न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 250, कुल 654 में से
संदर्भ में पढ़ें[Page 228]
विस्तरविवक्षयैव चरकादयः कर्त्तारः न तु ते सर्वदर्शिनः, न च स्मृ-
तावन्धपरम्परादोषः समूलत्वात् , यथा व्याकरणस्मृतेः शिष्टप्रयोगो मूल-
मेवमिहान्वयव्यतिरेकौ शिष्टविरोधे सति यथा मूलविरोधिनी पाणि-
न्यादिस्मृतिरप्रमाणं तथा चाहुरिह न भवत्यनभिधानादिति एवं वैद्यस्मृतिर-
प्यन्वयव्यतिरेकविरुद्धा न प्रमाणमिति, तदेतदयुक्तम् , अन्वयव्यतिरेकयोर्यथोक्त-
नयेन परिच्छेदासम्भवेन तन्मूलत्वानुपपत्तेः, यदि ह्यन्वयव्यतिरेकाभ्यामशेष-
द्रव्यशक्तीर्निश्चित्य चरकादिभिर्विरचितं शास्त्रमितीदृशमन्वयव्यतिरेकित्वमु-
च्यते तदपाकृतम् , अद्यत्वे यावन्तावन्वयव्यतिरेकौ वयमुपलब्धुं शक्नुमः ता-
वद्भ्यां ताभ्यामेकदेशसंवादात्प्रामाण्यकल्पनात् तत्र प्रवर्त्तनं न तु तौ तावन्तौ
शास्त्रस्य मूलं भवितुमर्हतः सर्वैरस्मदादिभिस्तादृशशास्त्रप्रणयनप्रसङ्गात् ,
अनादित्वमपि शास्त्राणां वेदवदनुपपन्नम् , चरकादिकर्तृस्मृतेः कालिदासादि-
स्मृतिवदविगीतत्वात् , न च चिकित्सास्मरणप्रबन्ध एवमनादिः तथात्वे ऽन्ध-
परम्पराकारणानवधारणात् , न च तदुक्तं तन्मूलं भवितुमर्हति व्युदस्तत्वात् ,
तस्मात्सर्वज्ञप्रणीत एवायुर्वेदः ।
ननु अविदुषामुपदेशो नावकल्पते इति विद्वांसः चरकाद्यः कल्प्यन्तां
ते तु प्रत्यक्षेणैव सर्वं विदितवन्त इत्यत्र किं मानम् , उच्यते, अन्व-
यव्यतिरेकयोर्निरासान्नानुमानस्यैष विषयः, वेदमूलत्वमपि मन्वादिस्मृति-
वद्युक्तं कल्पयितुं कर्तृसामान्यासम्भवादिति वर्णयिष्यामः, पुरुषान्तरोप-
देशपूर्वकत्वे चरकेणैव किमपराद्धम् , उपमानमनाशङ्कनीयमेवास्मिन्नर्थे,
अर्थापत्तिस्तु न प्रमाणान्तरम् , अप्रमाण्यं तु नास्ति बहुकृत्वः संवाददर्शनात्,
अतः परिशेषात्प्रत्यक्षीकृतदेशकालपुरुषद्दशाभेदानुसारिसमस्तव्यस्तपदार्थसार्थ-
शक्तिनिश्चयाश्चरकादय इति युक्तं कल्पयितुम् , यद्येवं कथं तर्हि सोमराज्या-
दिवाक्येषु व्यभिचारः व्यभिचारे चार्धजरतीयमित्युक्तम् , नैष दोषः, कर्म-
कर्तृसाधनवैगुण्यादेषु व्यभिचारो भविष्यति, वैदिकेषु च कर्मसु मीमांसकस्य
समानो दोषः।
कारीर्यादौ का ते वार्त्ता यस्यां न स्याद्दिवौ वृष्टिः ।
वैगुण्यं चेत्कर्त्रादीनामत्राप्येवं शक्यं वक्तुम् ॥
यदि विधुरमभुक्तं कर्म शास्त्रीयमन्यत्
फलविघटनहेतुः कल्प्यते सो ऽपि तुल्यः ।
क्व चिदथ फलसंपद् दृश्यते तत्प्रयोगे
तदिह दृढशरीराः सन्ति दीर्घायुषश्च ॥
आयुर्वेदेश्च तस्मादाप्तकृतो नान्यमूल इति सिद्धम् ।
एवं फलवेदादौ प्रकाशामाप्तपणीतत्वम् ॥