वात् , यश्च मीमांसकवर्त्मनैव प्रमाणता सिद्ध्यति नाप्तवादात् ,
तस्माद्यथोदाहृत एव मार्गः प्रमाणतायामनुवर्त्तनीयः, अथ वा--
वयमपि न विशिष्मो ऽनादिसंसारपक्षं
युगपदखिलसर्गध्वंसवादे तु भेदः ।
अकथि च रचनानां कार्यता तेन सर्गा-
त्प्रभृति भगवतेदं वेदशास्त्रं प्रणीतम् ॥