न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 248, कुल 654 में से
संदर्भ में पढ़ें२३६ न्यायमञ्जर्याम्
आप्तोक्ततया वेदप्रामाण्यावगमनिरूपणम्
तस्मादाप्तोक्तत्वादेव वेदाः प्रमाणं न नित्यत्वात् , नन्वाप्तोक्तत्वस्य हेतोः
पक्षधर्मत्वं कथमवगम्यते न प्रत्यक्षेण क्षोणीधरधर्मत्वमिव धूमस्य वेदानामाप्त-
प्रणीतत्वमवगम्यते श्रवणयुगलकरणलब्धजन्मनि प्रत्यये वेदाख्यस्य शब्दरा-
शेरेव प्रतिभासात् , न चोदात्तादिवद्वर्णधर्मत्वेनाप्तोक्तत्वं गृह्यते, नाप्यनुमानम-
स्मिन्नर्थे सम्भवति लिङ्गाभावात् , प्रामाण्ये हि वेदस्याप्तोक्तत्वं लिङ्गम् आप्तो-
क्तत्वानुमितौ तु न लिङ्गान्तरमुपलभामहे इति कुतस्त्यः पक्षधर्मत्वनिश्चयः,
उच्यते, अलं सरखतीचोदेन उक्त एव पक्षधर्मत्वनिश्चयोपायः, तथाहि—
शब्दस्य साधितं तावदनित्यत्वं सविस्तरम् ।
रचनाः कर्तृमत्यश्च रचनात्वादिति स्थितम् ॥
[L