सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 245, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 245

वतां च पटनिष्पत्तौ न च तत्र शक्तिरस्तीत्युक्तम् , न च कारणे कार्यं
सदिति सांख्यैरिव भवद्भिरिष्यते तस्यामसत्यामपि शक्तौ सामान्यविशेषसम्ब-
न्धस्य नियामकत्वान्न वाच्यवाचकयोर्व्यत्यय इति न शक्तिरूपः शब्दार्थयोः
सम्बन्धः, न च तयोरविनाभावे धूमाग्न्योरिव सम्बन्धः, तत्र हि सम्बन्धः
प्रतीयमान एव प्रनीयते धूमो ऽग्निं विना न भवतीति इह पुनरयमस्मात्प्रती-
यते इति एतावदेव व्युत्पत्तिपर्यवसानम् , अत एवावगतिपूर्वकैवावतिरिहेत्यनु-
मानाच्छब्दस्य भेद उक्त, प्रकाशकत्वमपि शब्दस्य समयप्रसादोपनतमेव न
स्वाभाविकम्, सांसिद्धिके हि तथात्वे भ्रमित्त्वादिप्रयुक्तादन्यतो वा यतः कुत
श्चिदभिनवादपि दीपादिव शब्दार्थप्रतीतिः स्यात् ,
यत्तु नैसर्गिके ऽपि प्रकाशकत्वे शब्दस्य धूमादेरिव ज्ञापकत्वात्संबन्धग्रह-
णसापेक्षत्वमुक्तं स एष विषम उपन्यासः, न हि धूमादेः प्रत्यायकत्वं स्वाभा-
विकम् अनलाविनाभावित्वं तु तस्य निजं बलं तत्र चागृहीते तस्मिन्प्रतीतिरेव
न जायते इति युक्तं तद्ग्रहणं प्रतीत्यर्थम्, इह तु प्रतीतिशक्तिरेव स्वाभाविकी
भवता ऽभ्युपगम्यते सा चेत्स्वाभाविकी किं व्युत्पत्त्यपेक्षेनेति, यद्योच्यते
प्रत्यायक इति प्रत्ययं दृष्ट्वा ऽवगच्छामो न प्रथमश्रवणे इति यावत्कृत्वः श्रुतेनेयं
संज्ञा ऽयं संज्ञीत्यवगम्यते तावत्कृत्वः श्रुतार्थविगम इति सो ऽयं समयोपयोग
एव कथितो भवति, संज्ञासंज्ञिसम्बन्धो हि समय एवोच्यते तदुपयोगमन्तरेण
प्रत्यायकत्वानवगमान्न स्वाभाविकी शक्तिः ।
यत्त्वभ्यधायि समयस्य ज्ञानात्मकत्वादात्मनि वृत्तिः न शब्दार्थयोरित्ये-
तदप्यचतुरश्रम्, तदाश्रयत्वाभावेऽपि ज्ञानस्य तद्विषयत्वोपपत्तेः,
यदप्यभाणि समयमात्रशरणे सृणिप्रतोदनादननिर्विशेषे शब्दे शब्दार्थं
प्रतिपद्यामहे इति व्यपदेशो न स्यादिति तदपि न किं चित्, नैसर्गिकशक्तिपक्षे
ऽपि शक्तेरर्थं प्रतिपद्यामहे न धूमादिति स्यात्, तदङ्गत्वादविनाभावादेर्न
तथा व्यपदेश इति चेत् तदितरत्रापि समानम् ।
धूमे हि व्याप्तिपूर्वत्वं शब्दे समयपूर्वता ।
नानयोस्तदपेक्षायां करणत्वं विहन्यते ॥
अपि च, लौकिको व्यपदेशः समयपक्षसाक्षितामिव भजते देवदत्तेनोक्तम्
अमुतः शब्दादमुमर्थं प्रतिपद्यस्वेति एवं हि व्यपदिशति लोकः, तस्मात्समय
एव, अतश्चैवं देशान्तरे सङ्केतवशेन तत एव शब्दादर्थान्तरप्रतिपत्तिः ।
नन्वत्रोक्तं सर्वशब्दाः सर्वार्थप्रत्यायनयुक्ता इति केन चिदर्थेन क चिद्व्यवहार
इति तदेतदयुक्तम् , शक्तीनां भेदाभेदविकल्पानुपपत्तेः, न शब्दस्वरूपाद्भिन्नाः
शक्तयः तथा ऽनवभासात् , अव्यतिरेके चैकस्माच्छब्दादनन्यत्वात्परस्परम-
व्यतिरेकस्तासां स्यात् , न च भिन्नकार्यानुमेया भिन्नाः शक्तयः कार्यभेदस्यान्यथा