सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 249, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 249

प्रमाणप्रकरणम् । २२७


कथमाप्तोक्तत्वस्य तत्र व्याप्तिग्रहणम् , नैतदेवम् , प्रत्यक्षादिसंवादात्सन्निश्चीयतां
नाम प्रामाण्यम् उत्थितं तु तदाप्तोक्तत्वात् , प्रत्यक्षादावप्यर्थक्रियाज्ञानसंवादा-
त्प्रामाण्यस्य ज्ञप्तिरूपपत्तिस्तु गुणवत्कारककृतेत्युक्तम् , नद्यादिवाक्यानि च वि-
प्रलम्भकपुरुषभाषितानि विसंवदन्ति लोके दृश्यन्ते, तेनाप्तप्रणीतत्वमेव तेषां
प्रामाण्यकारणं कारणशुद्धिमन्तरेण सम्यक्प्रत्ययानुत्पादात् , निश्चयापायस्तु
प्रत्यक्षं भवतु न तु तत्कृतमेव प्रामाण्यम् , अतो युक्तमाप्तोक्तताया आयुर्वेदा-
दौ व्याप्तिग्रहणम् ,
नन्वेवमपि न युक्तम् आप्तोक्तत्वस्य तत्र परिच्छेत्तुमशक्यत्वात् , अन्वय-
व्यतिरेकमूलमेवायुर्वेदवाक्यानां प्रामाण्यं नाप्तकृतम् , अन्वयव्यतिरेकौ च
यावत्येव दृश्येते तावत्येवार्थे प्रामाण्यं