न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 246, कुल 654 में से
संदर्भ में पढ़ेंऽप्युपपत्तेः, सर्वशक्तियोगे च सर्वार्थप्रत्ययप्रसङ्गः, समयोपयोगो नियामक
इति चेत् स एवास्तु किं शक्तिभिः ।
यदप्यगादि शब्दश्रवणे सति सर्वार्थविषयसन्देहदर्शनात्सर्वत्र तस्य शक्तिः
कल्प्यते इति तदप्यसारम् , न हि शक्तिकृतः सन्देहः किं तु गत्वादिवर्ण-
सामान्यनिबन्धनः तथा च गत्वादिजातिमत्तां वर्णानामर्थे वाचकत्वमवगतम् ,
अमी तज्जातियोगिनो वर्णाः कस्यार्थस्य वाचकाः स्युरिति भवति सन्देहः ।
यत्पुनरवादि स एव शब्दस्यार्थो यत्रैनमार्याः प्रयुञ्जते न म्लेच्छजन-
प्रसिद्ध इति तदेतत्कथमिव शपथमन्तरेण प्रतिपद्येमहि, न हि म्लेच्छ-
देशे ऽपि तदर्थप्रत्ययो न जायते बाध्यते वा सन्दिग्धो वेति कथं न
शब्दार्थः, आर्यप्रसिद्धिर्र्वाधिकेति चेद् आर्यप्रसिद्धेरपि म्लेच्छप्रसिद्धिः कथं न
बाधिका, अक्षादिवच्च विकल्पमानार्थोपपत्तेः व्यवस्थितविषय एव विकल्पो
भविष्यति, पिकनेमतामरसादिशब्दानां च भवद्भिः म्लेच्छप्रयोगादर्थनिश्चय
आश्रित एव, अवेष्ट्यधिकरणे(१) च राज्यशब्दमान्ध्रप्रसिद्धे ऽर्थे वर्णितवन्तो
भवन्त इत्यलमवान्तरचिन्तनेन, तस्मात्समय एव सम्बन्ध इति युक्तम् , तदुक्तं
जातिविशेषे चानियमादिति ।
अथ यदुक्तं समयः प्रत्युच्चारणं प्रतिपुरुषं च तत्करणम् अनभ्युपगत-
मेव दूषितम् , सर्गादौ सकृदेव समयकरणमिति नः पक्षः, अत एव न
सर्वशब्दानां यदृच्छातुल्यत्वम् , केषां चिदेव शब्दानाम्स्मदादिभिरद्यत्वे
सङ्केतकरणात्त एव यदृच्छाशब्दा उच्यन्ते, सर्गादिश्च समर्थित एव ईश्वर-
सिद्धावप्यविकल्पमनुमानमुपन्यस्तम् , एष एव चावयोर्विशेषो यदेष शब्दा-
र्थसम्बन्धव्यवहारस्तवानादिर्मम तु जगत्सर्गात्प्रभृति प्रवृत्त इति, अद्यत्वे
तु शब्दार्थसम्बन्धव्युत्पत्तौ तुल्य एवावयोः पन्थाः, तत्रापि त्वयं विशेषो
यत्तव शक्तिपर्यन्ता व्युत्पत्तिर्मम तु तदङ्गमिति, तथा चेयमीयती व्युत्पत्तिः
लोके दृश्यते यदयमस्य वाच्यो ऽयमस्य वाचक इति न पुनः शक्तिपर्यन्ता
व्युत्पत्तिरस्ति, तथा हि यत्र शृङ्गग्राहिकया शब्दमर्थं च निर्दिश्य सम्बन्धः
क्रियते तत्रेयन्तमेवैनं क्रियमाणं पश्यामः, अयमस्य वाच्यो ऽयमस्य वाचक
इति, यत्रापि च वृद्धेभ्यो व्यवहरमाणेभ्यो व्युत्पद्यते तत्रापीयदेवासौ जानाति
अयमर्थः अमुतः शब्दादनेन प्रतिपन्न इति न त्वनयास्य का चिच्छक्तिरस्तीति,
इयत्यैव च व्युत्पत्त्या शब्दार्थप्रत्ययोपपत्तेरस्याश्चापरिहार्यत्वादधिककल्पना-
वीजाभावाच्च न नित्यः शब्दार्थसम्बन्धः, अत एव च सम्बन्धस्त्रिप्रमाणक
( १ ) शाबरभाष्ये अ० २ पा० ३ सू० ३