न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 251, कुल 654 में से
संदर्भ में पढ़ेंप्रमाणप्रकरणम् २२९
तस्मादाप्तोक्तत्वस्य सिद्धमायुर्वेदादौ व्याप्तिग्रहणम् , व्याप्तिप्रदर्शनायैव
सूत्रकृता “स द्विविधो दृष्टादृष्टार्थत्वात्”(१) इत्युक्तम् , दृष्टार्थशब्दे गृहीताविना-
भावमाप्तोक्तत्वम् अदृष्टार्थे ऽपि प्रामाण्यं साधयतीति, अत एवोक्तम् , “मन्त्रा-
युर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्” इति(२) ।
नन्वत्रापि न वैद्यकं विरचयन्दृष्टो मुनिः सर्ववि-
त्दूव्याप्तिग्रहणं जने यदि वृथा ऽऽयुर्वेदसङ्कीर्त्तनम् ।
सत्यं किं तु दृढा तथा ऽपि चरकाद्याप्तस्मृतिर्वैद्यके
नासौ चार्यनिबन्धनेति कथिता तस्येह दृष्टान्तता ॥
इत्यायुर्वेदवाक्यप्रभृतिषु भवति व्याप्तिराप्तोक्ततायाः
पूर्वोक्तेन क्रमेण स्फुटमकथि तथा पक्षधर्मत्वमस्याः ।
न प्रत्यक्षागमाभ्यामपहृतविषया न