न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 247, कुल 654 में से
संदर्भ में पढ़ेंप्रमाणप्रकरणम् २२५
इति(१) यत्त्वयोच्यते तदस्माभिर्न मृष्यते, 'शब्दवृद्धाभिधेयांश्च प्रत्यक्षेणात्र पश्य-
ति' इति सत्यं “श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया” इत्येतदपि सत्यम् , “अ-
न्यथाऽनुपपत्त्या तु बुध्येच्छक्तिं द्वयात्मिकाम्” इत्येतत् न सत्यम् , अन्यथा
ऽप्युपपत्तेरित्युक्तत्वात् , तस्माद् द्विप्रमाणकः सम्बन्धनिश्चयो न त्रिप्रमाणकः,
तदेवं शब्दस्य नैसर्गिकशक्त्यात्मकसम्बन्धाभावादीश्वरविरचितसमयनिबन्धनः
शब्दार्थव्यवहारो नानादिः ।
नन्वीश्वरोऽपि सम्बन्धं कुर्वन्नवश्यं केन चिच्छब्देन करोति तस्य केन कृतः
सम्बन्धः, शब्दान्तरेण चेत्तस्यापि केन कृतस्तस्यापि केनेति न कश्चिदवधि-
स्तस्मादवश्यमनेन सम्बन्धं कुर्वता वृद्धव्यवहारसिद्धाः केचिदकृतसम्बन्धा एव
शब्दा अभ्युपगन्तव्या अस्ति चेद्व्यवहारसिद्धिः किमीश्वरेण किं वा तत्कृतेन
समयेनेत्यनादिपक्ष एव श्रेयान्, उच्यते—
अस्त्रमायुष्मता ज्ञातं विषयस्तु न लक्षितः ।
अस्मदादिषु दोषो ऽयमीश्वरे तु न युज्यते ॥
नानाकर्मफलस्थानमिच्छयैवेदृशं जगत् ।
स्रष्टुं प्रभवतस्तस्य कौशलं को विकल्पयेत् ॥
इच्छामात्रेण पृथिव्यादेरितः कार्यस्य करणमस्मदादीनां यन्मनोरथपद-
वीमपि नाधिरोहति तदपि यतः सम्पद्यते तस्य कियानयं प्रयासः, तदत्रेश्वर-
सद्भावे परं विप्रतिपत्तयः, तस्मिंस्तु सिद्धे क एवंविकल्पानामवसरः, उक्तं च
तत्सिद्धौ निरपवादमनुमानम् , वयं तु न कर्त्तार एव सम्बन्धस्य यत एवमनु-
युज्येमहि—
अङ्गुल्यग्रेण निर्दिश्य कं चिदर्थं पुरः स्थितम् ।
व्युत्पादयन्तो दृश्यन्ते बालानस्मद्विधा अपि ॥
तस्मादीश्वरविरचितसम्बन्धाधिगमोपायभूतवृद्धव्यवहारलब्धतद्व्युत्पत्ति-
सापेक्षः शब्दो ऽर्थमवगमयतीति सिद्धम् , न च नित्यसम्बन्धाभावे ऽपि शब्द-
स्यार्थास्पर्शित्वं समयबलेनार्थप्रत्ययस्याबाधितस्य सिद्धेरित्युक्तत्वादित्यलं
विस्तरेण।
तस्मात्पदे च वाक्ये च सम्बन्धे च स्वतन्त्रता ।
पुरुषस्योपपन्नेति वेदानां तत्प्रणीतता ॥
( १ ) न ह्यसौ ज्ञातसम्बन्धो विनाऽन्यैर्व्यवहर्तृभिः । शब्दवृद्धाभिधेयांश्च प्रत्यक्षे-
णात्र पश्यति ॥ १४० ॥ श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया । अन्यथाऽनुपपत्त्या च
बुध्येच्छक्तिं द्वयाश्रिताम् ॥ १४१॥ अर्थापत्त्यावबुध्यन्ते सम्बन्धं त्रिप्रमाणकम् ।।
इति सम्बन्धाक्षेपपरिहारे श्लोकवार्त्तिके ।
२९ न्या०